स्वाज्ञानासुरराड्ग्रासस्वज्ञाननरकेसरी । प्रतियोगिविनिर्मुक्तं ब्रह्ममात्रं करोतु माम् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण- मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ । पुरा किलेदं न किंचन्नासीन्न द्यौर्नान्तरिक्षं न पृथिवी केवलं ज्योतीरूपमनाद्यनन्तमनण्वस्थूलरूपमरूपं रूपवदविज्ञेयं ज्ञानरूपमानन्दमयमासीत् । तदनन्यत्तद्द्वेधाभूद्धरितमेकं रक्तमपरम् । तत्र यद्रक्तं तत्पुंसो रूपमभूत् । यद्धरितं तन्मायायाः । तौ समगच्छतः । तयोर्वीर्यमेवमनन्दत् । तदवर्धत । तदण्डमभूधैमम् । तत्परिणममानमभूत् । ततः परमेष्ठी व्यजायत । सोऽभिजिज्ञासत किं मे कुलं किं मे कृत्यमिति । तं ह वागदृश्यमानाभ्युवाच भोभो प्रजापते त्वमव्यक्तादुत्पन्नोऽसि व्यक्तं ते कृत्यमिति । किमव्यक्तं यस्मादहमासिषम् । किं तद्व्यक्तं यन्मे कृत्यमिति । साब्रवीदविज्ञेयं हि तत्सौम्य तेजः । यदविज्ञेयं तदव्यक्तम् । तच्चेज्जिज्ञाससि मावगच्छेति । स होवाच कैषा त्वं ब्रह्मवाग्यदसि शंसात्मानमिति । सा त्वब्रवीत्तपसा मां विजिज्ञासस्वेति । स ह सहस्रं समा ब्रह्मचर्यमध्युवासाध्युवास ॥ १॥ अथापश्यदृचमानुष्टुभीं परमां विद्यां यस्याङ्गान्यन्ये मन्त्राः । यत्र ब्रह्म प्रतिष्ठितम् । विश्वेदेवाः प्रतिष्ठिताः । यस्तां न वेद किमन्यैर्वेदैः करिष्यति । तां विदित्वा स च रक्तं जिज्ञासयामास । तामेवमनूचानां गायन्नासिष्ट । सहस्रं समा आद्यन्तनिहितोङ्कारेण पदान्यगायत् । सहस्रं समास्तथैवाक्षरशः । ततोऽपश्यज्ज्योतिर्मयं श्रियालिङ्गितं सुपर्णरथं शेषफणाच्छदितमौलिं मृगमुखं नरवपुषं शशिसूर्यहव्यवाहनात्मकनयनत्रयम् । ततः प्रजापतिः प्रणिपपात नमोनम इति । तथैवर्चाथ तमस्तौत् । उग्रमित्याह उग्रः खलु वा एष मृगरूपत्वात् । वीरमित्याह वीरो वा एष वीर्यवत्त्वात् । महाविष्णुमित्याह महतां वा अयं महान्रोदसी व्याप्य स्थितः । ज्वलन्तमित्याह ज्वलन्निव खल्वसाववस्थितः । सर्वतोमुखमित्याह सर्वतः खल्वयं मुखवान्विश्वरूपत्वात् । नृसिंहमित्याह यथा यजुरेवैतत् । भीषणमित्याह भीषा वा अस्मादादित्य उदेति भीतश्चन्द्रमा भीतो वायुर्वाति भीतोऽग्निर्दहति भीतः पर्जन्यो वर्षति । भद्रमित्याह भद्रः खल्वयं श्रिया जुष्टः । मृत्योर्मृत्युमित्याह मृत्योर्वा अयं मृत्युरमृतत्वं प्रजानामन्नादानाम् । नमामीत्याह यथा यजुरेवैतत् । अहमित्याह यथा यजुरेवैतत् ॥ २॥ अथ भगवांस्तमब्रवीत्प्रजापते प्रीतोऽहं किं तवेप्सितं तदाशंसेति । स होवाच भगवन्नव्यक्तादुत्पन्नोऽस्मि व्यक्तं मम कृत्यमिति पुराश्रावि । तत्राव्यक्तं भवानित्यज्ञायि व्यक्तं मे कथयेति । व्यक्तं वै विश्वं चराचरात्मकम् । यद्व्यज्यते तद्व्यक्तस्य व्यक्तत्वमिति । स होवाच न शक्नोमि जगत्स्रष्टुमुपायं मे कथयेति । तमुवाच पुरुषः प्रजापते शृणु सृष्टेरुपायं परमं यं विदित्वा सर्वं ज्ञास्यसि । सर्वत्र शक्ष्यसि सर्वं करिष्यसि । मय्यग्नौ स्वात्मानं हविर्ध्यायेत्तयैवानुष्टुभर्चा । ध्यानयज्ञोऽयमेव । एतद्वै महोपनिषद्देवानां गुह्यम् । न ह वा एतस्य साम्ना नर्चा न यजुषार्थो नु विद्यते । य इमा वेद स सर्वान्कामानवाप्य सर्वांल्लोकाञ्जित्वा मामेवाभ्युपैति न स पुनरावर्तते य एवं वेदेति ॥ ३॥ प्रजापतिस्तं यज्ञायं वसीयांसमात्मानं मन्यमानो मनोयज्ञेनेजे । सप्रणवया तयैवर्चा हविर्ध्यात्वात्मान- मात्मन्यग्नौ जुहुयात् । सर्वमजानात्सर्वत्राशकत्सर्वमकरोत् । य एवंविद्वानिमं ध्यानयज्ञमनुतिष्ठेत्स सर्वज्ञोऽनन्तशक्तिः सर्वकर्ता भवति । स सर्वांॅल्लोकाञ्जित्वा ब्रह्म परं प्राप्नोति ॥ ४॥ अथ प्रजापतिर्लोकान्सिसृक्षमाणस्तस्या एव विद्याया यानि त्रिंशदक्षराणि तेभ्यस्त्रींॅल्लोकान् । अथ द्वे द्वे अक्षरे ताभ्यामुभयतो दधार । तस्या एवर्चो द्वात्रिंशद्भिरक्षरै- स्तान्देवान्निर्ममे । सर्वैरेव स इन्द्रोऽभवत् । तस्मादिन्द्रो देवानामधिकोऽभवत् । य एवं वेद समानानामधिको भवेत् । तस्या एकादशभिः पादैरेकादश रुद्रान्निर्ममे । तस्या एकादशभिरेकादशादित्यान्निर्ममे । सर्वैरेव स विष्णुरभवत् । तस्माद्विष्णुरादित्यानामधिकोऽभवत् । य एवं वेद समानानामधिको भवेत् । स चतुर्भिश्चतुर्भिरक्षरैरष्टौ वसूनजनयत् । स तस्या आद्यैर्द्वादशभिरक्षरैर्ब्राह्मणमजनयत् । दशभिर्दशभिर्विट्क्षत्रे । तस्माद्ब्राह्मणो मुख्यो भवति । एवं तन्मुख्यो भवति य एवं वेद । तूष्णीं शूद्रमजनयत्तस्माच्छूद्रो निर्विद्योऽभवत् । न वेदं इवा न नक्तमासीदव्यावृतम् । स प्रजापतिरानुष्टुभाभ्यामर्धर्चाभ्यामहोरात्रावकल्पयत् । ततो व्यैच्छत् व्येवास्मा उच्छति । अथो तम एवापहते । ऋग्वेदमस्या आद्यात्पादादकल्पयत् । यजुर्द्वितीयात् । साम तृतीयात् । अथर्वाङ्गिरसश्चतुर्थात् यदष्टाक्षरपदा तेन गायत्री । यदेकादशपदा तेन त्रिष्टुप् । यच्चतुष्पदा तेन जगती यद्द्वात्रिंशदक्षरा तेनानुष्टुप् । सा वा एषा सर्वाणि छन्दांसि । य इमां सर्वाणि छन्दांसि वेद । सर्वं जगदानुष्टुभ एवोत्पन्नमनुष्टुप्प्रतिष्ठितं प्रतितिष्ठति यश्चैवं वेद ॥ ५॥ अथ यदा प्रजाः सृष्टा न जायन्ते प्रजापतिः कथं न्विमाः प्रजाः सृजेयमिति चिन्तयन्नुग्रमितीमामृचं गातुमुपाक्रामत् । ततः प्रथमपादादुग्ररूपो देवः प्रादुरभूत् एकः श्यामः पुरतो रक्तः पिनाकी स्त्रीपुंसरूपस्तं विभज्य स्त्रीषु तस्य स्त्रीरूपं पुंसि च पुंरूपं व्यधात् । उभाभ्यानंशाभ्यां सर्वमादिष्टः । ततः प्रजाः प्रजायन्ते । य एवं वेद प्रजापतेः सोऽपि त्र्यम्बक इमामृचमुद्गाय- न्नुद्ग्रथितजटाकलापः प्रत्यग्ज्योतिष्यात्मन्येव रन्तारमिति । इन्द्रो वै किल देवानामनुजावर आसीत् । तं प्रजापतिरब्रवीद्गच्छ देवानामधिपतिर्भवेति । सोऽगच्छत् । तं देवा ऊचुरनुजावरोऽसि त्वमस्माकं कुतस्त्वाधिपत्यमिति । स प्रजापतिमभ्येत्योवाचैवं देवा ऊचुरनुजावरस्य कुतस्तवाधिपत्यमिति । तं प्रजापतिरिन्द्रं त्रिकलशैरमृतपूर्णैरानुष्टुभाभिमन्त्रितैरभिषिच्य तं सुदर्शनेन दक्षिणतो ररक्ष पाञ्चजन्येन वामतो द्वयेनैव सुरक्षितोऽभवत् । रौक्मे फलके सूर्यवर्चसि मन्त्रमानुष्टुभं विन्यस्य तदस्य कण्ठे प्रत्यमुञ्चत् । ततः सुदुर्निरीक्षोऽभवत् । तस्मै विद्यामानुष्टुभीं प्रादात् । ततो देवास्तमाधिपत्यायानुमेनिरे । स स्वराडभूत् । य एवं वेद स्वराड् भवेत् । सोऽमन्यत पृथिवीमपि कथमपां जयेयमिति । स प्रजापतिमुपाधावत् । तस्मात्प्रजापतिः कमठाकारमिन्द्रनागभुजगेन्द्राधारं भद्रासनं प्रादात् । स पृथिवीमभ्यजयत् । ततः स उभयोर्लोकयोरधिपतिरभूत् । य एवं वेदोभयोर्लोकयोरधिपतिर्भवति । स पृथिवीं जयति यो वा अप्रतिष्ठितं शिथिलं भ्रातृवेभ्यो वसीयान्भवति यश्चैवं वेद यश्चैवं वेद ॥ ६॥ य इमां विद्यामधीते स सर्वान्वेदानधीते । स सर्वैः क्रतुभिर्यजते । स सर्वतीर्थेषु स्नाति । स महापातकोपपातकैः प्रमुच्यते । स ब्रह्मवर्चसं महदाप्नुयात् । आब्रह्मणः पूर्वानाकल्पाऽश्चोत्तरांश्च वंशान्पुनीते । नैनमपस्मारादयो रोगा आदिधेयुः । सयक्षाः सप्रेतपिशाचा अप्येनं स्पृष्ट्वा दृष्ट्वा श्रुत्वा वा पापिनः पुण्यांॅल्लोकानवाप्नुयुः । चिन्तितमात्रादस्य सर्वेऽर्थाः सिद्ध्येयुः । पितरमिवैनं सर्वे मन्यन्ते । राजानश्चास्यादेशकारिणो भवन्ति । न चाचार्यव्यतिरिक्तं श्रेयांसं दृष्ट्वा नमस्कुर्यात् । न चास्मादुपावरोहेत् । जीवन्मुक्तश्च भवति । देहान्ते तमसः परं धाम प्राप्नुयात् । यत्र विराण् नृसिंहोऽवभासते तत्र खलूपासते । तत्स्वरूपध्यानपरा मुनय आकल्पान्ते तस्मिन्नेवात्मनि लीयन्ते । न च पुनरावर्तन्ते । न चेमां विद्यामश्रद्दधानाय ब्रूयान्नासूयावते नानूचानाय नाविष्णुभक्ताय नानृतिने नातपसे नादान्ताय नाशान्ताय नादीक्षिताय नाधर्मशीलाय न हिंसकाय नाब्रह्मचारिण इत्येषोपनिषत् ॥ ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण- मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इत्यव्यक्तोपनिषत्समाप्ता ॥
Om! Let my limbs and speech, Prana, eyes, ears, vitality And all the senses grow in strength. All existence is the Brahman of the Upanishads. May I never deny Brahman, nor Brahman deny me. Let there be no denial at all: Let there be no denial at least from me. May the virtues that are proclaimed in the Upanishads be in me, Who am devoted to the Atman; may they reside in me. Om ! Let there be Peace in me ! Let there be Peace in my environment ! Let there be Peace in the forces that act on me ! The three states of evolution in the beginning were Avyakta( indeterminate), Mahattatwa(determined indeterminate) and Ahamkara(determinate). For each of these is a sukta. Avyakta – Naasadeeya Sukta Mahattatwa – Hiranyagarbha Sukta Ahamkara — Purusha Sukta Then there was neither Aught nor Naught, no air nor sky beyond. What covered all? What rested all? In watery gulf profound? Nor death was then, nor deathlessness, nor change of night and day. That one breathed calmly, self-sustained; naught else beyond it lay. Gloom hid in gloom existed first-one sea eluding view. The one a void in chaos wrapt, by inward forever grew. Within it first arose desire, the primal germ of mind, which nothing with existence links, as ages searching find. The kindling ray that shot across the dark and dreariness- was it beneath or high aloft? What bard can answer this? There fecundating powers were found and mighty forces strove – A self supporting mass beneath, and energy above. Who knows and whoever