श्रीरामतापनीयार्थं भक्तध्येयकलेवरम् । विकलेवरकैवल्यं श्रीरामब्रह्म मे गतिः ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ चिन्मयेऽस्मिन्महाविष्णौ जाते दशरथे हरौ । रघोः कुलेऽखिलं राति राजते यो महीस्थितः ॥ १॥ स राम इति लोकेषु विद्वद्भिः प्रकटीकृतः । राक्षसा येन मरणं यान्ति स्वोद्रेकतोऽथवा ॥ २॥ रामनाम भुवि ख्यातमभिरामेण वा पुनः । राक्षसान्मर्त्यरूपेण राहुर्मनसिजं यथा ॥ ३॥ प्रभाहीनांस्तथा कृत्वा राज्यार्हाणां महीभृताम् । धर्ममार्गं चरित्रेण ज्ञानमार्गं च नामतः ॥ ४॥ तथा ध्यानेन वैराग्यमैश्वर्यं स्वस्य पूजनात् । तथा रात्यस्य रामाख्या भुवि स्यादथ तत्त्वतः ॥ ५॥ रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते ॥ ६॥ चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः । उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥ रूपस्थानां देवतानां पुंस्त्र्यङ्गास्त्रादिकल्पना । द्वित्तत्वारिषडष्टानां दश द्वादश षोडश ॥ ८॥ अष्टादशामी कथिता हस्ताः शङ्खादिभिर्युताः । सहस्रान्तास्तथा तासां वर्णवाहनकल्पना ॥ ९॥ शक्तिसेनाकल्पना च ब्रह्मण्येवं हि पञ्चधा । कल्पितस्य शरीरस्य तस्य सेनादिकल्पना ॥ १०॥ ब्रह्मादीनां वाचकोऽयं मन्त्रोऽन्वर्थादिसंज्ञकः । जप्तव्यो मन्त्रिणा नैवं विना देवः प्रसीदति ॥ ११॥ क्रियाकर्मेज्यकर्तॄणामर्थं मन्त्रो वदत्यथ । मननान्त्राणनान्मन्त्रः सर्ववाच्यस्य वाचकः ॥ १२॥ सोऽभयस्यास्य देवस्य विग्रहो यन्त्रकल्पना । विना यन्त्रेण चेत्पूजा देवता न प्रसीदति ॥ १३॥ इति रामपूर्वतापिन्युपनिषदि प्रथमोपनिषत् ॥ १॥ स्वर्भूर्ज्योतिर्मयोऽनन्तरूपी स्वेनैव भासते । जीवत्वेन समो यस्य सृष्टिस्थितिलयस्य च ॥ १॥ कारणत्वेन चिच्छक्त्या रजःसत्त्वतमोगुणैः । यथैव वटबीजस्थः प्राकृतश्च महान्द्रुमः ॥ २॥ तथैव रामबीजस्थं जगदेतच्चराचरम् । रेफारूढा मूर्तयः स्युः शक्तयस्तिस्र एव चेति ॥ ३॥ इति रामतापिन्युओअनिषदि द्वितीयोपनिषत् ॥ २॥ सीतारामौ तन्मयावत्र पूज्यौ जातान्याभ्यां भुवनानि द्विसप्त । स्थितानि च प्रहितान्येव तेषु ततो रामो मानवो माययाधात् ॥ १॥ जगत्प्राणायात्मनेऽस्मै नमः स्या- न्नमस्त्वैक्यं प्रवदेत्प्राग्गुणेनेति ॥ २॥ इति रामतापिन्युपनिषदि तृतीयोपनिषत् ॥ ३॥ जीववाची नमो नाम चात्मारामेति गीयते । तदात्मिका या चतुर्थी तथा मायेति गीयते ॥ १॥ मन्त्रोयं वाचको रामो रामो वाच्यः स्याद्योगएतयोः । फलतश्चैव सर्वेषां साधकानां न संशयः ॥ २॥ यथा नामी वाचकेन नाम्ना योऽभिमुखो भवेत् । तथा बीजात्मको मन्त्रो मन्त्रिणोऽभिमुखो भवेत् ॥ ३॥ बीजशक्तिं न्यसेद्दक्षवामयोः स्तनयोरपि । कीलो मध्ये विना भाव्यः स्ववाञ्छाविनियोगवान् ॥ ४॥ सर्वेषामेव मन्त्राणामेष साधारणः क्रमः । अत्र रामोऽनन्तरूपस्तेजसा वह्निना समः ॥ ५॥ सत्त्वनुष्णगुविश्वश्चेदग्नीषोमात्मकं जगत् । उत्पन्नः सीतया भाति चन्द्रश्चन्द्रिकया यथा ॥ ६॥ प्रकृत्या सहितः श्यामः पीतवासा जटाधरः । द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः ॥ ७॥ प्रसन्नवदनो जेता घृष्ट्यष्टकविभूषितः । प्रकृत्या परमेश्वर्या जगद्योन्याङ्किताङ्कभृत् ॥ ८॥ हेमाभया द्विभुजया सर्वालङ्कृतया चिता । श्लिष्टः कमलधारिण्या पुष्टः कोसलजात्मजः ॥ ९॥ दक्षिणे लक्ष्मणेनाथ सधनुष्पाणिना पुनः । हेमाभेनानुजेनैव तथा कोणत्रयं भवेत् ॥ १०॥ तथैव तस्य मन्त्रस्य यस्याणुश्च स्वङेन्तया । एवं त्रिकोणरूपं स्यात्तं देवा ये समाययुः ॥ ११॥ स्तुतिं चक्रुश्च जगतः पतिं कल्पतरौ स्थितम् । कामरूपाय रामाय नमो मायामयाय च ॥ १२॥ नमो वेदादिरूपाय ओङ्काराय नमो नमः । रमाधराय रामाय श्रीरामायात्ममूर्तये ॥ १३॥ जानकीदेहभूषाय रक्षोघ्नाय शुभाङ्गिने । भद्राय रघुवीराय दशास्यान्तकरूपिणे ॥ १४॥ रामभद्र महेश्वास रघुवीर नृपोत्तम । भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च ते ॥ १५॥ त्वमैश्वर्यं दापयाथ संप्रत्याश्वरिमारणम् । कुर्विति स्तुत्य देवाद्यास्तेन सार्धं सुखं स्थिताः ॥ १६॥ स्तुवन्त्येवं हि ऋषयस्तदा रावण आसुरः । रामपत्नीं वनस्थां यः स्वनिवृत्त्यर्थमाददे ॥ १७॥ स रावण इति ख्यातो यद्वा रावाच्च रावणः । तद्व्याजेनेक्षितुं सीतां रामो लक्ष्मण एव च ॥ १८॥ विचेरतुस्तदा भूमौ देवीं संदृश्य चासुरम् । हत्वा कबन्धं शबरीं गत्वा तस्याज्ञया तया ॥ १९॥ पूजितो वायुपुत्रेण भक्तेन च कपीश्वरम् । आहूय शंसतां सर्वमाद्यन्तं रामलक्ष्मणौ ॥ २०॥ स तु रामे शङ्कितः सन्प्रत्ययार्थं च दुन्दुभेः । विग्रहं दर्शयामास यो रामस्तमचिक्षिपत् ॥ २१॥ सप्त सालान्विभिद्याशु मोदते राघवस्तदा । तेन हृष्टः कपीन्द्रोऽसौ स रामस्तस्य पत्तनम् ॥ २२॥ जगामागर्जदनुजो वालिनो वेगतो गृहात् । तदा वाली निर्जगाम तं वालिनमथाहवे ॥ २३॥ निहत्य राघवो राज्ये सुग्रीवं स्थापयत्ततः । हरीनाहूय सुग्रीवस्त्वाह चाशाविदोऽधुना ॥ २४॥ आदाय मैथिलीमद्य ददताश्वाशु गच्छत । ततस्ततार हनुमानब्धिं लङ्कां समाययौ ॥ २५॥ सीतां दृष्ट्वाऽसुरान्हत्वा पुरं दग्ध्वा तथा स्वयम् । आगत्य रामेण सह न्यवेदयत तत्त्वतः ॥ २६॥ तदा रामः क्रोधरूपी तानाहूयाथ वानरान् । तैः सार्धमादायास्त्राणि पुरीं लङ्कां समाययौ ॥ २७॥ तां दृष्ट्वा उदधीशेन सार्धं युद्धमकारयत् । घटश्रोत्रसहस्राक्षजिद्भ्यां युक्तं तमाहवे॥ २८॥ हत्वा बिभीषणं तत्र स्थाप्याथ जनकात्मजाम् । आदायाङ्कस्थितां कृत्वा स्वपुरं तैर्जगाम सः ॥ २९॥ ततः सिंहासनस्थः सन् द्विभुजो रघुनन्दनः । धनुर्धरः प्रसन्नात्मा सर्वाभरणभूषितः ॥ ३०॥ मुद्रां ज्ञानमयीं याम्ये वामे तेजप्रकाशिनीम् । धृत्वा व्याख्याननिरतश्चिन्मयः परमेश्वरः ॥ ३१॥ उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौ ततः । हनूमन्तं च श्रोतारमग्रतः स्यात्त्रिकोणगम् ॥ ३२॥ भरताधस्तु सुग्रीवं शत्रुघ्नाधो बिभीषणम् । पश्चिमे लक्ष्मणं तस्य धृतच्छ्रत्रं सचामरम् ॥ ३३॥ तदधस्तौ तालवृन्तकरौ त्र्यस्रं पुनर्भवेत् । एवं षट्कोणमादौ स्वदीर्घाङ्गैरेष संयुतः ॥ ३४॥ द्वितीयं वासुदेवाद्यैराग्नेयादिषु संयुतः । तृतीयं वायुसूनुं च सुग्रीवं भरतं तथा ॥ ३५॥ बिभीषणं लक्ष्मणं च अङ्गदं चारिमर्दनम् । जाम्बवन्तं च तैर्युक्तस्ततो धृष्टिर्जयन्तकः ॥ ३६॥ विजयश्च सुराष्ट्रश्च राष्ट्रवर्धन एव च । अशोको धर्मपालश्च सुमन्त्रश्चैभिरावृतः ॥ ३७॥ ततः सहस्रदृग्वह्निर्धर्मज्ञो वरुणोऽनिलः । इन्द्वीशधात्रनन्ताश्च दशभिश्चैभिरावृतः ॥ ३८॥ बहिस्तदायुधैः पूज्यो नीलादिभिरलङ्कृतः । वसिष्ठवामदेवादिमुनिभिः समुपासितः ॥ ३९॥ एवमुद्देशतः प्रोक्तं निर्देशस्तस्य चाधुना । त्रिरेखापुटमालिख्य मध्ये तारद्वयं लिखेत् ॥ ४०॥ तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् । द्वितीयान्तं च तस्योर्ध्वं षष्ठ्यन्तं साधकं तथा ॥ ४१॥ कुरु द्वयं च तत्पार्श्वे लिखेद्बीजान्तरे रमाम् । तत्सर्वं प्रणवाभ्यां च वेष्टयेच्छुद्धबुद्धिमान् ॥ ४२॥ दीर्घभाजि षडस्रे तु लिखेद्बीजं हृदादिभिः । कोणपार्श्वे रमामाये तदग्रेऽनङ्गमालिखेत् ॥ ४३॥ क्रोधं कोणाग्रान्तरेषु लिख्य मन्त्र्यभितो गिरम् । वृत्तत्रयं साष्टपत्रं सरोजे विलिखेत्स्वरान् ॥ ४४॥ केसरे चाष्टपत्रे च वर्गाष्टकमथालिखेत् । तेषु मालामनोर्वर्णान्विलिखेदूर्मिसंख्यया ॥ ४५॥ अन्ते पञ्चाक्षराण्येवं पुनरष्टदलं लिखेत् । तेषु नारायणाष्टार्णां_लिख्य तत्केसरे रमाम् ॥ ४६॥ तद्बहिर्द्वादशदलं विलिखेद्द्वादशाक्षरम् । अथों नमो भगवते वासुदेवाय इत्ययम् ॥ ४७॥ आदिक्षान्तान्केसरेषु वृत्ताकारेण स।म्लिखेत् । तद्बहिः षोडशदलं लिख्य तत्केसरे हृयम् ॥ ४८॥ वर्मास्त्रनतिसंयुक्तं दलेषु द्वादशाक्षरम् । तत्सन्धिष्विरजादीनां मन्त्रान्मन्त्री समालिखेत् ॥ ४९॥ ह्रं स्रं भ्रं व्रं लूॅं श्रं ज्रं च लिखेत्सम्यक्ततो बहिः । द्वात्रिंशारं महापद्मं नादबिन्दुसमायुतम् ॥ ५०॥ विलिखेन्मन्त्रराजार्णांस्तेषु पत्रेषु यत्नतः । ध्यायेदष्टवसूनेकादशरुद्रांश्च तत्र वै ॥ ५१॥ द्वादशेनांश्च धातारं वषट्कारं च तद्बहिः । भूगृहं वज्रशूलाढ्यं रेखात्रयसमन्वितम् ॥ ५२॥ द्वारोपतं च राश्यादिभूषितं फणिसंयुतम् । अनन्तो वासुकिश्चैव तक्षः कर्कोटपद्मकः ॥ ५३॥ महापद्मश्च शङ्खश्च गुलिकोऽष्टौ प्रकीर्तिताः । एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च ॥ ५४॥ नारसिंहं च वाराहं लिखेन्मन्त्रद्वयं तथा । कूटो रेफानुग्रहेन्दुनादशक्त्यादिभिर्युतः ॥ ५५॥ यो नृसिंहः समाख्यातो ग्रहमारणकर्मणि । अन्त्याङ्घ्रीशवियद्बिन्दुनादैर्बीजं च सौकरम् ॥ ५६॥ हुंकारं चात्र रामस्य मालमन्त्रोऽधुनेरितः । तारो नतिश्च निद्रायाः स्मृतिर्भेदश्च कामिका ॥ ५७॥ रुद्रेण संयुता वह्निमेधामरविभूषिता । दीर्घा क्रूरयुता ह्लादिन्यथो दीर्घसमायुता ॥ ५८॥ क्षुधा क्रोधिन्यमोघा च विश्वमप्यथ मेधया । युक्ता दीर्घज्वालिनी च सुसूक्ष्मा मृत्युरूपिणी ॥ ५९॥ सप्रतिष्ठा ह्लादिनी त्वक्क्ष्वेलप्रीतिश्च सामरा । ज्योतिस्तीक्ष्णाग्निसंयुक्ता श्वेतानुस्वारसंयुता ॥ ६०॥ कामिकापञ्चमूलान्तस्तान्तान्तो थान्त इत्यथ । स सानन्तो दीर्घयुतो वायुः सूक्ष्मयुतो विषः ॥ ६१॥ कामिका कामका रुद्रयुक्ताथोऽथ स्थिरातपा । तापनी दीर्घयुक्ता भूरनलोऽनन्तगोऽनिलः ॥ ६२॥ नारायणात्मकः कालः प्राणाभो विद्यया युतः । पीतारातिस्तथा लान्तो योन्या युक्तस्ततो नतिः ॥ ६३॥ सप्तचत्वारिंशद्वर्णगुणान्तःस्पृङ्मनुः स्वयम् । राज्याभिषिक्तस्य तस्य रामस्योक्तक्रमाल्लिखेत् ॥ ६४॥ इदं सर्वात्मकं यन्त्रं प्रागुक्तमृषिसेवितम् । सेवकानां मोक्षकरमायुरारोग्यवर्धनम् ॥ ६५॥ अपुत्राणां पुत्रदं च बहुना किमनेन वै । प्राप्नुवन्ति क्षणात्सम्यगत्र धर्मादिकानपि ॥ ६६॥ इदं रहस्यं परममीश्वरेणापि दुर्गमम् । इदं यन्त्रं समाख्यातं न देयं प्राकृते जने ॥ ६७॥ इति॥ इति तुरीयोपनिषत् ॥ ॐ भूतादिकं शोधयेद्द्वारपूजां कृत्वा पद्माद्यासनस्थः प्रसन्नः । अर्चाविधावस्य पीठाधरोर्ध्व- पार्श्वार्चनं मध्यपद्मार्चनं च ॥ १॥ कृत्वा मृदुश्लक्ष्णसुतूलिकायां रत्नासने देशिकमर्चयित्वा । शक्तिं चाधाराख्यकां कूर्मनागौ पृथिव्यब्ज स्वासनाधः प्रकल्प्य ॥ २॥ विघ्नेशं दुर्गां क्षेत्रपालं च वाणीं बीजादिकांश्चाग्निदेशादिकांश्च । पीठस्याङ्घ्रिष्वेव धर्मादिकांश्च नत्वा पूर्वाद्यासु दीक्ष्वर्चयेच्च ॥ ३॥ मध्ये क्रमादर्कविध्वग्नितेजां- स्युपर्युपर्यादिमैरर्चितानि । रजः सत्वं तम एतान् वृत्त- त्रयं बीजाढ्यं क्रमाद्भावयेच्च ॥ ४॥ आशाव्याशास्वप्यथात्मानमन्त- रात्मानं वा परमात्मानमन्तः । ज्ञानात्मानं चार्चयेत्तस्य दिक्षु मायाविद्ये ये कलापारतत्त्वे ॥ ५॥ संपूजयेद्विमलादीश्च शक्ती- रभ्यर्चयेद्देवमवाहयेच्च । अङ्गव्यूहानिलजाद्यैश्च पूज्य घृष्ट्यादिकैर्लोकपालैस्तदस्त्रैः ॥ ६॥ वसिष्ठाद्यैर्मुनिभिर्नीलमुख्यै- राराधयेद्राघवं चन्दनाद्यैः । मुख्योपहारैर्विविधैश्च पूज्यै- स्तस्मै जपादींश्च सम्यक्प्रकल्प्य ॥ ७॥ एवंभूतं जगदाधारभूतं रामं वन्दे सच्चिदानन्दरूपम् । गदारिशङ्खाब्जधरं भवारिं स यो ध्यायेन्मोक्षमाप्नोति सर्वः ॥ ८॥ विश्वव्यापी राघवो यस्तदानी- मन्तर्दधे श्ङ्खचक्रे गदाब्जे । धृत्वा रमासहितः सानुजश्च सपत्तनः सानुगः सर्वलोकी ॥ ९॥ तद्भक्ता ये लब्धकामांश्च भुक्त्वा तथा पदं परमं यान्ति ते च । इमा ऋचः सर्वकामार्थदाश्च ये ते पठन्त्यमला यान्ति मोक्षम् ॥ १०॥ इति पञ्चमोऽपनिषत् ॥ चिन्मयेऽस्मिंस्त्रयोदश । स्वभूर्ज्योतिस्तिस्रः । सीतारामावेका । जीववाची षट्षष्टिः । भूतादिकमेकादश । पञ्चखण्डेषु त्रिनवतिः । इति श्रीरामपूर्वतापिन्युपनिषत्समाप्ता ॥ रामोत्तरतापिन्युपनिषत् ॐ बृहस्पतिरुवाच याज्ञवल्क्यम् । यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । तस्माद्यत्र क्वचन गच्छति तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति । तस्मादविमुक्तमेव निषेवेत । अविमुक्तं न विमुञ्चेत् । एवमेवैतद्याज्ञवल्क्य ॥ १॥ अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकं किं तारयतीति । स होवाच याज्ञवल्क्यस्तारकं दीर्घानलं बिन्दुपूर्वकं दीर्घानलं पुनर्मायां नमश्चन्द्राय नमो भद्राय नम इत्येतद्ब्रह्मात्मिकाः सच्चिदानन्दाख्या इत्युपासितव्यम् । अकारः प्रथमाक्षरो भवति । उकारोद्वितीयाक्षरो भवति । मकारस्तृतीयाक्षरो भवति । अर्धमात्रश्चतुर्थाक्षरो भवति । बिन्दुः पञ्चमाक्षरो भवति । नादः षष्ठाक्षरो भवति । तारकत्वात्तारको भवति । तदेव तारकं ब्रह्म त्वं विद्धि । तदेवोपासितव्यमिति ज्ञेयम् । गर्भजन्मजरामरणसंसारमहद्भयात्संतारयतीति । तस्मादुच्यते षडक्षरं तारकमिति । । य एतत्तारकं ब्रह्म ब्राह्मणो नित्यमधीते । स पाप्मानं तरति । स मृत्युं तरति । स ब्रह्महत्यां तरति । स भ्रूणहत्यां तरति। स संसारं तरति । स सर्वं तरति । सोऽविमुक्तमाश्रितो भवति । स महान्भवति । सोऽमृतत्वं च गच्छति ॥ २॥ अत्रैते श्लोका भवन्ति । अकारक्षरसंभूतः सौमित्रिर्विश्वभावनः । उकाराक्षरसंभूतः शत्रुघ्नस्तैजसात्मकः ॥ १॥ प्राज्ञात्मकस्तु भरतो मकाराक्षरसंभवः । अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः ॥ २॥ श्रीरामसांनिध्यवशाज्जगदाधारकारिणी । उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥ ३॥ सा सीता भवति ज्ञेया मूलप्रकृतिसंज्ञिता । प्रणवत्वात्प्रकृतिरिति वदन्ति ब्रह्मवादिनः ॥ ४॥ इति॥ ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भव्यं भविष्यदिति सर्वमोङ्कार एव । यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव । सर्वं ह्येतद्ब्रह्म । अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पाज्जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः । यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघनएवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः । एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् । नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृश्य- मव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्य- मेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानसन्मात्रो निरस्ताविद्यातमोमोहोऽहमेवेति संभाव्याहमोंत- त्सद्यत्परंब्रह्म रामचन्द्रश्चिदात्मकः । सोऽहमोन्तद्रामभद्रपरंज्योतीरसोऽहमोमित्या- त्मानमादाय मनसा ब्रह्मणैकीकुर्यात् ॥ सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये । न ते संसारिणो नूनं राम एव न संशयः ॥ इत्युपनिषत् ॥ य एवं वेद स मुक्तो भवतीति याज्ञवल्क्यः ॥ अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्तपरिपूर्णानन्दैकचिदात्मा तं कथमहं विजानीयामिति । स होवाच याज्ञवल्क्यः । सोऽविमुक्त उपास्योऽयम् । एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति । वरणायां नास्यां च मध्ये प्रतिष्ठित इति ॥ का वै वरणा का च नासीति । जन्मान्तरकृतान्सर्वा- न्दोषन्वारयतीति तेन वरणा भवतीति । सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नासी भवतीति । कतमच्चास्य स्थानं भवतीति । भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति । एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति ॥ सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे यो वा एतदेवं वेद ॥ अथ तं प्रत्युवाच । श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः । मन्वन्तरसहस्रैस्तु जपहोमार्चनादिभिः ॥१॥ ततः प्रसन्नो भगवाञ्छ्रीरामः प्राह शंकरम् । वृणीश्व यदभीष्टं तद्दास्यामि परमेश्वर ॥ २॥ इति ॥ अथ सच्चिदानन्दात्मानं श्रीराममीश्वरः पप्रच्छ । मणिकर्ण्यां मम क्षेत्रे गङ्गायां वा तटे पुनः । म्रियेत देही तज्जन्तोर्मुक्तिर्नाऽतो वरान्तरम् ॥ ३॥ इति ॥ अथ स होवाच श्रीरामः ॥ क्षेत्रेऽस्मिंस्तव देवेश यत्र कुत्रापि वा मृताः । कृमिकीटादयोऽप्याशु मुक्ताः सन्तु न चान्यथा ॥ ४॥ अविमुक्ते तव क्षेत्रे सर्वेषां मुक्तिसिद्धये । अहं संनिहितस्तत्र पाषाणप्रतिमादिषु ॥ ५॥ क्षेत्रेऽस्मिन्योऽर्चयेद्भक्त्या मन्त्रेणानेन मां शिव । ब्रह्महत्यादिपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६॥ त्वत्तो वा ब्रह्मणो वापि ये लभन्ते षडक्षरम् । जीवन्तो मन्त्रसिद्धाः स्युर्मुक्ता मां प्राप्नुवन्ति ते ॥ ७॥ मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् । उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिव ॥ ८॥ इति श्रीरामचन्द्रेणोक्तम् ॥ अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः स्तुतः श्रीरामचन्द्रः प्रीतो भवति । स्वात्मानं दर्शयति तान्नो ब्रूहि भगवन्निति । स होवाच याज्ञवल्क्यः ॥ पूर्वं सत्यलोके श्रीरामचन्द्रेणैवं शिक्षितो ब्रह्मा पुनरेतया गाथया नमस्करोति ॥ विश्वरूपधरं विष्णुं नारायणमनामयम् । पूर्णानन्दैकविज्ञानं परं ब्रह्मस्वरूपिणम् ॥ मनसा संस्मरन्ब्रह्म तुष्टाव परमेश्वरम् । ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्द आत्मा यत्परं ब्रह्म भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १॥ यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु ज्ञातव्यौ ॥ यश्चाखण्डैकरसात्मा ॥ २॥ यच्च ब्रह्मानन्दामृतम् ॥ ३॥ यत्तारकं ब्रह्म ॥ ४॥ यो ब्रह्मा विष्णुर्महेश्वरो यः सर्वदेवात्मा ॥ ५॥ ये सर्वे वेदाः साङ्गाः सशाखाः सेतिहासपुराणाः ॥ ६॥ यो जीवान्तरात्मा ॥ ७॥ यः सर्वभूतान्तरात्मा ॥ ८॥ ये देवासुरमनुष्यादिभावाः ॥ ९॥ ये मत्स्यकूर्माद्यवताराः ॥ १०॥ योऽन्तःकरणचतुष्टयात्मा ॥ ११॥ यश्च प्राणः ॥ १२॥ यश्च यमः ॥ १३॥ यश्चान्तकः ॥ १४॥ यश्च मृत्युः ॥ १५॥ यच्चामृतम् ॥ १६॥ यानि च पञ्चमहाभूतानि ॥ १७॥ यः स्थावरजङ्गमात्मा ॥ १८॥ ये पञ्चाग्नयः ॥ १९॥ याः सप्त महाव्याहृतयः ॥ २०॥ या विद्या ॥ २१॥ या सरस्वती ॥ २२॥ या लक्ष्मीः ॥ २३॥ या गौरी ॥ २४॥ या जानकी ॥ २५॥ यच्च त्रैलोक्यम् ॥ २६॥ यः सूर्यः ॥ २७॥ यः सोमः ॥ २८॥ यानि च नक्षत्राणि ॥ २९॥ ये च नव ग्रहाः ॥ ३०॥ ये चाष्टौ लोकपालाः ॥ ३१॥ ये चाष्टौ वसवः ॥ ३२॥ ये चैकादश रुद्राः ॥ ३३॥ ये च द्वदिशादित्याः ॥ ३४॥ यच्च भूतं भव्यं भविष्यत् ॥ ३५॥ यद्ब्रह्माण्डस्य बहिर्व्याप्तम् ॥ ३६॥ यो हिरण्यगर्भः ॥ ३७॥ या प्रकृतिः ॥ ३८॥ यश्चोङ्कारः ॥ ३९॥ याश्चतस्रोऽर्धमात्राः ॥ ४०॥ यः परमपुरुषः ॥ ४१॥ यश्च महेश्वरः ॥ ४२॥ यश्च महादेवः ॥ ४३॥ य ॐ नमो भगवते वासुदेवाय ॥ ४४॥ यो महाविष्णुः ॥ ४५॥ यः परमात्मा ॥ ४६॥ यो विज्ञानात्मा ॥ ४७॥ ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्द आत्मा । यः सच्चिदानन्दाद्वैतैकचिदात्मा भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ इति तान्ब्रह्माब्रवीत् । सप्तचत्वारिंशन्मन्त्रैर्नित्यं देवं स्तुवध्वम् । ततो देवः प्रीतो भवति । स्वात्मानं दर्शयति । तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति । सोऽमृतत्वं गच्छतीति महोपनिषत् ॥ ५॥ अथ हैनं भारद्वाजो याज्ञवल्क्यमुपसमेत्योवाच श्रीराममन्त्रराजस्य माहात्म्यमनुब्रूहीति । स होवाच याज्ञवल्क्यः । स्वप्रकाशः परंज्योतिः स्वानुभूत्यैकचिन्मयः । तदेव रामचन्द्रस्य मनोराद्यक्षरः स्मृतः ॥ १॥ अखण्डैकरसानन्दस्तारकब्रह्मवाचकः । रामायेति सुविज्ञेयः सत्यानन्दचिदात्मकः ॥ २॥ नमःपदं सुविज्ञेयं पूर्णानन्दैककारणम् । सदा नमन्ति हृदये सर्वे देवा मुमुक्षवः ॥ ३॥ इति ॥ य एवं मन्त्रराजं श्रीरामचन्द्रषडक्षरं नित्यमधीते । सोऽग्निपूतो भवति । स वायुपूतो भवति । स आदित्यपूतो भवति । स सोमपूतो भवति । स ब्रह्मपूतो भवति । स विष्णुपूतो भवति । स रुद्रपूतो भवति । सर्वैर्देवैर्ज्ञातो भवति । सर्वक्रतुभिरिष्टवान्भवति । तेनेतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति । श्रीरामचन्द्रमनुस्मरणेन गायत्र्यः शतसहस्राणि जप्तानि फलानि भवन्ति । प्रणवानामयुतकोटिजपा भवन्ति । दश पूर्वान्दशोत्तरान्पुनाति । स पङ्क्तिपावनो भवति । स महान्भवति । सोऽमृतत्वं च गच्छति ॥ अत्रैते श्लोका भवन्ति । गाणपत्येषु शैवेषु शाक्तसौरेष्वभीष्टदः । वैष्णवेष्वपि सर्वेषु राममन्त्रः फलाधिकः ॥ ४॥ गाणपत्यादि मन्त्रेषु कोटिकोटिगुणाधिकः । मन्त्रस्तेष्वप्यनायासफलदोऽयं षडक्षरः ॥ ५॥ षडक्षरोऽयं मन्त्रः स्यात्सर्वाघौघनिवारणः । मन्त्रराज इति प्रोक्तः सर्वेषामुत्तमोत्तमः ॥ ६॥ कृतं दिने यद्दुरितं पक्षमासर्तुवर्षजम् । सर्वं दहति निःशेषं तूलराशिमिवानलः ॥ ७॥ ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च । स्वर्णस्तेयसुरापानगुरुतल्पायुतानि च ॥ ८॥ कोटिकोटिसहस्राणि उपपातकजान्यपि । सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् ॥ ९॥ भूतप्रेतपिशाचाद्याः कूष्माण्डब्रह्मराक्षसाः । दूरादेव प्रधावन्ति राममन्त्रप्रभावतः ॥ १०॥ ऐहलौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम् । कैवल्यं भगवत्त्वं च मन्त्रोऽयं साधयिष्यति ॥ ११॥ ग्राम्यारण्यपशुघ्नत्वं संचितं दुरुतं च यत् । मद्यपानेन यत्पापं तदप्याशु विनाशयेत् ॥ १२॥ अभक्ष्यभखक्षणोत्पन्नं मिथ्याज्ञानसमुद्भवम् । सर्वं विलीयते राममन्त्रस्यास्यैव कीर्तनात् ॥ १३॥ श्रोत्रियस्वर्णहरणाद्यच्च पापमुपस्थितम् । रत्नादेश्चापहारेण तदप्याशु विनाशयेत् ॥ १४॥ ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वा च किल्बिषम् । संचिनोति नरो मोहाद्यद्यत्तदपि नाशयेत् ॥ १५॥ गत्वापि मातरं मोहादगम्याश्चैव योषितः । उपास्यानेन मन्त्रेण रामस्तदपि नाशयेत् ॥ १६॥ महापातकपापिष्ठसङ्गत्या संचितं च यत् । नाशयेत्तत्कथालापशयनासनभोजनैः ॥ १७॥ पितृमातृवधोत्पन्नं बुद्धिपूर्वमघं च यत् । तदनुष्ठानमात्रेणसर्वमेतद्विलीयते ॥ १८॥ यत्प्रयागादितीर्थोक्तप्रायश्चित्तशतैरपि । नैवापनोद्यते पापं तदप्याशु विनाशयेत् ॥ १९॥ पुण्यक्षेत्रेषु सर्वेषु कुरुक्षेत्रादिषु स्वयम् । बुद्धिपूर्वमघं कृत्वा तदप्याशुविनाशयेत् ॥ २०॥ कृच्छ्रैस्तप्तपराकाद्यैर्नानाचान्द्रायणैरपि । पापं च नापनोद्यं यत्तदप्याशु विनाशयेत् ॥ २१॥ आत्मतुल्यसुवर्णादिदानैर्बहुविधैरपि । किंचिदप्यपरिक्षीणं तदप्याशु विनाशयेत् ॥ २२॥ अवस्थात्रितयेष्वेवबुद्धिपूर्वमघं च यत् । तन्मन्त्रस्मरणेनैव निःशेषं प्रविलीयते ॥ २३॥ अवस्थात्रितयेष्वेवं मूलबन्धमन्त्रं च यत् । तत्तन्मन्त्रोपदेशेन सर्वमेतत्प्रणश्यति ॥ २४॥ आब्रह्मबीजदोषाश्च नियमातिक्रमोद्भ्वाः । स्त्रीणां च पुरुषाणां च मन्त्रेणानेन नाशिताः ॥ २५॥ येषु येष्वपि देशेषु रामभद्र उपास्यते । दुर्भिक्षादिभयं तेषु न भवेत्तु कदाचन ॥ २६॥ शान्तः प्रसन्नवदनो ह्यक्रोधो भक्तवत्सलः । अनेन सदृशो मन्त्रो जगत्स्वपि न विद्यते ॥ २७॥ सम्यगाराधितो रामः प्रसीदत्येव सत्वरम् । ददात्यायुष्यमैश्वर्यमन्ते विष्णुपदं च यत् ॥ २८॥ तदेतदृचाभ्युक्तम् । ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् । ॐ सत्यमित्युपनिषत् ॥ ६॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति रामोत्तरतापिन्युपनिषत्समाप्ता ॥ इति रामतापिन्युपनिषत्समाप्ता॥
