अथर्ववेदीय शैव उपनिषत् ॥ अथर्वशिरसामर्थमनर्थप्रोचवाचकम् । सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम् ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभि- र्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृइद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ देवा ह वै स्वर्गं लोकमायंस्ते रुद्रमपृच्छन्को भवानिति । सोऽब्रवीदहमेकः प्रथममासं वर्तामि च भविश्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति । सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं प्राविशत् सोऽहं नित्यानित्योऽहं व्यक्ताव्यक्तो ब्रह्माब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोहं अधश्चोर्ध्वं चाहं दिशश्च प्रतिदिशश्चाहं पुमानपुमान् स्त्रियश्चाहं गायत्र्यहं सावित्र्यहं त्रिष्टुब्जगत्यनुष्टुप् चाहं छन्दोऽहं गार्हपत्यो दक्षिणाग्निराहवनीयोऽहं सत्योऽहं गौरहं गौर्यहमृगहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमापोऽहं तेजोऽहं गुह्योह।मरण्योऽहमक्षरमहं क्षरमहं पुष्करमहं पवित्रमहमुग्रं च मध्यं च बहिश्च पुरस्ताज्ज्योतिरित्यहमेव सर्वेभ्यो मामेव स सर्वः समां यो मां वेद स सर्वान्देवान्वेद सर्वांश्च वेदान्साङ्गानपि ब्रह्म ब्राह्मणैश्च गां गोभिर्ब्राह्माणान्ब्राह्मणेन हविर्हविषा आयुरायुषा सत्येन सत्यं धर्मेण धर्मं तर्पयामि स्वेन तेजसा । ततो ह वै ते देवा रुद्रमपृच्छन् ते देवा रुद्रमपश्यन् । ते देवा रुद्रमध्यायन् ततो देवा ऊर्ध्वबाहवो रुद्रं स्तुवन्ति ॥ १॥ ॐ यो वै रुद्रः स भगवान्यश्च ब्रह्मा तस्मै वै नमोनमः ॥ १॥ यो वै रुद्रः स भगवान् यश्च विष्णुस्तस्मै वै नमोनमः ॥ २॥ यो वै रुद्रः स भगवान्यश्च स्कन्दस्तस्मै वै नमोनमः ॥ ३॥ यो वै रुद्रः स भगवान्यश्चेन्द्रस्तस्मै वै नमोनमः ॥ ४॥ यो वै रुद्रः स भगवान्यश्चाग्निस्तस्मै वै नमोनमः ॥ ५॥ यो वै रुद्रः स भगवान्यश्च वायुस्तस्मै वै नमोनमः ॥ ६॥ यो वै रुद्रः स भगवान्यश्च सूर्यस्तस्मै वै नमोनमः ॥ ७॥ यो वै रुद्रः स भगवान्यश्च सोमस्तस्मै वै नमोनमः ॥ ८॥ यो वै रुद्रः स भगवान्ये चाष्टौ ग्रहास्तस्मै वै नमोनमः ॥ ९॥ यो वै रुद्रः स भगवान्ये चाष्टौ प्रतिग्रहास्तस्मै वै नमोनमः ॥ १०॥ यो वै रुद्रः स भगवान्यच्च भूस्तस्मै वै नमोनमः ॥ ११॥ यो वै रुद्रः स भगवान्यच्च भुवस्तस्मै वै नमोनमः ॥ १२॥ यो वै रुद्रः स भगवान्यच्च स्वस्तस्मै वै नमोनमः ॥ १३॥ यो वै रुद्रः स भगवान्यच्च महस्तस्मै वै नमोनमः ॥ १४॥ यो वै रुद्रः स भगवान्या च पृथिवी तस्मै वै नमोनमः ॥ १५॥ यो वै रुद्रः स भगवान्यच्चान्तरिक्षं तस्मै वै नमोनमः ॥ १६॥ यो वै रुद्रः स भगवान्या च द्यौस्तस्मै वै नमोनमः ॥ १७॥ यो वै रुद्रः स भगवान्याश्चापस्तस्मै वै नमोनमः ॥ १८॥ यो वै रुद्रः स भगवान्यच्च तेजस्तस्मै वै नमोनमः ॥ १९॥ यो वै रुद्रः स भगवान्यश्च कालस्तस्मै वै नमोनमः ॥ २०॥ यो वै रुद्रः स भगवान्यश्च यमस्तस्मै वै नमोनमः ॥ २१॥ यो वै रुद्रः स भगवान्यश्च मृत्युस्तस्मै वै नमोनमः ॥ २२॥ यो वै रुद्रः स भगवान्यच्चामृतं तस्मै वै नमोनमः ॥ २३॥ यो वै रुद्रः स भगवान्यच्चाकाशं तस्मै वै नमोनमः ॥ २४॥ यो वै रुद्रः स भगवान्यच्च विश्वं तस्मै वै नमोनमः ॥ २५॥ यो वै रुद्रः स भगवान्याच्च स्थूलं तस्मै वै नमोनमः ॥ २६॥ यो वै रुद्रः स भगवान्यच्च सूक्ष्मं तस्मै वै नमोनमः ॥ २७॥ यो वै रुद्रः स भगवान्यच्च शुक्लं तस्मै नमोनमः ॥ २८॥ यो वै रुद्रः स भगवान्यच्च कृष्णं तस्मै वै नमोनमः ॥ २९॥ यो वै रुद्रः स भगवान्यच्च कृत्स्नं तस्मै वै नमोनमः ॥ ३०॥ यो वै रुद्रः स भगवान्यच्च सत्यं तस्मै वै नमोनमः ॥ ३१॥ यो वै रुद्रः स भगवान्यच्च सर्वं तस्मै वै नमोनमः ॥ ३२॥ ॥ २॥ भूस्ते आदिर्मध्यं भुवः स्वस्ते शीर्षं विश्वरूपोऽसि ब्रह्मैकस्त्वं द्विधा त्रिधा वृद्धिस्तं शान्तिस्त्वं पुष्टिस्त्वं हुतमहुतं दत्तमदत्तं सर्वमसर्वं विश्वमविश्वं कृतमकृतं परमपरं परायणं च त्वम् । अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मार्त्यस्य । सोमसूर्यपुरस्तात् सूक्ष्मः पुरुषः । सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं सूक्ष्मं सौम्यं पुरुषं ग्राह्यमग्राह्येण भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति स्वेन तेजसा तस्मादुपसंहर्त्रे महाग्रासाय वै नमो नमः । हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः । तस्योत्तरतः शिरो दक्षिणतः पादौ य उत्तरतः स ओङ्कारः य ओङ्कारः स प्रणवः यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तः योऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं तच्छुक्लं यच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म यत्परं ब्रह्म स एकः य एकः स रुद्रः य रुद्रः यो रुद्रः स ईशानः य ईशानः स भगवान् महेश्वरः ॥ ३॥ अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एव प्राणानूर्ध्वमुत्क्रामयति तस्मादुच्यते ओङ्कारः । अथ कस्मादुच्यते प्रणवः यस्मादुच्चार्यमाण एव ऋग्यजुःसामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते प्रणवः । अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव सर्वांलोकान्व्याप्नोति स्नेहो यथा पललपिण्डमिव शान्तरूपमोतप्रोतमनुप्राप्तो व्यतिषक्तश्च तस्मादुच्यते सर्वव्यापी । अथ कस्मादुच्यतेऽनन्तो यस्मादुच्चार्यमाण एव तिर्यगूर्ध्वमधस्ताच्चास्यान्तो नोपलभ्यते तस्मादुच्यतेऽनन्तः । अथ कस्मादुच्यते तारं यस्मादुच्चारमाण एव गर्भजन्मव्याधिजरामरणसंसारमहाभयात्तारयति त्रायते च तस्मादुच्यते तारम् । अथ कस्मादुच्यते शुक्लं यस्मादुच्चार्यमाण एव क्लन्दते क्लामयति च तस्मादुच्यते शुक्लम् । अथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण एव सूक्ष्मो भूत्वा शरीराण्यधितिष्ठति सर्वाणि चाङ्गान्यमिमृशति तस्मादुच्यते सूक्ष्मम् । अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एव व्यक्ते महति तमसि द्योतयति तस्मादुच्यते वैद्युतम् । अथ कस्मादुच्यते परं ब्रह्म यस्मात्परमपरं परायणं च बृहद्बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्म । अथ कस्मादुच्यते एकः यः सर्वान्प्राणान्संभक्ष्य संभक्षणेनाजः संसृजति विसृजति तीर्थमेके व्रजन्ति तीर्थमेके दक्षिणाः प्रत्यञ्च उदञ्चः प्राञ्चोऽभिव्रजन्त्येके तेषां सर्वेषामिह सद्गतिः । साकं स एको भूतश्चरति प्रजानां तस्मादुच्यत एकः । अथ कस्मादुच्यते रुद्रः यस्मादृषिभिर्नान्यैर्भक्तैर्द्रुतमस्य रूपमुपलभ्यते तस्मादुच्यते रुद्रः । अथ कस्मादुच्यते ईशानः यः सर्वान्देवानीशते ईशानीभिर्जननीभिश्च परमशक्तिभिः । अमित्वा शूर णो नुमो दुग्धा इव धेनवः । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थिष इति तस्मादुच्यते ईशानः । अथ कस्मादुच्यते भगवान्महेश्वरः यस्माद्भक्ता ज्ञानेन भजन्त्यनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान्भावान्परित्यज्यात्मज्ञानेन योगेश्वैर्येण महति महीयते तस्मादुच्यते भगवान्महेश्वरः । तदेतद्रुद्रचरितम् ॥ ४॥ एको ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः । स एव जातः जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः । एको रुद्रो न द्वितीयाय तस्मै य इमांल्लोकानीशत ईशनीभिः । प्रत्यङ्जनास्तिष्ठति संचुकोचान्तकाले संसृज्य विश्वा भुवनानि गोप्ता । यो योनिं योनिमधितिष्ठतित्येको येनेदं सर्वं विचरति सर्वम् । तमीशानं पुरुषं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति । क्षमां हित्वा हेतुजालास्य मूलं बुद्ध्या संचितं स्थापयित्वा तु रुद्रे । रुद्रमेकत्वमाहुः शाश्वतं वै पुराणमिषमूर्जेण पशवोऽनुनामयन्तं मृत्युपाशान् । तदेतेनात्मन्नेतेनार्धचतुर्थेन मात्रेण शान्तिं संसृजन्ति पशुपाशविमोक्षणम् । या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तां ध्यायते नित्यं स गच्छेत्ब्रह्मपदम् । या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् । या सा तृतीया मात्रा ईशानदेवत्या कपिला वर्णेन यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम् । या सार्धचतुर्थी मात्रा सर्वदेवत्याऽव्यक्तीभूता खं विचरति शुद्धा स्फटिकसन्निभा वर्णेन यस्तां ध्यायते नित्यं स गच्छेत्पदमनामयम् । तदेतदुपासीत मुनयो वाग्वदन्ति न तस्य ग्रहणमयं पन्था विहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयः परमपरं परायणं चेति । वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यम् । तमात्मस्थं येनु पश्यन्ति धीरास्तेषां शान्तिर्भवति नेतरेषाम् । यस्मिन्क्रोधं यां च तृष्णां क्षमां चाक्षमां हित्वा हेतुजालस्य मूलम् । बुद्ध्या संचितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः । रुद्रो हि शाश्वतेन वै पुराणेनेषमूर्जेण तपसा नियन्ता । अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वंह वा इदं भस्म मन एतानि चक्षूंषि यस्माद्व्रतमिदं पाशुपतं यद्भस्म नाङ्गानि संस्पृशेत्तस्माद्ब्रह्म तदेतत्पाशुपतं पशुपाश विमोक्षणाय ॥ ५॥ योऽग्नौ रुद्रो योऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश । य इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमोऽस्त्वग्नये । यो रुद्रोऽग्नौ यो रुद्रोऽप्स्वन्तर्यो ओषधीर्वीरुध आविवेश । यो रुद्र इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमोनमः । यो रुद्रोऽप्सु यो रुद्र ओषधीषु यो रुद्रो वनस्पतिषु । येन रुद्रेण जगदूर्ध्वंधारितं पृथिवी द्विधा त्रिधा धर्ता धारिता नागा येऽन्तरिक्षे तस्मै रुद्राय वै नमोनमः । मूर्धानमस्य संसेव्याप्यथर्वा हृदयं च यत् । मस्तिष्कादूर्ध्वं प्रेरयत्यवमानोऽधिशीर्षतः ।