told, from whence this vast creation rose? No gods had been born. Who then can e’er the truth disclose whence sprang this world, whether framed by hand divine or no- Its lord in heaven alone can tell, if he can show. Om ! Let my limbs and speech, Prana, eyes, ears, vitality And all the senses grow in strength. All existence is the Brahman of the Upanishads. May I never deny Brahman, nor Brahman deny me. Let there be no denial at all: Let there be no denial at least from me. May the virtues that are proclaimed in the Upanishads be in me, Who am devoted to the Atman; may they reside in me. Om ! Let there be Peace in me ! Let there be Peace in my environment ! Let there be Peace in the forces that act on me ! Here ends the Avyaktopanishad, included in the Sama-Veda.
svājñānāsurarāḍgrāsasvajñānanarakesarī । pratiyogivinirmuktaṃ brahmamātraṃ karotu mām ॥ oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca ॥ sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇa- mastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ hariḥ oṃ । purā kiledaṃ na kiṃcannāsīnna dyaurnāntarikṣaṃ na pṛthivī kevalaṃ jyotīrūpamanādyanantamanaṇvasthūlarūpamarūpaṃ rūpavadavijñeyaṃ jñānarūpamānandamayamāsīt । tadananyattaddvedhābhūddharitamekaṃ raktamaparam । tatra yadraktaṃ tatpuṃso rūpamabhūt । yaddharitaṃ tanmāyāyāḥ । tau samagacchataḥ । tayorvīryamevamanandat । tadavardhata । tadaṇḍamabhūdhaimam । tatpariṇamamānamabhūt । tataḥ parameṣṭhī vyajāyata । so'bhijijñāsata kiṃ me kulaṃ kiṃ me kṛtyamiti । taṃ ha vāgadṛśyamānābhyuvāca bhobho prajāpate tvamavyaktādutpanno'si vyaktaṃ te kṛtyamiti । kimavyaktaṃ yasmādahamāsiṣam । kiṃ tadvyaktaṃ yanme kṛtyamiti । sābravīdavijñeyaṃ hi tatsaumya tejaḥ । yadavijñeyaṃ tadavyaktam । taccejjijñāsasi māvagaccheti । sa hovāca kaiṣā tvaṃ brahmavāgyadasi śaṃsātmānamiti । sā tvabravīttapasā māṃ vijijñāsasveti । sa ha sahasraṃ samā brahmacaryamadhyuvāsādhyuvāsa ॥ 1॥ athāpaśyadṛcamānuṣṭubhīṃ paramāṃ vidyāṃ yasyāṅgānyanye mantrāḥ । yatra brahma pratiṣṭhitam । viśvedevāḥ pratiṣṭhitāḥ । yastāṃ na veda kimanyairvedaiḥ kariṣyati । tāṃ viditvā sa ca raktaṃ jijñāsayāmāsa । tāmevamanūcānāṃ gāyannāsiṣṭa । sahasraṃ samā ādyantanihitoṅkāreṇa padānyagāyat । sahasraṃ samāstathaivākṣaraśaḥ । tato'paśyajjyotirmayaṃ śriyāliṅgitaṃ suparṇarathaṃ śeṣaphaṇācchaditamauliṃ mṛgamukhaṃ naravapuṣaṃ śaśisūryahavyavāhanātmakanayanatrayam । tataḥ prajāpatiḥ praṇipapāta namonama iti । tathaivarcātha tamastaut । ugramityāha ugraḥ khalu vā eṣa mṛgarūpatvāt । vīramityāha vīro vā eṣa vīryavattvāt । mahāviṣṇumityāha mahatāṃ vā ayaṃ mahānrodasī vyāpya sthitaḥ । jvalantamityāha jvalanniva khalvasāvavasthitaḥ । sarvatomukhamityāha sarvataḥ khalvayaṃ mukhavānviśvarūpatvāt । nṛsiṃhamityāha yathā yajurevaitat । bhīṣaṇamityāha bhīṣā vā asmādāditya udeti bhītaścandramā bhīto vāyurvāti bhīto'gnirdahati bhītaḥ parjanyo varṣati । bhadramityāha bhadraḥ khalvayaṃ śriyā juṣṭaḥ । mṛtyormṛtyumityāha mṛtyorvā ayaṃ mṛtyuramṛtatvaṃ prajānāmannādānām । namāmītyāha yathā yajurevaitat । ahamityāha yathā yajurevaitat ॥ 