विषं ब्रह्मातिरिक्तं स्यादमृतं ब्रह्ममात्रकम् । ब्रह्मातिरिक्तं विषवद्ब्रह्ममात्रं खगेडहम् ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ गारुडब्रह्मविद्यां प्रवक्ष्यामि यां ब्रह्मा विद्यां नारदाय प्रोवाच नारदो बृहत्सेनाय बृहत्सेन इन्द्राय इन्द्रो भरद्वाजाय भरद्वाजो जीवत्कामेभ्यः शिष्येभ्यः प्रायच्छत् । अस्याः श्रीमहागरुडब्रह्मविद्याया ब्रह्मा ऋषिः । गायत्री छन्दः । श्रीभगवान्महागरुडो देवता । श्रीमहागरुडप्रीत्यर्थे मम सकलविषविनाशनार्थे जपे विनियोगः । ॐ नमो भगवते अङ्गुष्ठाभ्यां नमः । श्री महागरुडाय तर्जनीभ्यां स्वाहा । पक्षीन्द्राय मध्यमाभ्यां वषट् । श्रीविष्णुवल्लभाय अनामिकाभ्यां हुम् । त्रैलोक्य परिपूजिताय कनिष्ठिकाभ्यां वौषट् । उग्रभयङ्करकालानलरूपाय करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः । भूर्भुवः सुवरोमिति दिग्बन्धः । ध्यानम् । स्वस्तिको दक्षिणं पादं वामपादं तु कुञ्चितम् । प्राञ्जलीकृतदोर्युग्मं गरुडं हरिवल्लभम् ॥ १॥ अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः । तक्षकाः कटिसूत्रं तु हारः कार्कोट उच्यते ॥ २॥ पद्मो दक्षिणकर्णे तु महापद्मस्तु वामके । शङ्खः शिरःप्रदेशे तु गुलिकस्तु भुजान्तरे ॥ ३॥ पौण्ड्रकालिकनागाभ्यां चामराभ्यां स्वीजितम् । एलापुत्रकनागाद्यैः सेव्यमानं मुदान्वितम् ॥ ४॥ कपिलाक्षं गरुत्मन्तं सुवर्णसदृशप्रभम् । दीर्घबाहुं बृहत्स्कन्धं नादाभरणभूषितम् ॥ ५॥ आजानुतः सुवर्णाभमाकट्योस्तुहिनप्रभम् । कुङ्कुमारुणमाकण्ठं शतचन्द्र निभाननम् ॥ ६॥ नीलाग्रनासिकावक्त्रं सुमहच्चारुकुण्डलम् । दंष्ट्राकरालवदनं किरीटमुकुटोज्ज्वलम् ॥ ७॥ कुङ्कुमाअरुणसर्वाङ्गं कुन्देन्दुधवलाननम् । विष्णुवाह नमस्तुभ्यं क्षेमं कुरु सदा मम ॥ ८॥ एवं ध्यायेत्त्रिसन्ध्यासु गरुडं नागभूषणम् । विषं नाशयते शीघ्रं तूलरशिमिवानलः ॥ ९॥ ओमीमों नमो भगवते श्रीमहागरुडाय पक्षीन्द्राय विष्णुवल्लभाय त्रैलोक्यपरिपूजिताय उग्रभयंकरकालानलरूपाय वज्रनखाय वज्रतुण्डाय वज्रदन्ताय वज्रदंष्ट्राय वज्रपुच्छाय वज्रपक्षालक्षितशरीराय ओमीकेह्येहि श्रीमहागरुडाप्रतिशासनास्मिन्नाविशाविश दुष्टानां विषं दूषयदूषय स्पृष्टानां नाशयनाशय दन्दशूकानां विषं दारयदारय प्रलीनं विषं प्रणाशयप्रणाशय सर्वविषं नाशयनाशय हनहन दहदह पचपच भस्मीकुरुभस्मीकुरु हुं फट् स्वाहा ॥ चन्द्रमण्डलसंकाश सूर्यमण्डलमुष्टिक । पृथ्वीमण्डलमुद्राङ्ग श्रीमहागरुडाय विषं हरहर हुं फट् स्वाहा ॥ ॐ क्षिप स्वाहा ॥ ओमीं सचरति सचरति तत्कारी मत्कारी विषाणां च विषरूपिणी विषदूषिणी विषशोषणी विषनाशिनी विषहारिणी हतं विषं नष्टं विषमन्तःप्रलीनं विषं प्रनष्टं विषं हतं ते ब्रह्मणा विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥ ॐ नमो भगवते महागरुडाय विष्णुवाहनाय त्रैलोक्यपरिपूजिताय वज्रनखवज्रतुण्डाय वज्रपक्षालंकृत- शरीराय एह्येहि महागरुड विषं छिन्धिच्छिन्धि आवेशयावेशय हुं फट् स्वाहा ॥ सुपर्णोऽसि गरुत्मात्त्रिवृत्ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनूर्वमदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं छन्दांस्यङ्गानि धिष्णिया शफा यजूंशि नाम ॥ सुपर्णोऽसि गरुत्मान्दिवं गच्छ सुवः पत ओमीं ब्रह्मविद्या- ममावास्यायां पौर्णमास्यां पुरोवाच सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं विषं प्रनष्टं विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥ तस्र्यम् । यद्यनन्तकदूतोऽसि यदि वानन्तकः स्वयं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा । यदि वाअसुकिदूतोऽसि यदि वा वासुकिः स्वयं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा यदि वा तक्षकः स्वयं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि कर्कोटकदूतोऽसि यदि वा कर्कोटकः स्वयं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि पद्मकदूतोऽसि यदि वा पद्मकः स्वयं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि महापद्मकदूतोऽसि यदि वा महापद्मकः स्वयं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि शङ्खकदूतोऽसि यदि वा शङ्खकः स्वयं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि गुलिकदूतोऽसि यदि वा गुलिकः स्वयं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि पौण्ड्रकालिकदूतोऽसि यदि वा पौण्ड्रकालिकः स्वयं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि नागकदूतोऽसि यदि वा नागकः स्वयं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा ॥ यदि लूतानां प्रलूतानां यदि वृश्चिकानां यदि घोटकानां यदि स्थावरजङ्गमानां सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा । अनन्तवासुकितक्षककर्कोटकपद्मकमहापद्मक- शङ्खकगुलिकपौण्ड्रकालिकनागक इत्येषां दिव्यानां महानागानां महानागादिरूपाणां विषतुण्डानां विषदन्तानां विषदंष्ट्राणां विषाङ्गानां विषपुच्छानां विश्वचाराणां वृश्चिकानां लूतानां प्रलूतानां मूषिकाणां गृहगौलिकानां गृहगोधिकानां घ्रणासानां गृहगिरिगह्वरकालानलवल्मीकोद्भूतानां तार्णानां पार्णानां काष्ठदारुवृक्षकोटरस्थानां मूलत्वग्दारुनिर्यासपत्रपुष्पफलोद्भूतानां दुष्टकीटकपिश्वान- मार्जारजंबुकव्याघ्रवराहाणां जरायुजाण्डजोद्भिज्जस्वेदजानां शस्त्रबाणक्षतस्फोटव्रणमहाव्रणकृतानां कृत्रिमाणामन्येषां भूतवेतालकूष्माण्डपिशाचप्रेतराक्षसयक्षभयप्रदानां विषतुण्डदंष्ट्रानां विषाङ्गानां विषपुच्छानां विषाणां विषरूपिणी विषदूषिणी विषशोषिणी विषनाशिनी विषहारिणी हतं विषं नष्टं विषमन्तःप्रलीनं विषं प्रनष्टं विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा । य इमां ब्रह्मविद्याममावास्यायां पठेच्छृणुयाद्वा यावज्जीवं न हिंसन्ति सर्पाः । अष्टौ ब्राह्मणान्ग्राहयित्वा तृणेन मोचयेत् । शतं ब्राह्मणान्ग्राहयित्वा चक्षुषा मोचयेत् । सहस्रं ब्राह्मणान्ग्राहयित्वा मनसा मोचयेत् । सर्पाञ्जले न मुञ्चन्ति । तृणे न मुञ्चन्ति । काष्ठे न मुञ्चन्तीत्याह भगवान्ब्रह्मेत्युपनिषत् ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इति श्रीगारुडोपनिषत्समाप्ता ॥
Om ! O Devas, may we hear with our ears what is auspicious; May we see with our eyes what is auspicious, O ye worthy of worship ! May we enjoy the term of life allotted by the Devas, Praising them with our body and limbs steady ! May the glorious Indra bless us ! May the all-knowing Sun bless us ! May Garuda, the thunderbolt for evil, bless us ! May Brihaspati grant us well-being ! Om ! Let there be Peace in me ! Let there be Peace in my environment ! Let there be Peace in the forces that act on me ! Om! That (world) is a complete whole. This (world) too is a complete whole. From the complete whole only, the (other) complete whole rose. Even after removing the complete whole from the (other) complete whole, still the complete whole remains unaltered and undisturbed. Om Shanti! Shanti! Shanti! I will preach the Brahman – science. Brahman taught it to Narada, Narada to Brhatsena, Brhatsena to Indra, Indra to Bharadvaja, Bharadvaja to his puils who desired to preserve their life. (He taught them the science) which achieves this, which achieves good, removes poison, destroys poison, overcomes poison and annihilates poison: “Struck is the poison, annihilated is the poison, destroyed is the poison; it is struck by Intra’s thunder-bolt, Svaha! May it originate from snakes, from vipers, from scorpions, from cankers, from salamanders, from amphibious animals or from rats”. “May you be Anantaka’s messenger, or be Anantaka himself! May you be Vasuki’s messenger, or be Vasuki himself! May you be Taksaka’s messenger, or be Taksaka himself! May you be Karkotaka’s messenger, or be Karkotaka himself! May you be Samkhapulika’s messenger, or be Samkhapulika himself! May you be Padmaka’s messenger, or be Padmaka himself! May you be Maha Padmaka’s messenger, or be Maha Padmaka himself! May you be Elapatraka’s messenger, or be Elapatraka himself! May you be Mahailapatraka’s messenger, or be Mahailapatraka