तद्वा अथर्वणः शिरो देवकोशः समुज्झितः । तत्प्राणोऽभिरक्षति शिरोऽन्तमथो मनः । न च दिवो देवजनेन गुप्ता न चान्तरिक्षाणि न च भूम इमाः । यस्मिन्निदं सर्वमोतप्रोतं तस्मादन्यन्न परं किञ्चनास्ति । न तस्मात्पूर्वं न परं तदस्ति न भूतं नोत भव्यं यदासीत् । सहस्रपादेकमूर्ध्ना व्याप्तं स एवेदमावरीवर्ति भूतम् । अक्षरात्संजायते कालः कालाद्व्यापक उच्यते । व्यापको हि भगवान्रुद्रो भोगायमनो यदा शेते रुद्रस्तदा संहार्यते प्रजाः । उच्छ्वासिते तमो भवति तमस आपोऽप्स्वङ्गुल्या मथिते मथितं शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनादण्डं भवत्यण्डाद्ब्रह्मा भवति ब्रह्मणो वायुः वायोरोङ्कारः ॐकारात्सावित्री सावित्या गायत्री गायत्र्या लोका भवन्ति । अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद्भुवम् । एतद्धि परमं तपः । आपोऽज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरो नम इति ॥ ६॥ य इदमथर्वशिरो ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियो भवति अनुपनीत उपनीतो भवति सोऽग्निपूतो भवति स वायुपूतो भवति स सूर्यपूतो भवति स सर्वेर्देवैर्ज्ञातो भवति स सर्वैर्वेदैरनुध्यातो भवति स सर्वेषु तीर्थेषु स्नातो भवति तेन सर्वैः क्रतुभिरिष्टं भवति गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति इतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति । प्रणवानामयुतं जप्तं भवति । स चक्षुषः पङ्क्तिं पुनाति । आ सप्तमात्पुरुषयुगान्पुनातीत्याह भगवानथर्वशिरः सकृज्जप्त्वैव शुचिः स पूतः कर्मण्यो भवति । द्वितीयं जप्त्वा गणाधिपत्यमवाप्नोति । तृतीयं जप्त्वैवमेवानुप्रविशत्यों सत्यमों सत्यमों सत्यम् ॥ ७॥ ॐ भद्रं कर्णेभिरिति शान्तिः ॥ ॥ इत्यथर्वशिरउपनिषत्समाप्ता ॥
Om. Once upon a time the Devas resorted to the world of Bliss (Kailasa); and the Devas addressed Rudra thus, “who are you?” 2. He replied: “I alone was in the beginning; I am now; and will be in the future. There is none but me.” 3. He spread out himself and pervaded all the quarters. 4. (He said): “I am eternal and non-eternal, I am Brahma, I am eastern and western quarters, south and north, up and down, the quarters and cross quarters, I am man and otherwise, woman, I am Gayatri, Savitri, Sarasvati, Trishtup, Jagati, and Anushtup, I am the metre, I am Garhapatya, Dakshina and Ahavaniya fires, I am truth, I am the Cow (the Cow of plenty) Gauri, the first born, superior and best, I am Water and Light, I am the Rik, Yajus, Saman, and Atharvangirasa, I am perishable and imperishable, I am to be protected and kept in secrecy, I am the forest, I am the lotus (universe), I am pure, top, center, out-side and front, and I am the light which is in ten quarters and otherwise.” I alone exist. All are equal to me. 5. He who knows me knows all the Devas. 6. I nourish the earth through the light of the Sun, (according to a commentator, I perpetuate creation through man and woman), preserve the Brahmins by Brahmanic glory, the oblations by ghee &c, the life by life-giving energy, the truth by truth, and Dharma by Dharma. 7. Next, the Devas did not see Rudra in his own glory. They thought to meditate upon Rudra, and began to praise Him with uplifted hands. 8. Om. ‡ ‡ Each hymn is called a mantra. There are 34 hymns here given, representing, according to a commentator the Trayambaka mantra. He who is Rudra is verily the Lord; He who is Brahma, Bhuh, Bhuvah, and Suvah. Salutation to Him over and over, who is the head (Svhaa or the fourth)! Om, O goal of humanity, Thou art mukti formed. 