2॥ atha bhagavāṃstamabravītprajāpate prīto'haṃ kiṃ tavepsitaṃ tadāśaṃseti । sa hovāca bhagavannavyaktādutpanno'smi vyaktaṃ mama kṛtyamiti purāśrāvi । tatrāvyaktaṃ bhavānityajñāyi vyaktaṃ me kathayeti । vyaktaṃ vai viśvaṃ carācarātmakam । yadvyajyate tadvyaktasya vyaktatvamiti । sa hovāca na śaknomi jagatsraṣṭumupāyaṃ me kathayeti । tamuvāca puruṣaḥ prajāpate śṛṇu sṛṣṭerupāyaṃ paramaṃ yaṃ viditvā sarvaṃ jñāsyasi । sarvatra śakṣyasi sarvaṃ kariṣyasi । mayyagnau svātmānaṃ havirdhyāyettayaivānuṣṭubharcā । dhyānayajño'yameva । etadvai mahopaniṣaddevānāṃ guhyam । na ha vā etasya sāmnā narcā na yajuṣārtho nu vidyate । ya imā veda sa sarvānkāmānavāpya sarvāṃllokāñjitvā māmevābhyupaiti na sa punarāvartate ya evaṃ vedeti ॥ 3॥ prajāpatistaṃ yajñāyaṃ vasīyāṃsamātmānaṃ manyamāno manoyajñeneje । sapraṇavayā tayaivarcā havirdhyātvātmāna- mātmanyagnau juhuyāt । sarvamajānātsarvatrāśakatsarvamakarot । ya evaṃvidvānimaṃ dhyānayajñamanutiṣṭhetsa sarvajño'nantaśaktiḥ sarvakartā bhavati । sa sarvāṃॅllokāñjitvā brahma paraṃ prāpnoti ॥ 4॥ atha prajāpatirlokānsisṛkṣamāṇastasyā eva vidyāyā yāni triṃśadakṣarāṇi tebhyastrīṃॅllokān । atha dve dve akṣare tābhyāmubhayato dadhāra । tasyā evarco dvātriṃśadbhirakṣarai- stāndevānnirmame । sarvaireva sa indro'bhavat । tasmādindro devānāmadhiko'bhavat । ya evaṃ veda samānānāmadhiko bhavet । tasyā ekādaśabhiḥ pādairekādaśa rudrānnirmame । tasyā ekādaśabhirekādaśādityānnirmame । sarvaireva sa viṣṇurabhavat । tasmādviṣṇurādityānāmadhiko'bhavat । ya evaṃ veda samānānāmadhiko bhavet । sa caturbhiścaturbhirakṣarairaṣṭau vasūnajanayat । sa tasyā ādyairdvādaśabhirakṣarairbrāhmaṇamajanayat । daśabhirdaśabhirviṭkṣatre । tasmādbrāhmaṇo mukhyo bhavati । evaṃ tanmukhyo bhavati ya evaṃ veda । tūṣṇīṃ śūdramajanayattasmācchūdro nirvidyo'bhavat । na vedaṃ ivā na naktamāsīdavyāvṛtam । sa prajāpatirānuṣṭubhābhyāmardharcābhyāmahorātrāvakalpayat । tato vyaicchat vyevāsmā ucchati । atho tama evāpahate । ṛgvedamasyā ādyātpādādakalpayat । yajurdvitīyāt । sāma tṛtīyāt । atharvāṅgirasaścaturthāt yadaṣṭākṣarapadā tena gāyatrī । yadekādaśapadā tena triṣṭup । yaccatuṣpadā tena jagatī yaddvātriṃśadakṣarā tenānuṣṭup । sā vā eṣā sarvāṇi chandāṃsi । ya imāṃ sarvāṇi chandāṃsi veda । sarvaṃ jagadānuṣṭubha evotpannamanuṣṭuppratiṣṭhitaṃ pratitiṣṭhati yaścaivaṃ veda ॥ 