. Rama Poorva Tapaniya Upanishad Om ! O Devas, may we hear with our ears what is auspicious; May we see with our eyes what is auspicious, O ye worthy of worship ! May we enjoy the term of life allotted by the Devas, Praising them with our body and limbs steady ! May the glorious Indra bless us ! May the all-knowing Sun bless us ! May Garuda, the thunderbolt for evil, bless us ! May Brihaspati grant us well-being ! Om ! Let there be Peace in me ! Let there be Peace in my environment ! Let there be Peace in the forces that act on me ! The Tatva (principle/philosophy) of Rama exists in this world, with his life showing the way to live, with his name showing the way of ethereal knowledge, and also blessing all those who meditate or worship it with wealth and renunciation. The word ‘Rama’ on which yogis devote themselves is immeasurable and forever joyful and indicates Para Brahman itself. The body has been ascribed to Para Brahman which is holy, without any second, which does not have any blemishes and which is bodiless, so that the worshippers are shown the path. 1 Similar to the whole banyan tree existing in the seed of the banyan tree, the entire world exists in the seed “Rama”. 2 Rama when incarnated shone along with Sita, who is nature herself, like the moon shining with its moonlight. He who was born to Mother Kousalya, was black in colour, wore yellow silk, had his hair made up, wore ear studs and chains of precious stones, had in his hand the bow, had two hands, had a very pleasant smiling face and was heroic and blessed with victory and ruled with the help of eight ministers lead by Drishti. He was keeping the Parameshwari who was the mother of the world, who was nature, who had two hands, who was well made up and was holding lotus flower in her hand, on his lap and lightly embracing her. 3 He with Sita formed a triangle with Lakshmana who was holding a bow in his hand and was golden in colour. The devas approached him who was sitting below “the wish giving tree” in the form of a triangle and prayed, “Our salutations to you, who is personification of passion and illusion and also a god primeval to Vedas. Our salutations to the Raghu Veera, who killed Ravana, who is drowned in joy by keeping Goddess Lakshmi on his chest, who is the personification of all souls, who is an ornament to the body of Janaki (daughter of Janaka), who killed Rakshasas, who is very handsome and who is personification of all that is good.” 4 The devas further told “Hey, the killer of Ravana, please give us your protection and your grace.” Then they were with him and became very happy. 5 On his left with Satrugna, on his right with Bharata and on his front Hanuman who was listening to his advices, there was another triangle. Below Bharata was Sugreeva and below him was Vibheeshana. Behind him Lakshmana was holding an umbrella and below him Vibheeshana and Sugreeva were holding fans made of palm leaves. This was another inverted triangle. So the long armed Lord Rama who was shining was meditating in between this figure with six vertices. This is the first row surrounding him. The second is surrounded by Vasudeva and others (Santhi, Sankarshana, Sree Pradyumna, Saraswathi, Anirudha and Rathi) as well as fire and others in different directions. Third is surrounded by Hanuman, Sugreeva, Bharata, Vibheeshana, Lakshmana, Angada, Jambhavan, Satrugna as well as Drushti, Jayantha, Vijaya, Surashtra, Rashtra Vardhana, Ashoka, Darmapala and Sumandra. Fourth is surrounded by the 10 dig-balakas (protectors of directions) viz., Indra, Agni (fire God), Yama (god of death), Nirruthi, Varuna, Chandra, Isana, Brahma and Anantha. Fifth is beyond the Dig-balakas and consists of their principal arms viz., Vajra, Shakthi, Danda, Vara, Pasa, Angusa, Gada, Soola, Madma and chakra; these should be worshipped. Sixth: After the arms, Neela and other monkeys. Vasishta, Vamadeva and other sages worship him. He should be meditated and worshipped. 6 Thus worship Sri Rama who has the form which is the foundation of this world and who is forever joyful. All people who worship him as the one carrying mace, sword, conch and lotus and who is known as the one who removes births and deaths will attain salvation. Thus ends the Sri Rama Poorva Tapaniya Upanishad. II. Rama Uttara Tapaniya Upanishad Om ! May my speech be based on (i.e. accord with) the mind; May my mind be based on speech. O Self-effulgent One, reveal Thyself to me. May you both (speech and mind) be the carriers of the Veda to me. May not all that I have heard depart from me. I shall join together (i.e. obliterate the difference of) day And night through this study. I shall utter what is verbally true; I shall utter what is mentally true. May that (Brahman) protect me; May That protect the speaker (i.e. the teacher), may That protect me; May that protect the speaker – may That protect the speaker. Om ! Let there be Peace in me ! Let there be Peace in my environment ! Let there be Peace in the forces that act on me ! In Varanasi Lord Shiva did Japa (chanted) of the Rama Mantra. Pleased because of this, Sri Rama told Lord Sankara as follows: In this temple (city) whoever worships me with devotion, I would help him get rid of sins like Brahma Hathi (killing of a Brahmin). Those of them who get the six letter mantra (Ram Ramaya NamaH) either from you or Brahma or his disciple line, would live with mastery over the mantra or attain salvation. At the time of death, if you tell this mantra in their ears, they would get salvation. 