9. He who is Rudra is verily the Lord; He who is Vishnu is verily the Lord. 10. He who is Mahesvara is verily the Lord. 11. He who is Uma is verily the Lord. 12. He who is Vinayaka is verily the Lord. 13. He who is Skanda is verily the Lord. 14. He who is Indra is verily the Lord. 15. He who is Agni is verily the Lord. 16. He who is Bhuh is verily the Lord. 17. He who is Bhuvah is verily the Lord. 18. He who is Suvah, is verily the Lord. 19. He who is Mahah, is verily the Lord. 20. He who is Jana is verily the Lord. 21. He who is Tapah is verily the Lord. 22. He who is Satyam is verily the Lord. 23. He who is Earth is verily the Lord. 24. He who is Water is verily the Lord. 25. He who is Light is verily the Lord. 26. He who is Air is verily the Lord. 27. He who is Ether is verily the Lord. 28. He who is the Sun is verily the Lord. 29. He who is Moon is verily the Lord. 30. He who is Stars is verily the Lord. 31. He who is Eight Grahas is verily the Lord. 32. He who is Prana is verily the Lord. 33. He who is Kala is verily the Lord. 34. He who is Yama is verily the Lord. 35. He who is Mritya is verily the Lord. 36. He who is Immortality is verily the Lord. 37. He who is that which is past, present and future is verily the Lord. 38. He who is Visvam is verily the Lord. 39. He who is the Whole is verily the Lord. 40. He who is All is verily the Lord. 41. He who is Truth is verily the Lord. 42. Om. Thou art the first Bhuh, the second Bhuvah, third Suvah, and the last head (Svaha or Turiya). O goal of humanity, O, Om, Thou art many-formed. 43. Thou Brahman art one, two (manifested and unmanifested), and three (the three gunas). Thou art the zenith and nadir. Thou art tranquility, nourishment, and contentment. Thou art that which is given in the form of oblations, and otherwise, yes and no; gift and deed, and superiority and their respective negatives. Thou art the resting place.”‡ ‡ According to the commentator Narayana, the hymns are 32. Sankarananda counts 34. The old Telugu edition, which I follow for translation, has 36 hymns. 44. We drank the Soma Juice (we realized Soma as being Siva with Uma) and became immortal. We reached the Light and knew the Devas. What injury, indeed the enemies (evil passions, etc.), will do us, or what pain will they give to us, who have neither to receive nor reject anything? 45. Adoration over and over, to that great consumer devourer and involver, who with his own light makes the subtle syllable (om) which is the friend of all the worlds, and which has Prajapati as its presiding deity, who (receives) the unthinkable person (Jiva), who is the part of Isa, by the difficult path (Jnana-marga) the Vayu (Linga Sarira) by Vayu (Bhakti, path, and the Soma (actions) by Soma (by the path of action). 46. All the Devas are in the heart. The Pranas (Senses) are established in the heart. Thou art even dwelling in the heart. Thou art transcending the three states of consciousness. 47. In its (heart) left is the head (northern path), in its right is the leg (Southern path). 48. That which is in the left is Om. The Om is Pranava. This is All-Pervading; it is Infinite; it is called Tara; this is Sukshama (subtle); the same is Sukla (white). This is Vaidyuta (brilliant); that which is brilliant is the Supreme Brahman. 49. He is one. He is only one Rudra. He is Isana. He is Lord (Bhagavan). Maheswara and Mahadeva. 50. Next, why is it called Om? As by mere recitation, it leads to the higher regions the whole body, it is called Om. 51. Next, why is it named Pranava? As by mere recitation, it bestows on the Brahmins (the fruit of the study) of Rik, Yajus, Saman, and Atharvangirasa mantras, and the Brahminic lustre in sacrifices, it is named Pranava. 52. Next, why is it called All Pervading (Sarvavyapi)? Because by mere recitation, it makes the aspirant Omnipresent. Like the oil in the oil-seed, pervading through all this, it, the peaceful Om, remains mingled and inter-mingled together. 53. Next, why is it infinite? Because the mere recitation of it, makes the reciter feel neither beginning, nor end, or up and down, nor across. 54. Next, why is it named Tara? The mere recitation of it enables one to transcend the great four of the trans migratory life consisting of conception, birth, old age and death. 