5॥ atha yadā prajāḥ sṛṣṭā na jāyante prajāpatiḥ kathaṃ nvimāḥ prajāḥ sṛjeyamiti cintayannugramitīmāmṛcaṃ gātumupākrāmat । tataḥ prathamapādādugrarūpo devaḥ prādurabhūt ekaḥ śyāmaḥ purato raktaḥ pinākī strīpuṃsarūpastaṃ vibhajya strīṣu tasya strīrūpaṃ puṃsi ca puṃrūpaṃ vyadhāt । ubhābhyānaṃśābhyāṃ sarvamādiṣṭaḥ । tataḥ prajāḥ prajāyante । ya evaṃ veda prajāpateḥ so'pi tryambaka imāmṛcamudgāya- nnudgrathitajaṭākalāpaḥ pratyagjyotiṣyātmanyeva rantāramiti । indro vai kila devānāmanujāvara āsīt । taṃ prajāpatirabravīdgaccha devānāmadhipatirbhaveti । so'gacchat । taṃ devā ūcuranujāvaro'si tvamasmākaṃ kutastvādhipatyamiti । sa prajāpatimabhyetyovācaivaṃ devā ūcuranujāvarasya kutastavādhipatyamiti । taṃ prajāpatirindraṃ trikalaśairamṛtapūrṇairānuṣṭubhābhimantritairabhiṣicya taṃ sudarśanena dakṣiṇato rarakṣa pāñcajanyena vāmato dvayenaiva surakṣito'bhavat । raukme phalake sūryavarcasi mantramānuṣṭubhaṃ vinyasya tadasya kaṇṭhe pratyamuñcat । tataḥ sudurnirīkṣo'bhavat । tasmai vidyāmānuṣṭubhīṃ prādāt । tato devāstamādhipatyāyānumenire । sa svarāḍabhūt । ya evaṃ veda svarāḍ bhavet । so'manyata pṛthivīmapi kathamapāṃ jayeyamiti । sa prajāpatimupādhāvat । tasmātprajāpatiḥ kamaṭhākāramindranāgabhujagendrādhāraṃ bhadrāsanaṃ prādāt । sa pṛthivīmabhyajayat । tataḥ sa ubhayorlokayoradhipatirabhūt । ya evaṃ vedobhayorlokayoradhipatirbhavati । sa pṛthivīṃ jayati yo vā apratiṣṭhitaṃ śithilaṃ bhrātṛvebhyo vasīyānbhavati yaścaivaṃ veda yaścaivaṃ veda ॥ 6॥ ya imāṃ vidyāmadhīte sa sarvānvedānadhīte । sa sarvaiḥ kratubhiryajate । sa sarvatīrtheṣu snāti । sa mahāpātakopapātakaiḥ pramucyate । sa brahmavarcasaṃ mahadāpnuyāt । ābrahmaṇaḥ pūrvānākalpā'ścottarāṃśca vaṃśānpunīte । nainamapasmārādayo rogā ādidheyuḥ । sayakṣāḥ sapretapiśācā apyenaṃ spṛṣṭvā dṛṣṭvā śrutvā vā pāpinaḥ puṇyāṃॅllokānavāpnuyuḥ । cintitamātrādasya sarve'rthāḥ siddhyeyuḥ । pitaramivainaṃ sarve manyante । rājānaścāsyādeśakāriṇo bhavanti । na cācāryavyatiriktaṃ śreyāṃsaṃ dṛṣṭvā namaskuryāt । na cāsmādupāvarohet । jīvanmuktaśca bhavati । dehānte tamasaḥ paraṃ dhāma prāpnuyāt । yatra virāṇ nṛsiṃho'vabhāsate tatra khalūpāsate । tatsvarūpadhyānaparā munaya ākalpānte tasminnevātmani līyante । na ca punarāvartante । na cemāṃ vidyāmaśraddadhānāya brūyānnāsūyāvate nānūcānāya nāviṣṇubhaktāya nānṛtine nātapase nādāntāya nāśāntāya nādīkṣitāya nādharmaśīlāya na hiṃsakāya nābrahmacāriṇa ityeṣopaniṣat ॥ oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca ॥ sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇa- mastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ hariḥ oṃ tatsat ॥ ityavyaktopaniṣatsamāptā ॥