1 Brahma then thought in his mind about that Maha Vishnu, who is the foundation of this world, who is that Narayana, who does not have any deficiencies and who is that Parameshwara, who is of the form of Para Brahman and who is full of complete joy and then worshipped him as follows: 2 Om! He who is Ramachandra is verily the God. He is the ‘non-dual soul of great happiness’. I salute him again and again in earth, bhuvar loka and Suvar loka. 3.1 This is followed by the repetition of the mantra 47 times with modification of the words with in quotes viz. “non-dual soul of great happiness’. Only this portion is being translated below. This should be appropriately replaced in the mantra. 3.1 Far-flung and wide soul of the senses; 3.2 Nectar of happiness of Brahma; 3.3 One who makes us cross the birth and death; 3.4 One who is the soul of Gods like Vishnu and Indra; 3.5 One who is all Vedas, all Shakhas (branches), all Sankhyas and all Puranas (epics); 3.6 One who is the soul of all beings; 3.7 One who is the inner soul of all beings; 3.8 One who is the perception of Devas, Asuras and Human beings; 3.9 One who has taken the ten incarnations like fish, tortoise etc; 3.10 One who is the soul; 3.11 One who is soul of the inner consciousness; 3.12 One who is God of death; 3.13 One who is the destroyer; 3.14 One who is the death; 3.15 One who is the nectar; 3.16 One who is the five great elements; 3.17 One who is the soul of moving and unmoving; 3.18 One who is the five fires; 3.19 One who is the seven Vyahruthis; 3.20 One who is learning; 3.21 One who is Goddess Saraswati; 3.22 One who is Goddess Lakshmi; 3.23 One who is Goddess Parvati; 3.24 One who is the daughter of Janaka; 3.25 One who is the three worlds; 3.26 One who is the Sun; 3.27 One who is the moon; 3.28 One who is the stars; 3.29 One who is the nine planets; 3.30 One who is the eight protectors of directions; 3.31 One who is the eight Vasus; 3.32 One who is the eleven Rudras; 3.33 One who is the twelve suns; 3.34 One who is the past and future; 3.35 One who is the Supreme Being beyond the Brahmanda (universe); 3.36 One who is Hiranyagarbha; 3.37 One who is nature; 3.38 One who is the letter Om; 3.39 One who is half portion of Pranava; 3.40 One who is the greatest Purusha (man); 3.41 One who is the great God; 3.42 One who is a great deva; 3.43 One who is Lord Vishnu; 3.44 One who is the Paramatma; 3.45 One who is the scientific soul; 3.46 One who is the soul which is forever in eternal bliss. 3.47 The great God would be pleased with the one who worships the Lord of Lords daily by these 47 mantras .The one who worships the Lord of Lords with this mantra will see him in person. He would attain a deathless state. He will attain the deathless state. Thus ends the Sri Rama Uttara Tapaniya Upanishad. Om ! O Devas, may we hear with our ears what is auspicious; May we see with our eyes what is auspicious, O ye worthy of worship ! May we enjoy the term of life allotted by the Devas, Praising them with our body and limbs steady ! May the glorious Indra bless us ! May the all-knowing Sun bless us ! May Garuda, the thunderbolt for evil, bless us ! May Brihaspati grant us well-being ! Om ! Let there be Peace in me ! Let there be Peace in my environment ! Let there be Peace in the forces that act on me ! Here ends the Rama-Tapaniyopanishad, as contained in the Atharva-Veda. This Upanishad is of two parts viz., Poorva Tapaniya and Uttara Tapaniya.
śrīrāmatāpanīyārthaṃ bhaktadhyeyakalevaram । vikalevarakaivalyaṃ śrīrāmabrahma me gatiḥ ॥ oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ । sthirairaṅgaistuṣṭuvām̐sastanūbhirvyaśema devahitaṃ yadāyuḥ ॥ svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ । svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ oṃ cinmaye'sminmahāviṣṇau jāte daśarathe harau । raghoḥ kule'khilaṃ rāti rājate yo mahīsthitaḥ ॥ 1॥ sa rāma iti lokeṣu vidvadbhiḥ prakaṭīkṛtaḥ । rākṣasā yena maraṇaṃ yānti svodrekato'thavā ॥ 2॥ rāmanāma bhuvi khyātamabhirāmeṇa vā punaḥ । rākṣasānmartyarūpeṇa rāhurmanasijaṃ yathā ॥ 3॥ prabhāhīnāṃstathā kṛtvā rājyārhāṇāṃ mahībhṛtām । dharmamārgaṃ caritreṇa jñānamārgaṃ ca nāmataḥ ॥ 4॥ tathā dhyānena vairāgyamaiśvaryaṃ svasya pūjanāt । tathā rātyasya rāmākhyā bhuvi syādatha tattvataḥ ॥ 5॥ ramante yogino'nante nityānande cidātmani । iti rāmapadenāsau paraṃ brahmābhidhīyate ॥ 6॥ cinmayasyādvitīyasya niṣkalasyāśarīriṇaḥ । upāsakānāṃ kāryārthaṃ brahmaṇo rūpakalpanā ॥ 7॥ rūpasthānāṃ devatānāṃ puṃstryaṅgāstrādikalpanā । dvittatvāriṣaḍaṣṭānāṃ daśa dvādaśa ṣoḍaśa ॥ 8॥ aṣṭādaśāmī kathitā hastāḥ śaṅkhādibhiryutāḥ । sahasrāntāstathā tāsāṃ varṇavāhanakalpanā ॥ 9॥ śaktisenākalpanā ca brahmaṇyevaṃ hi pañcadhā । kalpitasya śarīrasya tasya senādikalpanā ॥ 10॥ brahmādīnāṃ vācako'yaṃ mantro'nvarthādisaṃjñakaḥ । japtavyo mantriṇā naivaṃ vinā devaḥ prasīdati ॥ 11॥ kriyākarmejyakartṝṇāmarthaṃ mantro vadatyatha । mananāntrāṇanānmantraḥ sarvavācyasya vācakaḥ ॥ 12॥ so'bhayasyāsya devasya vigraho yantrakalpanā । vinā yantreṇa cetpūjā devatā na prasīdati ॥ 13॥ iti rāmapūrvatāpinyupaniṣadi prathamopaniṣat ॥ 1॥ svarbhūrjyotirmayo'nantarūpī svenaiva bhāsate । jīvatvena samo yasya sṛṣṭisthitilayasya ca ॥ 1॥ kāraṇatvena cicchaktyā rajaḥsattvatamoguṇaiḥ । yathaiva vaṭabījasthaḥ prākṛtaśca mahāndrumaḥ ॥ 2॥ tathaiva rāmabījasthaṃ jagadetaccarācaram । rephārūḍhā mūrtayaḥ syuḥ śaktayastisra eva ceti ॥ 3॥ iti rāmatāpinyuoaniṣadi dvitīyopaniṣat ॥ 2॥ sītārāmau tanmayāvatra pūjyau jātānyābhyāṃ bhuvanāni dvisapta । sthitāni ca prahitānyeva teṣu tato rāmo mānavo māyayādhāt ॥ 1॥ jagatprāṇāyātmane'smai namaḥ syā- nnamastvaikyaṃ pravadetprāgguṇeneti ॥ 2॥ iti rāmatāpinyupaniṣadi tṛtīyopaniṣat ॥ 3॥ jīvavācī namo nāma cātmārāmeti gīyate । tadātmikā yā caturthī tathā māyeti gīyate ॥ 1॥ mantroyaṃ vācako rāmo rāmo vācyaḥ syādyogaetayoḥ । phalataścaiva sarveṣāṃ sādhakānāṃ na saṃśayaḥ ॥ 2॥ yathā nāmī vācakena nāmnā yo'bhimukho bhavet । tathā bījātmako mantro mantriṇo'bhimukho bhavet ॥ 3॥ bījaśaktiṃ nyaseddakṣavāmayoḥ stanayorapi । kīlo madhye vinā bhāvyaḥ svavāñchāviniyogavān ॥ 4॥ sarveṣāmeva mantrāṇāmeṣa sādhāraṇaḥ kramaḥ । atra rāmo'nantarūpastejasā vahninā samaḥ ॥ 5॥ sattvanuṣṇaguviśvaścedagnīṣomātmakaṃ jagat । utpannaḥ sītayā bhāti candraścandrikayā yathā ॥ 