55. Next, why is it called Sukushma? Because, be mere recitation, the aspirant becomes very minute, dwelling in all the bodies. 56. Next, why is it named Sukla? Because, by its recitation, one depresses and exhausts (his passions). 57. Next, why is it Vaidyuta? Because a mere recitation of it, illuminates his whole body which is in great darkness. 58. Next, why is it called the Supreme Brahman? The mere recitation of it makes him great. 59. Next, why is He one? Because He alone uplifts all the worlds, always creates, preserves and destroys them. 60. Next, why is He called one Rudra? (In reply to this a mantra is quoted). “Rudra alone exists and there is no second. He rules over all these worlds, possessed of creative and preservative powers. Having created the whole universe, He protects it. At the end, He destroys the same. O men, He remains inwards.” Therefore He is called only one Rudra. 61. Next, why is He called Isana? Because He rules over all the worlds, possessed of all supreme energies of power and rulership. (To support this a hymn is quoted here). “We approach thee, O Mighty One, with salutations, like the calves before mulching. O Light, Thou art the ruler of the movable as well as of immovable ones, Thou art the light of the heaven.” Hence Isana. 62. Next, why is He called Bhagavan (Lord)? Because He sees all things (directly) and also causes one to see the knowledge of Atman and leads one to Yoga. 63. Next, why is He called Mahesvara? Because he devours all the worlds. He always creates, preserves and destroys them. 64. Next, why is He called Mahadeva? Having given up all activities, He shines in His great glory of Atma-jnana-yoga. Hence Mahadeva. Thus is the mystery of Rudra. 65. (There are two more hymns). “This Deity is verily in all sides. He was born at first. He is in the womb of all. He is the born. He is going to be in everthing that will appear. The All-Formed One, O men, remains inward.” 66. “He has eyes on all sides, faces, hands and feet everywhere. The one Deity, having created the earth and heaven, keeps them in balance by two hands (virtue and vice) and by wings (five elements)” 67. This (Om) is to be worshipped. It has the spoken states (Para, Pasyanti, Madhyama and Vaikhari). One should grasp the spirit of them. 68. This path is wide-open. By this northern path, Devas, Rishis and the Pitris reach the supreme seat, the goal. 69. To the wise men, who realize the Deity in Atman, who are as minute as the end of the hair, in the center of the heart, who are omniscient the best and all, is the eternal tranquility, and not to others. 70. One should meditate upon Him, who alone presides over each and every womb and by whom all the fivefold world is pervaded through, who is the Lord, the Divine Person, and who is the revered Om; and he attains perfect peace. 71. The characteristics of the mind is to be found inside of the senses. In the mind are anger, desire, and forbearance. By rooting out the desire, which is the cause of all diversities, one should stop the Buddhi in Rudra diligently. 72. All declare, everyone should become one with Rudra. 73. One should reach Rudra, by Tapas (meditation), who is Eternal, Ancient, and the Giver of foods and strength. 74. The following is called Pasupataa vow. “Agni is Bhasma (fire is the holy ashes). Vayu is Bhasma. The water is Bhasma. The Earth is Bhasma. The Ether is Bhasma. All this is Bhasma. And mind and all the senses are Bhasma.” By this hymn taking the holy ashes, mixing them with water, one should besmear himself all over. One should observe this vow called Pasupata for the sake of getting rid of the noose (Pasa) of the Pasus (ignorant souls). 