6॥ prakṛtyā sahitaḥ śyāmaḥ pītavāsā jaṭādharaḥ । dvibhujaḥ kuṇḍalī ratnamālī dhīro dhanurdharaḥ ॥ 7॥ prasannavadano jetā ghṛṣṭyaṣṭakavibhūṣitaḥ । prakṛtyā parameśvaryā jagadyonyāṅkitāṅkabhṛt ॥ 8॥ hemābhayā dvibhujayā sarvālaṅkṛtayā citā । śliṣṭaḥ kamaladhāriṇyā puṣṭaḥ kosalajātmajaḥ ॥ 9॥ dakṣiṇe lakṣmaṇenātha sadhanuṣpāṇinā punaḥ । hemābhenānujenaiva tathā koṇatrayaṃ bhavet ॥ 10॥ tathaiva tasya mantrasya yasyāṇuśca svaṅentayā । evaṃ trikoṇarūpaṃ syāttaṃ devā ye samāyayuḥ ॥ 11॥ stutiṃ cakruśca jagataḥ patiṃ kalpatarau sthitam । kāmarūpāya rāmāya namo māyāmayāya ca ॥ 12॥ namo vedādirūpāya oṅkārāya namo namaḥ । ramādharāya rāmāya śrīrāmāyātmamūrtaye ॥ 13॥ jānakīdehabhūṣāya rakṣoghnāya śubhāṅgine । bhadrāya raghuvīrāya daśāsyāntakarūpiṇe ॥ 14॥ rāmabhadra maheśvāsa raghuvīra nṛpottama । bho daśāsyāntakāsmākaṃ rakṣāṃ dehi śriyaṃ ca te ॥ 15॥ tvamaiśvaryaṃ dāpayātha saṃpratyāśvarimāraṇam । kurviti stutya devādyāstena sārdhaṃ sukhaṃ sthitāḥ ॥ 16॥ stuvantyevaṃ hi ṛṣayastadā rāvaṇa āsuraḥ । rāmapatnīṃ vanasthāṃ yaḥ svanivṛttyarthamādade ॥ 17॥ sa rāvaṇa iti khyāto yadvā rāvācca rāvaṇaḥ । tadvyājenekṣituṃ sītāṃ rāmo lakṣmaṇa eva ca ॥ 18॥ viceratustadā bhūmau devīṃ saṃdṛśya cāsuram । hatvā kabandhaṃ śabarīṃ gatvā tasyājñayā tayā ॥ 19॥ pūjito vāyuputreṇa bhaktena ca kapīśvaram । āhūya śaṃsatāṃ sarvamādyantaṃ rāmalakṣmaṇau ॥ 20॥ sa tu rāme śaṅkitaḥ sanpratyayārthaṃ ca dundubheḥ । vigrahaṃ darśayāmāsa yo rāmastamacikṣipat ॥ 21॥ sapta sālānvibhidyāśu modate rāghavastadā । tena hṛṣṭaḥ kapīndro'sau sa rāmastasya pattanam ॥ 22॥ jagāmāgarjadanujo vālino vegato gṛhāt । tadā vālī nirjagāma taṃ vālinamathāhave ॥ 23॥ nihatya rāghavo rājye sugrīvaṃ sthāpayattataḥ । harīnāhūya sugrīvastvāha cāśāvido'dhunā ॥ 24॥ ādāya maithilīmadya dadatāśvāśu gacchata । tatastatāra hanumānabdhiṃ laṅkāṃ samāyayau ॥ 25॥ sītāṃ dṛṣṭvā'surānhatvā puraṃ dagdhvā tathā svayam । āgatya rāmeṇa saha nyavedayata tattvataḥ ॥ 26॥ tadā rāmaḥ krodharūpī tānāhūyātha vānarān । taiḥ sārdhamādāyāstrāṇi purīṃ laṅkāṃ samāyayau ॥ 27॥ tāṃ dṛṣṭvā udadhīśena sārdhaṃ yuddhamakārayat । ghaṭaśrotrasahasrākṣajidbhyāṃ yuktaṃ tamāhave॥ 28॥ hatvā bibhīṣaṇaṃ tatra sthāpyātha janakātmajām । ādāyāṅkasthitāṃ kṛtvā svapuraṃ tairjagāma saḥ ॥ 29॥ tataḥ siṃhāsanasthaḥ san dvibhujo raghunandanaḥ । dhanurdharaḥ prasannātmā sarvābharaṇabhūṣitaḥ ॥ 30॥ mudrāṃ jñānamayīṃ yāmye vāme tejaprakāśinīm । dhṛtvā vyākhyānanirataścinmayaḥ parameśvaraḥ ॥ 31॥ udagdakṣiṇayoḥ svasya śatrughnabharatau tataḥ । hanūmantaṃ ca śrotāramagrataḥ syāttrikoṇagam ॥ 32॥ bharatādhastu sugrīvaṃ śatrughnādho bibhīṣaṇam । paścime lakṣmaṇaṃ tasya dhṛtacchratraṃ sacāmaram ॥ 33॥ tadadhastau tālavṛntakarau tryasraṃ punarbhavet । evaṃ ṣaṭkoṇamādau svadīrghāṅgaireṣa saṃyutaḥ ॥ 34॥ dvitīyaṃ vāsudevādyairāgneyādiṣu saṃyutaḥ । tṛtīyaṃ vāyusūnuṃ ca sugrīvaṃ bharataṃ tathā ॥ 35॥ bibhīṣaṇaṃ lakṣmaṇaṃ ca aṅgadaṃ cārimardanam । jāmbavantaṃ ca tairyuktastato dhṛṣṭirjayantakaḥ ॥ 36॥ vijayaśca surāṣṭraśca rāṣṭravardhana eva ca । aśoko dharmapālaśca sumantraścaibhirāvṛtaḥ ॥ 37॥ tataḥ sahasradṛgvahnirdharmajño varuṇo'nilaḥ । indvīśadhātranantāśca daśabhiścaibhirāvṛtaḥ ॥ 38॥ bahistadāyudhaiḥ pūjyo nīlādibhiralaṅkṛtaḥ । vasiṣṭhavāmadevādimunibhiḥ samupāsitaḥ ॥ 39॥ evamuddeśataḥ proktaṃ nirdeśastasya cādhunā । trirekhāpuṭamālikhya madhye tāradvayaṃ likhet ॥ 40॥ tanmadhye bījamālikhya tadadhaḥ sādhyamālikhet । dvitīyāntaṃ ca tasyordhvaṃ ṣaṣṭhyantaṃ sādhakaṃ tathā ॥ 41॥ kuru dvayaṃ ca tatpārśve likhedbījāntare ramām । tatsarvaṃ praṇavābhyāṃ ca veṣṭayecchuddhabuddhimān ॥ 42॥ dīrghabhāji ṣaḍasre tu likhedbījaṃ hṛdādibhiḥ । koṇapārśve ramāmāye tadagre'naṅgamālikhet ॥ 43॥ krodhaṃ koṇāgrāntareṣu likhya mantryabhito giram । vṛttatrayaṃ sāṣṭapatraṃ saroje vilikhetsvarān ॥ 44॥ kesare cāṣṭapatre ca vargāṣṭakamathālikhet । teṣu mālāmanorvarṇānvilikhedūrmisaṃkhyayā ॥ 45॥ ante pañcākṣarāṇyevaṃ punaraṣṭadalaṃ likhet । teṣu nārāyaṇāṣṭārṇāṃ_likhya tatkesare ramām ॥ 46॥ tadbahirdvādaśadalaṃ vilikheddvādaśākṣaram । athoṃ namo bhagavate vāsudevāya ityayam ॥ 47॥ ādikṣāntānkesareṣu vṛttākāreṇa sa।mlikhet । tadbahiḥ ṣoḍaśadalaṃ likhya tatkesare hṛyam ॥ 48॥ varmāstranatisaṃyuktaṃ daleṣu dvādaśākṣaram । tatsandhiṣvirajādīnāṃ mantrānmantrī samālikhet ॥ 49॥ hraṃ sraṃ bhraṃ vraṃ lūॅṃ śraṃ jraṃ ca likhetsamyaktato bahiḥ । dvātriṃśāraṃ mahāpadmaṃ nādabindusamāyutam ॥ 50॥ vilikhenmantrarājārṇāṃsteṣu patreṣu yatnataḥ । dhyāyedaṣṭavasūnekādaśarudrāṃśca tatra vai ॥ 51॥ dvādaśenāṃśca dhātāraṃ vaṣaṭkāraṃ ca tadbahiḥ । bhūgṛhaṃ vajraśūlāḍhyaṃ rekhātrayasamanvitam ॥ 52॥ dvāropataṃ ca rāśyādibhūṣitaṃ phaṇisaṃyutam । ananto vāsukiścaiva takṣaḥ karkoṭapadmakaḥ ॥ 53॥ mahāpadmaśca śaṅkhaśca guliko'ṣṭau prakīrtitāḥ । evaṃ maṇḍalamālikhya tasya dikṣu vidikṣu ca ॥ 54॥ nārasiṃhaṃ ca vārāhaṃ likhenmantradvayaṃ tathā । kūṭo rephānugrahendunādaśaktyādibhiryutaḥ ॥ 55॥ yo nṛsiṃhaḥ samākhyāto grahamāraṇakarmaṇi । antyāṅghrīśaviyadbindunādairbījaṃ ca saukaram ॥ 56॥ huṃkāraṃ cātra rāmasya mālamantro'dhuneritaḥ । tāro natiśca nidrāyāḥ smṛtirbhedaśca kāmikā ॥ 57॥ rudreṇa saṃyutā vahnimedhāmaravibhūṣitā । dīrghā krūrayutā hlādinyatho dīrghasamāyutā ॥ 58॥ kṣudhā krodhinyamoghā ca viśvamapyatha medhayā । yuktā dīrghajvālinī ca susūkṣmā mṛtyurūpiṇī ॥ 59॥ sapratiṣṭhā hlādinī tvakkṣvelaprītiśca sāmarā । jyotistīkṣṇāgnisaṃyuktā śvetānusvārasaṃyutā ॥ 60॥ kāmikāpañcamūlāntastāntānto thānta ityatha । sa sānanto dīrghayuto vāyuḥ sūkṣmayuto viṣaḥ ॥ 61॥ kāmikā kāmakā rudrayuktātho'tha sthirātapā । tāpanī dīrghayuktā bhūranalo'nantago'nilaḥ ॥ 62॥ nārāyaṇātmakaḥ kālaḥ prāṇābho vidyayā yutaḥ । pītārātistathā lānto yonyā yuktastato natiḥ ॥ 63॥ saptacatvāriṃśadvarṇaguṇāntaḥspṛṅmanuḥ svayam । rājyābhiṣiktasya tasya rāmasyoktakramāllikhet ॥ 64॥ idaṃ sarvātmakaṃ yantraṃ prāguktamṛṣisevitam । sevakānāṃ mokṣakaramāyurārogyavardhanam ॥ 65॥ aputrāṇāṃ putradaṃ ca bahunā kimanena vai । prāpnuvanti kṣaṇātsamyagatra dharmādikānapi ॥ 66॥ idaṃ rahasyaṃ paramamīśvareṇāpi durgamam । idaṃ yantraṃ samākhyātaṃ na deyaṃ prākṛte jane ॥ 67॥ iti॥ iti turīyopaniṣat ॥ oṃ bhūtādikaṃ śodhayeddvārapūjāṃ kṛtvā padmādyāsanasthaḥ prasannaḥ । arcāvidhāvasya pīṭhādharordhva- pārśvārcanaṃ madhyapadmārcanaṃ ca ॥ 1॥ kṛtvā mṛduślakṣṇasutūlikāyāṃ ratnāsane deśikamarcayitvā । śaktiṃ cādhārākhyakāṃ kūrmanāgau pṛthivyabja svāsanādhaḥ prakalpya ॥ 2॥ vighneśaṃ durgāṃ kṣetrapālaṃ ca vāṇīṃ bījādikāṃścāgnideśādikāṃśca । pīṭhasyāṅghriṣveva dharmādikāṃśca natvā pūrvādyāsu dīkṣvarcayecca ॥ 3॥ madhye kramādarkavidhvagnitejāṃ- syuparyuparyādimairarcitāni । rajaḥ satvaṃ tama etān vṛtta- trayaṃ bījāḍhyaṃ kramādbhāvayecca ॥ 4॥ āśāvyāśāsvapyathātmānamanta- rātmānaṃ vā paramātmānamantaḥ । jñānātmānaṃ cārcayettasya dikṣu māyāvidye ye kalāpāratattve ॥ 5॥ saṃpūjayedvimalādīśca śaktī- rabhyarcayeddevamavāhayecca । aṅgavyūhānilajādyaiśca pūjya ghṛṣṭyādikairlokapālaistadastraiḥ ॥ 6॥ vasiṣṭhādyairmunibhirnīlamukhyai- rārādhayedrāghavaṃ candanādyaiḥ । mukhyopahārairvividhaiśca pūjyai- stasmai japādīṃśca samyakprakalpya ॥ 7॥ evaṃbhūtaṃ jagadādhārabhūtaṃ rāmaṃ vande saccidānandarūpam । gadāriśaṅkhābjadharaṃ bhavāriṃ sa yo dhyāyenmokṣamāpnoti sarvaḥ ॥ 8॥ viśvavyāpī rāghavo yastadānī- mantardadhe śṅkhacakre gadābje । dhṛtvā ramāsahitaḥ sānujaśca sapattanaḥ sānugaḥ sarvalokī ॥ 9॥ tadbhaktā ye labdhakāmāṃśca bhuktvā tathā padaṃ paramaṃ yānti te ca । imā ṛcaḥ sarvakāmārthadāśca ye te paṭhantyamalā yānti mokṣam ॥ 10॥ iti pañcamo'paniṣat ॥ cinmaye'smiṃstrayodaśa । svabhūrjyotistisraḥ । sītārāmāvekā । jīvavācī ṣaṭṣaṣṭiḥ । bhūtādikamekādaśa । pañcakhaṇḍeṣu trinavatiḥ । iti śrīrāmapūrvatāpinyupaniṣatsamāptā ॥ rāmottaratāpinyupaniṣat oṃ bṛhaspatiruvāca yājñavalkyam । yadanu kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanamavimuktaṃ vai kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanam । tasmādyatra kvacana gacchati tadeva manyetetīdaṃ vai kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanam । atra hi jantoḥ prāṇeṣūtkramamāṇeṣu rudrastārakaṃ brahma vyācaṣṭe yenāsāvamṛtībhūtvā mokṣībhavati । tasmādavimuktameva niṣeveta । avimuktaṃ na vimuñcet । evamevaitadyājñavalkya ॥ 1॥ atha hainaṃ bhāradvājaḥ papraccha yājñavalkyaṃ kiṃ tārakaṃ kiṃ tārayatīti । sa hovāca yājñavalkyastārakaṃ dīrghānalaṃ bindupūrvakaṃ dīrghānalaṃ punarmāyāṃ namaścandrāya namo bhadrāya nama ityetadbrahmātmikāḥ saccidānandākhyā ityupāsitavyam । akāraḥ prathamākṣaro bhavati । ukārodvitīyākṣaro bhavati । makārastṛtīyākṣaro bhavati । ardhamātraścaturthākṣaro bhavati । binduḥ pañcamākṣaro bhavati । nādaḥ ṣaṣṭhākṣaro bhavati । tārakatvāttārako bhavati । tadeva tārakaṃ brahma tvaṃ viddhi । tadevopāsitavyamiti jñeyam । garbhajanmajarāmaraṇasaṃsāramahadbhayātsaṃtārayatīti । tasmāducyate ṣaḍakṣaraṃ tārakamiti । । ya etattārakaṃ brahma brāhmaṇo nityamadhīte । sa pāpmānaṃ tarati । sa mṛtyuṃ tarati । sa brahmahatyāṃ tarati । sa bhrūṇahatyāṃ tarati। sa saṃsāraṃ tarati । sa sarvaṃ tarati । so'vimuktamāśrito bhavati । sa mahānbhavati । so'mṛtatvaṃ ca gacchati ॥ 2॥ atraite ślokā bhavanti । akārakṣarasaṃbhūtaḥ saumitrirviśvabhāvanaḥ । ukārākṣarasaṃbhūtaḥ śatrughnastaijasātmakaḥ ॥ 1॥ prājñātmakastu bharato makārākṣarasaṃbhavaḥ । ardhamātrātmako rāmo brahmānandaikavigrahaḥ ॥ 2॥ śrīrāmasāṃnidhyavaśājjagadādhārakāriṇī । utpattisthitisaṃhārakāriṇī sarvadehinām ॥ 3॥ sā sītā bhavati jñeyā mūlaprakṛtisaṃjñitā । praṇavatvātprakṛtiriti vadanti brahmavādinaḥ ॥ 4॥ iti॥ omityetadakṣaramidaṃ sarvaṃ tasyopavyākhyānaṃ bhūtaṃ bhavyaṃ bhaviṣyaditi sarvamoṅkāra eva । yaccānyattrikālātītaṃ tadapyoṅkāra eva । sarvaṃ hyetadbrahma । ayamātmā brahma so'yamātmā catuṣpājjāgaritasthāno bahiḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ ॥ svapnasthāno'ntaḥprajñaḥ saptāṅga ekonaviṃśatimukhaḥ praviviktabhuk taijaso dvitīyaḥ pādaḥ । yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati tatsuṣuptam । suṣuptasthāna ekībhūtaḥ prajñānaghanaevānandamayo hyānandabhuk cetomukhaḥ prājñastṛtīyaḥ pādaḥ । eṣa sarveśvara eṣa sarvajña eṣo'ntaryāmyeṣa yoniḥ sarvasya prabhavāpyayau hi bhūtānām । nāntaḥprajñaṃ na bahiḥprajñaṃ nobhayataḥprajñaṃ na prajñaṃ nāprajñaṃ na prajñānaghanamadṛśya- mavyavahāryamagrāhyamalakṣaṇamacintyamavyapadeśya- mekātmapratyayasāraṃ prapañcopaśamaṃ śāntaṃ śivamadvaitaṃ caturthaṃ manyante । sa ātmā sa vijñeyaḥ sadojjvalo'vidyātatkāryahīnaḥ svātmabandhaharaḥ sarvadā dvaitarahita ānandarūpaḥ sarvādhiṣṭhānasanmātro nirastāvidyātamomoho'hameveti saṃbhāvyāhamoṃta- tsadyatparaṃbrahma rāmacandraścidātmakaḥ । so'hamontadrāmabhadraparaṃjyotīraso'hamomityā- tmānamādāya manasā brahmaṇaikīkuryāt ॥ sadā rāmo'hamasmīti tattvataḥ pravadanti ye । na te saṃsāriṇo nūnaṃ rāma eva na saṃśayaḥ ॥ ityupaniṣat ॥ ya evaṃ veda sa mukto bhavatīti yājñavalkyaḥ ॥ atha hainamatriḥ papraccha yājñavalkyaṃ ya eṣo'nanto'vyaktaparipūrṇānandaikacidātmā taṃ kathamahaṃ vijānīyāmiti । sa hovāca yājñavalkyaḥ । so'vimukta upāsyo'yam । eṣo'nanto'vyakta ātmā so'vimukte pratiṣṭhita iti । so'vimuktaḥ kasminpratiṣṭhita iti । varaṇāyāṃ nāsyāṃ ca madhye pratiṣṭhita iti ॥ kā vai varaṇā kā ca nāsīti । janmāntarakṛtānsarvā- ndoṣanvārayatīti tena varaṇā bhavatīti । sarvānindriyakṛtānpāpānnāśayatīti tena nāsī bhavatīti । katamaccāsya sthānaṃ bhavatīti । bhruvorghrāṇasya ca yaḥ sandhiḥ sa eṣa dyaurlokasya parasya ca sandhirbhavatīti । etadvai sandhiṃ sandhyāṃ brahmavida upāsata iti ॥ so'vimukta upāsya iti । so'vimuktaṃ jñānamācaṣṭe yo vā etadevaṃ veda ॥ atha taṃ pratyuvāca । śrīrāmasya manuṃ kāśyāṃ jajāpa vṛṣabhadhvajaḥ । manvantarasahasraistu japahomārcanādibhiḥ ॥1॥ tataḥ prasanno bhagavāñchrīrāmaḥ prāha śaṃkaram । vṛṇīśva yadabhīṣṭaṃ taddāsyāmi parameśvara ॥ 2॥ iti ॥ atha saccidānandātmānaṃ śrīrāmamīśvaraḥ papraccha । maṇikarṇyāṃ mama kṣetre gaṅgāyāṃ vā taṭe punaḥ । mriyeta dehī tajjantormuktirnā'to varāntaram ॥ 3॥ iti ॥ atha sa hovāca śrīrāmaḥ ॥ kṣetre'smiṃstava deveśa yatra kutrāpi vā mṛtāḥ । kṛmikīṭādayo'pyāśu muktāḥ santu na cānyathā ॥ 4॥ avimukte tava kṣetre sarveṣāṃ muktisiddhaye । ahaṃ saṃnihitastatra pāṣāṇapratimādiṣu ॥ 5॥ kṣetre'sminyo'rcayedbhaktyā mantreṇānena māṃ śiva । brahmahatyādipāpebhyo mokṣayiṣyāmi mā śucaḥ ॥ 6॥ tvatto vā brahmaṇo vāpi ye labhante ṣaḍakṣaram । jīvanto mantrasiddhāḥ syurmuktā māṃ prāpnuvanti te ॥ 7॥ mumūrṣordakṣiṇe karṇe yasya kasyāpi vā svayam । upadekṣyasi manmantraṃ sa mukto bhavitā śiva ॥ 8॥ iti śrīrāmacandreṇoktam ॥ atha hainaṃ bhāradvājo yājñavalkyamuvācātha kairmantraiḥ stutaḥ śrīrāmacandraḥ prīto bhavati । svātmānaṃ darśayati tānno brūhi bhagavanniti । sa hovāca yājñavalkyaḥ ॥ pūrvaṃ satyaloke śrīrāmacandreṇaivaṃ śikṣito brahmā punaretayā gāthayā namaskaroti ॥ viśvarūpadharaṃ viṣṇuṃ nārāyaṇamanāmayam । pūrṇānandaikavijñānaṃ paraṃ brahmasvarūpiṇam ॥ manasā saṃsmaranbrahma tuṣṭāva parameśvaram । oṃ yo ha vai śrīrāmacandraḥ sa bhagavānadvaitaparamānanda ātmā yatparaṃ brahma bhūrbhuvaḥ suvastasmai vai namo namaḥ ॥ 1॥ yathā prathamamantroktāvādyantau tathā sarvamantreṣu jñātavyau ॥ yaścākhaṇḍaikarasātmā ॥ 2॥ yacca brahmānandāmṛtam ॥ 3॥ yattārakaṃ brahma ॥ 4॥ yo brahmā viṣṇurmaheśvaro yaḥ sarvadevātmā ॥ 5॥ ye sarve vedāḥ sāṅgāḥ saśākhāḥ setihāsapurāṇāḥ ॥ 6॥ yo jīvāntarātmā ॥ 7॥ yaḥ sarvabhūtāntarātmā ॥ 8॥ ye devāsuramanuṣyādibhāvāḥ ॥ 9॥ ye matsyakūrmādyavatārāḥ ॥ 10॥ yo'ntaḥkaraṇacatuṣṭayātmā ॥ 11॥ yaśca prāṇaḥ ॥ 12॥ yaśca yamaḥ ॥ 13॥ yaścāntakaḥ ॥ 14॥ yaśca mṛtyuḥ ॥ 15॥ yaccāmṛtam ॥ 16॥ yāni ca pañcamahābhūtāni ॥ 17॥ yaḥ sthāvarajaṅgamātmā ॥ 18॥ ye pañcāgnayaḥ ॥ 19॥ yāḥ sapta mahāvyāhṛtayaḥ ॥ 20॥ yā vidyā ॥ 21॥ yā sarasvatī ॥ 22॥ yā lakṣmīḥ ॥ 23॥ yā gaurī ॥ 24॥ yā jānakī ॥ 25॥ yacca trailokyam ॥ 26॥ yaḥ sūryaḥ ॥ 27॥ yaḥ somaḥ ॥ 28॥ yāni ca nakṣatrāṇi ॥ 29॥ ye ca nava grahāḥ ॥ 30॥ ye cāṣṭau lokapālāḥ ॥ 31॥ ye cāṣṭau vasavaḥ ॥ 32॥ ye caikādaśa rudrāḥ ॥ 33॥ ye ca dvadiśādityāḥ ॥ 34॥ yacca bhūtaṃ bhavyaṃ bhaviṣyat ॥ 35॥ yadbrahmāṇḍasya bahirvyāptam ॥ 36॥ yo hiraṇyagarbhaḥ ॥ 37॥ yā prakṛtiḥ ॥ 38॥ yaścoṅkāraḥ ॥ 39॥ yāścatasro'rdhamātrāḥ ॥ 40॥ yaḥ paramapuruṣaḥ ॥ 41॥ yaśca maheśvaraḥ ॥ 42॥ yaśca mahādevaḥ ॥ 43॥ ya oṃ namo bhagavate vāsudevāya ॥ 44॥ yo mahāviṣṇuḥ ॥ 45॥ yaḥ paramātmā ॥ 46॥ yo vijñānātmā ॥ 47॥ oṃ yo ha vai śrīrāmacandraḥ sa bhagavānadvaitaparamānanda ātmā । yaḥ saccidānandādvaitaikacidātmā bhūrbhuvaḥ suvastasmai vai namo namaḥ ॥ iti tānbrahmābravīt । saptacatvāriṃśanmantrairnityaṃ devaṃ stuvadhvam । tato devaḥ prīto bhavati । svātmānaṃ darśayati । tasmādya etairmantrairnityaṃ devaṃ stauti sa devaṃ paśyati । so'mṛtatvaṃ gacchatīti mahopaniṣat ॥ 5॥ atha hainaṃ bhāradvājo yājñavalkyamupasametyovāca śrīrāmamantrarājasya māhātmyamanubrūhīti । sa hovāca yājñavalkyaḥ । svaprakāśaḥ paraṃjyotiḥ svānubhūtyaikacinmayaḥ । tadeva rāmacandrasya manorādyakṣaraḥ smṛtaḥ ॥ 1॥ akhaṇḍaikarasānandastārakabrahmavācakaḥ । rāmāyeti suvijñeyaḥ satyānandacidātmakaḥ ॥ 2॥ namaḥpadaṃ suvijñeyaṃ pūrṇānandaikakāraṇam । sadā namanti hṛdaye sarve devā mumukṣavaḥ ॥ 3॥ iti ॥ ya evaṃ mantrarājaṃ śrīrāmacandraṣaḍakṣaraṃ nityamadhīte । so'gnipūto bhavati । sa vāyupūto bhavati । sa ādityapūto bhavati । sa somapūto bhavati । sa brahmapūto bhavati । sa viṣṇupūto bhavati । sa rudrapūto bhavati । sarvairdevairjñāto bhavati । sarvakratubhiriṣṭavānbhavati । tenetihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni phalāni bhavanti । śrīrāmacandramanusmaraṇena gāyatryaḥ śatasahasrāṇi japtāni phalāni bhavanti । praṇavānāmayutakoṭijapā bhavanti । daśa pūrvāndaśottarānpunāti । sa paṅktipāvano bhavati । sa mahānbhavati । so'mṛtatvaṃ ca gacchati ॥ atraite ślokā bhavanti । gāṇapatyeṣu śaiveṣu śāktasaureṣvabhīṣṭadaḥ । vaiṣṇaveṣvapi sarveṣu rāmamantraḥ phalādhikaḥ ॥ 4॥ gāṇapatyādi mantreṣu koṭikoṭiguṇādhikaḥ । mantrasteṣvapyanāyāsaphalado'yaṃ ṣaḍakṣaraḥ ॥ 5॥ ṣaḍakṣaro'yaṃ mantraḥ syātsarvāghaughanivāraṇaḥ । mantrarāja iti proktaḥ sarveṣāmuttamottamaḥ ॥ 6॥ kṛtaṃ dine yadduritaṃ pakṣamāsartuvarṣajam । sarvaṃ dahati niḥśeṣaṃ tūlarāśimivānalaḥ ॥ 7॥ brahmahatyāsahasrāṇi jñānājñānakṛtāni ca । svarṇasteyasurāpānagurutalpāyutāni ca ॥ 8॥ koṭikoṭisahasrāṇi upapātakajānyapi । sarvāṇyapi praṇaśyanti rāmamantrānukīrtanāt ॥ 9॥ bhūtapretapiśācādyāḥ kūṣmāṇḍabrahmarākṣasāḥ । dūrādeva pradhāvanti rāmamantraprabhāvataḥ ॥ 10॥ aihalaukikamaiśvaryaṃ svargādyaṃ pāralaukikam । kaivalyaṃ bhagavattvaṃ ca mantro'yaṃ sādhayiṣyati ॥ 11॥ grāmyāraṇyapaśughnatvaṃ saṃcitaṃ durutaṃ ca yat । madyapānena yatpāpaṃ tadapyāśu vināśayet ॥ 12॥ abhakṣyabhakhakṣaṇotpannaṃ mithyājñānasamudbhavam । sarvaṃ vilīyate rāmamantrasyāsyaiva kīrtanāt ॥ 13॥ śrotriyasvarṇaharaṇādyacca pāpamupasthitam । ratnādeścāpahāreṇa tadapyāśu vināśayet ॥ 14॥ brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ hatvā ca kilbiṣam । saṃcinoti naro mohādyadyattadapi nāśayet ॥ 15॥ gatvāpi mātaraṃ mohādagamyāścaiva yoṣitaḥ । upāsyānena mantreṇa rāmastadapi nāśayet ॥ 16॥ mahāpātakapāpiṣṭhasaṅgatyā saṃcitaṃ ca yat । nāśayettatkathālāpaśayanāsanabhojanaiḥ ॥ 17॥ pitṛmātṛvadhotpannaṃ buddhipūrvamaghaṃ ca yat । tadanuṣṭhānamātreṇasarvametadvilīyate ॥ 18॥ yatprayāgāditīrthoktaprāyaścittaśatairapi । naivāpanodyate pāpaṃ tadapyāśu vināśayet ॥ 19॥ puṇyakṣetreṣu sarveṣu kurukṣetrādiṣu svayam । buddhipūrvamaghaṃ kṛtvā tadapyāśuvināśayet ॥ 20॥ kṛcchraistaptaparākādyairnānācāndrāyaṇairapi । pāpaṃ ca nāpanodyaṃ yattadapyāśu vināśayet ॥ 21॥ ātmatulyasuvarṇādidānairbahuvidhairapi । kiṃcidapyaparikṣīṇaṃ tadapyāśu vināśayet ॥ 22॥ avasthātritayeṣvevabuddhipūrvamaghaṃ ca yat । tanmantrasmaraṇenaiva niḥśeṣaṃ pravilīyate ॥ 23॥ avasthātritayeṣvevaṃ mūlabandhamantraṃ ca yat । tattanmantropadeśena sarvametatpraṇaśyati ॥ 24॥ ābrahmabījadoṣāśca niyamātikramodbhvāḥ । strīṇāṃ ca puruṣāṇāṃ ca mantreṇānena nāśitāḥ ॥ 25॥ yeṣu yeṣvapi deśeṣu rāmabhadra upāsyate । durbhikṣādibhayaṃ teṣu na bhavettu kadācana ॥ 26॥ śāntaḥ prasannavadano hyakrodho bhaktavatsalaḥ । anena sadṛśo mantro jagatsvapi na vidyate ॥ 27॥ samyagārādhito rāmaḥ prasīdatyeva satvaram । dadātyāyuṣyamaiśvaryamante viṣṇupadaṃ ca yat ॥ 28॥ tadetadṛcābhyuktam । ṛco akṣare parame vyomanyasmindevā adhi viśve niṣeduḥ । yastanna veda kimṛcā kariṣyati ya ittadvidusta ime samāsate । tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ । divīva cakṣurātatam । tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate । viṣṇoryatparamaṃ padam । oṃ satyamityupaniṣat ॥ 6॥ oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ । sthirairaṅgaistuṣṭuvām̐sastanūbhirvyaśema devahitaṃ yadāyuḥ ॥ svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ । svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ iti rāmottaratāpinyupaniṣatsamāptā ॥ iti rāmatāpinyupaniṣatsamāptā॥