75. The Brahmin who studies this Atharvasiras daily is purified from (the sin of not observing the worship of the ) Fire, from Vayu, from the Sun and the Moon, from Truth, and he is purified from all (the sins). He gets the virtue of having bathed in all the holy waters. He attains the fruit of studying all the Vedas. He gets the effect of observing all the Vedic vows. He becomes known to all the Devas. He gets the result of performing all Yajnas and Kratus; and of repeating Itihasa, Purana and Rudras (Rudradhyaya, five Indra and five jabala upanishats) one hundred thousand times; of repeating Gayatri one hundred thousand times; and of repeating Pranava ten thousand times. He purifies his ten past and ten future generations. He purifies all whom he sees. Thus says the Lord Atharvasiras, Atharvasiras. 76. Once recited, one becomes pure holy and skillful. Twice repeated, he gets the seat of Ganapati, Thrice repeated, he enters the Deity himself. Om! Truth. 77. “Let the adoration be to that Rudra who is in the fire, water, who has entered into herbs and creepers and who has created all this universe.” (It is a mantra). 78. (The definition of the Atharvasiras is given here). Atharva, leaving out his heart and head and going beyond the top of the head, proclaimed this (indicating he found out this while he is at the end of Nada). “The breath of Atharvasiras which is the sheath of the Deity is the protector (of the Devotees). Let the breath of him protect (our) wealth, food and mind, wealth, food and mind, (repetition indicates the end of the book); knowledge, food and mind, knowledge, food and mind; Salvation, food and mind, Salvation, food and mind.” 79. Om! Truth. Thus ends the Upanishat.
atharvavedīya śaiva upaniṣat ॥ atharvaśirasāmarthamanarthaprocavācakam । sarvādhāramanādhāraṃ svamātratraipadākṣaram ॥ oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ । sthirairaṅgaistuṣṭuvāṃsastanūbhi- rvyaśema devahitaṃ yadāyuḥ ॥ svasti na indro vṛiddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ । svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ oṃ devā ha vai svargaṃ lokamāyaṃste rudramapṛcchanko bhavāniti । so'bravīdahamekaḥ prathamamāsaṃ vartāmi ca bhaviśyāmi ca nānyaḥ kaścinmatto vyatirikta iti । so'ntarādantaraṃ prāviśat diśaścāntaraṃ prāviśat so'haṃ nityānityo'haṃ vyaktāvyakto brahmābrahmāhaṃ prāñcaḥ pratyañco'haṃ dakṣiṇāñca udañcohaṃ adhaścordhvaṃ cāhaṃ diśaśca pratidiśaścāhaṃ pumānapumān striyaścāhaṃ gāyatryahaṃ sāvitryahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando'haṃ gārhapatyo dakṣiṇāgnirāhavanīyo'haṃ satyo'haṃ gaurahaṃ gauryahamṛgahaṃ yajurahaṃ sāmāhamatharvāṅgiraso'haṃ jyeṣṭho'haṃ śreṣṭho'haṃ variṣṭho'hamāpo'haṃ tejo'haṃ guhyoha।maraṇyo'hamakṣaramahaṃ kṣaramahaṃ puṣkaramahaṃ pavitramahamugraṃ ca madhyaṃ ca bahiśca purastājjyotirityahameva sarvebhyo māmeva sa sarvaḥ samāṃ yo māṃ veda sa sarvāndevānveda sarvāṃśca vedānsāṅgānapi brahma brāhmaṇaiśca gāṃ gobhirbrāhmāṇānbrāhmaṇena havirhaviṣā āyurāyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā । tato ha vai te devā rudramapṛcchan te devā rudramapaśyan । te devā rudramadhyāyan tato devā ūrdhvabāhavo rudraṃ stuvanti ॥ 1॥ oṃ yo vai rudraḥ sa bhagavānyaśca brahmā tasmai vai namonamaḥ ॥ 1॥ yo vai rudraḥ sa bhagavān yaśca viṣṇustasmai vai namonamaḥ ॥ 2॥ yo vai rudraḥ sa bhagavānyaśca skandastasmai vai namonamaḥ ॥ 3॥ yo vai rudraḥ sa bhagavānyaścendrastasmai vai namonamaḥ ॥ 4॥ yo vai rudraḥ sa bhagavānyaścāgnistasmai vai namonamaḥ ॥ 5॥ yo vai rudraḥ sa bhagavānyaśca vāyustasmai vai namonamaḥ ॥ 6॥ yo vai rudraḥ sa bhagavānyaśca sūryastasmai vai namonamaḥ ॥ 7॥ yo vai rudraḥ sa bhagavānyaśca somastasmai vai namonamaḥ ॥ 8॥ yo vai rudraḥ sa bhagavānye cāṣṭau grahāstasmai vai namonamaḥ ॥ 9॥ yo vai rudraḥ sa bhagavānye cāṣṭau pratigrahāstasmai vai namonamaḥ ॥ 10॥ yo vai rudraḥ sa bhagavānyacca bhūstasmai vai namonamaḥ ॥ 11॥ yo vai rudraḥ sa bhagavānyacca bhuvastasmai vai namonamaḥ ॥ 12॥ yo vai rudraḥ sa bhagavānyacca svastasmai vai namonamaḥ ॥ 13॥ yo vai rudraḥ sa bhagavānyacca mahastasmai vai namonamaḥ ॥ 14॥ yo vai rudraḥ sa bhagavānyā ca pṛthivī tasmai vai namonamaḥ ॥ 15॥ yo vai rudraḥ sa bhagavānyaccāntarikṣaṃ tasmai vai namonamaḥ ॥ 16॥ yo vai rudraḥ sa bhagavānyā ca dyaustasmai vai namonamaḥ ॥ 17॥ yo vai rudraḥ sa bhagavānyāścāpastasmai vai namonamaḥ ॥ 18॥ yo vai rudraḥ sa bhagavānyacca tejastasmai vai namonamaḥ ॥ 19॥ yo vai rudraḥ sa bhagavānyaśca kālastasmai vai namonamaḥ ॥ 20॥ yo vai rudraḥ sa bhagavānyaśca yamastasmai vai namonamaḥ ॥ 21॥ yo vai rudraḥ sa bhagavānyaśca mṛtyustasmai vai namonamaḥ ॥ 22॥ yo vai rudraḥ sa bhagavānyaccāmṛtaṃ tasmai vai namonamaḥ ॥ 23॥ yo vai rudraḥ sa bhagavānyaccākāśaṃ tasmai vai namonamaḥ ॥ 24॥ yo vai rudraḥ sa bhagavānyacca viśvaṃ tasmai vai namonamaḥ ॥ 25॥ yo vai rudraḥ sa bhagavānyācca sthūlaṃ tasmai vai namonamaḥ ॥ 26॥ yo vai rudraḥ sa bhagavānyacca sūkṣmaṃ tasmai vai namonamaḥ ॥ 27॥ yo vai rudraḥ sa bhagavānyacca śuklaṃ tasmai namonamaḥ ॥ 28॥ yo vai rudraḥ sa bhagavānyacca kṛṣṇaṃ tasmai vai namonamaḥ ॥ 29॥ yo vai rudraḥ sa bhagavānyacca kṛtsnaṃ tasmai vai namonamaḥ ॥ 30॥ yo vai rudraḥ sa bhagavānyacca satyaṃ tasmai vai namonamaḥ ॥ 31॥ yo vai rudraḥ sa bhagavānyacca sarvaṃ tasmai vai namonamaḥ ॥ 32॥ ॥ 2॥ bhūste ādirmadhyaṃ bhuvaḥ svaste śīrṣaṃ viśvarūpo'si brahmaikastvaṃ dvidhā tridhā vṛddhistaṃ śāntistvaṃ puṣṭistvaṃ hutamahutaṃ dattamadattaṃ sarvamasarvaṃ viśvamaviśvaṃ kṛtamakṛtaṃ paramaparaṃ parāyaṇaṃ ca tvam । apāma somamamṛtā abhūmāganma jyotiravidāma devān । kiṃ nūnamasmānkṛṇavadarātiḥ kimu dhūrtiramṛtaṃ mārtyasya । somasūryapurastāt sūkṣmaḥ puruṣaḥ । sarvaṃ jagaddhitaṃ vā etadakṣaraṃ prājāpatyaṃ sūkṣmaṃ saumyaṃ puruṣaṃ grāhyamagrāhyeṇa bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmeṇa vāyavyaṃ vāyavyena grasati svena tejasā tasmādupasaṃhartre mahāgrāsāya vai namo namaḥ । hṛdisthā devatāḥ sarvā hṛdi prāṇāḥ pratiṣṭhitāḥ । hṛdi tvamasi yo nityaṃ tisro mātrāḥ parastu saḥ । tasyottarataḥ śiro dakṣiṇataḥ pādau ya uttarataḥ sa oṅkāraḥ ya oṅkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so'nantaḥ yo'nantastattāraṃ yattāraṃ tatsūkṣmaṃ tacchuklaṃ yacchuklaṃ tadvaidyutaṃ yadvaidyutaṃ tatparaṃ brahma yatparaṃ brahma sa ekaḥ ya ekaḥ sa rudraḥ ya rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ ॥ 3॥ atha kasmāducyata oṅkāro yasmāduccāryamāṇa eva prāṇānūrdhvamutkrāmayati tasmāducyate oṅkāraḥ । atha kasmāducyate praṇavaḥ yasmāduccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayati ca tasmāducyate praṇavaḥ । atha kasmāducyate sarvavyāpī yasmāduccāryamāṇa eva sarvāṃlokānvyāpnoti sneho yathā palalapiṇḍamiva śāntarūpamotaprotamanuprāpto vyatiṣaktaśca tasmāducyate sarvavyāpī । atha kasmāducyate'nanto yasmāduccāryamāṇa eva tiryagūrdhvamadhastāccāsyānto nopalabhyate tasmāducyate'nantaḥ । atha kasmāducyate tāraṃ yasmāduccāramāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāttārayati trāyate ca tasmāducyate tāram । atha kasmāducyate śuklaṃ yasmāduccāryamāṇa eva klandate klāmayati ca tasmāducyate śuklam । atha kasmāducyate sūkṣmaṃ yasmāduccāryamāṇa eva sūkṣmo bhūtvā śarīrāṇyadhitiṣṭhati sarvāṇi cāṅgānyamimṛśati tasmāducyate sūkṣmam । atha kasmāducyate vaidyutaṃ yasmāduccāryamāṇa eva vyakte mahati tamasi dyotayati tasmāducyate vaidyutam । atha kasmāducyate paraṃ brahma yasmātparamaparaṃ parāyaṇaṃ ca bṛhadbṛhatyā bṛṃhayati tasmāducyate paraṃ brahma । atha kasmāducyate ekaḥ yaḥ sarvānprāṇānsaṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrthameke vrajanti tīrthameke dakṣiṇāḥ pratyañca udañcaḥ prāñco'bhivrajantyeke teṣāṃ sarveṣāmiha sadgatiḥ । sākaṃ sa eko bhūtaścarati prajānāṃ tasmāducyata ekaḥ । atha kasmāducyate rudraḥ yasmādṛṣibhirnānyairbhaktairdrutamasya rūpamupalabhyate tasmāducyate rudraḥ । atha kasmāducyate īśānaḥ yaḥ sarvāndevānīśate īśānībhirjananībhiśca paramaśaktibhiḥ । amitvā śūra ṇo numo dugdhā iva dhenavaḥ । īśānamasya jagataḥ svardṛśamīśānamindra tasthiṣa iti tasmāducyate īśānaḥ । atha kasmāducyate bhagavānmaheśvaraḥ yasmādbhaktā jñānena bhajantyanugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvānbhāvānparityajyātmajñānena yogeśvairyeṇa mahati mahīyate tasmāducyate bhagavānmaheśvaraḥ । tadetadrudracaritam ॥ 4॥ eko ha devaḥ pradiśo nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ । sa eva jātaḥ janiṣyamāṇaḥ pratyaṅjanāstiṣṭhati sarvatomukhaḥ । eko rudro na dvitīyāya tasmai ya imāṃllokānīśata īśanībhiḥ । pratyaṅjanāstiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni goptā । yo yoniṃ yonimadhitiṣṭhatityeko yenedaṃ sarvaṃ vicarati sarvam । tamīśānaṃ puruṣaṃ devamīḍyaṃ nicāyyemāṃ śāntimatyantameti । kṣamāṃ hitvā hetujālāsya mūlaṃ buddhyā saṃcitaṃ sthāpayitvā tu rudre । rudramekatvamāhuḥ śāśvataṃ vai purāṇamiṣamūrjeṇa paśavo'nunāmayantaṃ mṛtyupāśān । tadetenātmannetenārdhacaturthena mātreṇa śāntiṃ saṃsṛjanti paśupāśavimokṣaṇam । yā sā prathamā mātrā brahmadevatyā raktā varṇena yastāṃ dhyāyate nityaṃ sa gacchetbrahmapadam । yā sā dvitīyā mātrā viṣṇudevatyā kṛṣṇā varṇena yastāṃ dhyāyate nityaṃ sa gacchedvaiṣṇavaṃ padam । yā sā tṛtīyā mātrā īśānadevatyā kapilā varṇena yastāṃ dhyāyate nityaṃ sa gacchedaiśānaṃ padam । yā sārdhacaturthī mātrā sarvadevatyā'vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasannibhā varṇena yastāṃ dhyāyate nityaṃ sa gacchetpadamanāmayam । tadetadupāsīta munayo vāgvadanti na tasya grahaṇamayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ paramaparaṃ parāyaṇaṃ ceti । vālāgramātraṃ hṛdayasya madhye viśvaṃ devaṃ jātarūpaṃ vareṇyam । tamātmasthaṃ yenu paśyanti dhīrāsteṣāṃ śāntirbhavati netareṣām । yasminkrodhaṃ yāṃ ca tṛṣṇāṃ kṣamāṃ cākṣamāṃ hitvā hetujālasya mūlam । buddhyā saṃcitaṃ sthāpayitvā tu rudre rudramekatvamāhuḥ । rudro hi śāśvatena vai purāṇeneṣamūrjeṇa tapasā niyantā । agniriti bhasma vāyuriti bhasma jalamiti bhasma sthalamiti bhasma vyometi bhasma sarvaṃha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmādvratamidaṃ pāśupataṃ yadbhasma nāṅgāni saṃspṛśettasmādbrahma tadetatpāśupataṃ paśupāśa vimokṣaṇāya ॥ 5॥ yo'gnau rudro yo'psvantarya oṣadhīrvīrudha āviveśa । ya imā viśvā bhuvanāni caklṛpe tasmai rudrāya namo'stvagnaye । yo rudro'gnau yo rudro'psvantaryo oṣadhīrvīrudha āviveśa । yo rudra imā viśvā bhuvanāni caklṛpe tasmai rudrāya namonamaḥ । yo rudro'psu yo rudra oṣadhīṣu yo rudro vanaspatiṣu । yena rudreṇa jagadūrdhvaṃdhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye'ntarikṣe tasmai rudrāya vai namonamaḥ । mūrdhānamasya saṃsevyāpyatharvā hṛdayaṃ ca yat । mastiṣkādūrdhvaṃ prerayatyavamāno'dhiśīrṣataḥ ।tadvā atharvaṇaḥ śiro devakośaḥ samujjhitaḥ । tatprāṇo'bhirakṣati śiro'ntamatho manaḥ । na ca divo devajanena guptā na cāntarikṣāṇi na ca bhūma imāḥ । yasminnidaṃ sarvamotaprotaṃ tasmādanyanna paraṃ kiñcanāsti । na tasmātpūrvaṃ na paraṃ tadasti na bhūtaṃ nota bhavyaṃ yadāsīt । sahasrapādekamūrdhnā vyāptaṃ sa evedamāvarīvarti bhūtam । akṣarātsaṃjāyate kālaḥ kālādvyāpaka ucyate । vyāpako hi bhagavānrudro bhogāyamano yadā śete rudrastadā saṃhāryate prajāḥ । ucchvāsite tamo bhavati tamasa āpo'psvaṅgulyā mathite mathitaṃ śiśire śiśiraṃ mathyamānaṃ phenaṃ bhavati phenādaṇḍaṃ bhavatyaṇḍādbrahmā bhavati brahmaṇo vāyuḥ vāyoroṅkāraḥ oṃkārātsāvitrī sāvityā gāyatrī gāyatryā lokā bhavanti । arcayanti tapaḥ satyaṃ madhu kṣaranti yadbhuvam । etaddhi paramaṃ tapaḥ । āpo'jyotī raso'mṛtaṃ brahma bhūrbhuvaḥ svaro nama iti ॥ 6॥ ya idamatharvaśiro brāhmaṇo'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa sarverdevairjñāto bhavati sa sarvairvedairanudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhiriṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti । praṇavānāmayutaṃ japtaṃ bhavati । sa cakṣuṣaḥ paṅktiṃ punāti । ā saptamātpuruṣayugānpunātītyāha bhagavānatharvaśiraḥ sakṛjjaptvaiva śuciḥ sa pūtaḥ karmaṇyo bhavati । dvitīyaṃ japtvā gaṇādhipatyamavāpnoti । tṛtīyaṃ japtvaivamevānupraviśatyoṃ satyamoṃ satyamoṃ satyam ॥ 7॥ oṃ bhadraṃ karṇebhiriti śāntiḥ ॥ ॥ ityatharvaśiraupaniṣatsamāptā ॥