himself! May you be Kalika’s messenger, or be Kalika himself! May you be Kulika’s messenger, or be Kulika himself! May you be Kambalasvatara’s messenger, or be Kambalasvatara himself!” For twelve years snakes do not bite him who hears this great science on the new moon night. The snakes do not bite him as long as he lives who, having recited this great science on the new moon night, wears it (as an amulet). He who teaches it to eight Brahmanas he releases (from the effects of snake bite) by merely touching with grass, with a piece of wood, with ashes. One who teaches it to a hundred Brahmanas, he releases by a mere glance. One who teaches it to a thousand Brahmanas, he releases by the mere thought – he releases it by the mere thought. Thus spake the exalted Brahman – the exalted Brahman. This is the essence of the Garuda Upanishad. Om! That (world) is a complete whole. This (world) too is a complete whole. From the complete whole only, the (other) complete whole rose. Even after removing the complete whole from the (other) complete whole, still the complete whole remains unaltered and undisturbed. Om Shanti! Shanti! Shanti! Om ! O Devas, may we hear with our ears what is auspicious; May we see with our eyes what is auspicious, O ye worthy of worship ! May we enjoy the term of life allotted by the Devas, Praising them with our body and limbs steady ! May the glorious Indra bless us ! May the all-knowing Sun bless us ! May Garuda, the thunderbolt for evil, bless us ! May Brihaspati grant us well-being ! Om ! Let there be Peace in me ! Let there be Peace in my environment ! Let there be Peace in the forces that act on me !
viṣaṃ brahmātiriktaṃ syādamṛtaṃ brahmamātrakam । brahmātiriktaṃ viṣavadbrahmamātraṃ khageḍaham ॥ oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥ bhadraṃ paśyemākṣabhiryajatrāḥ ॥ sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥ vyaśema devahitaṃ yadāyuḥ ॥ svasti na indro vṛddhaśravāḥ ॥ svasti naḥ pūṣā viśvavedāḥ ॥ svasti nastārkṣyo ariṣṭanemiḥ ॥ svasti no bṛhaspatirdadhātu ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ hariḥ oṃ ॥ gāruḍabrahmavidyāṃ pravakṣyāmi yāṃ brahmā vidyāṃ nāradāya provāca nārado bṛhatsenāya bṛhatsena indrāya indro bharadvājāya bharadvājo jīvatkāmebhyaḥ śiṣyebhyaḥ prāyacchat । asyāḥ śrīmahāgaruḍabrahmavidyāyā brahmā ṛṣiḥ । gāyatrī chandaḥ । śrībhagavānmahāgaruḍo devatā । śrīmahāgaruḍaprītyarthe mama sakalaviṣavināśanārthe jape viniyogaḥ । oṃ namo bhagavate aṅguṣṭhābhyāṃ namaḥ । śrī mahāgaruḍāya tarjanībhyāṃ svāhā । pakṣīndrāya madhyamābhyāṃ vaṣaṭ । śrīviṣṇuvallabhāya anāmikābhyāṃ hum । trailokya paripūjitāya kaniṣṭhikābhyāṃ vauṣaṭ । ugrabhayaṅkarakālānalarūpāya karatalakarapṛṣṭhābhyāṃ phaṭ । evaṃ hṛdayādinyāsaḥ । bhūrbhuvaḥ suvaromiti digbandhaḥ । dhyānam । svastiko dakṣiṇaṃ pādaṃ vāmapādaṃ tu kuñcitam । prāñjalīkṛtadoryugmaṃ garuḍaṃ harivallabham ॥ 1॥ ananto vāmakaṭako yajñasūtraṃ tu vāsukiḥ । takṣakāḥ kaṭisūtraṃ tu hāraḥ kārkoṭa ucyate ॥ 2॥ padmo dakṣiṇakarṇe tu mahāpadmastu vāmake । śaṅkhaḥ śiraḥpradeśe tu gulikastu bhujāntare ॥ 3॥ pauṇḍrakālikanāgābhyāṃ cāmarābhyāṃ svījitam । elāputrakanāgādyaiḥ sevyamānaṃ mudānvitam ॥ 4॥ kapilākṣaṃ garutmantaṃ suvarṇasadṛśaprabham । dīrghabāhuṃ bṛhatskandhaṃ nādābharaṇabhūṣitam ॥ 5॥ ājānutaḥ suvarṇābhamākaṭyostuhinaprabham । kuṅkumāruṇamākaṇṭhaṃ śatacandra nibhānanam ॥ 6॥ nīlāgranāsikāvaktraṃ sumahaccārukuṇḍalam । daṃṣṭrākarālavadanaṃ kirīṭamukuṭojjvalam ॥ 7॥ kuṅkumāaruṇasarvāṅgaṃ kundendudhavalānanam । viṣṇuvāha namastubhyaṃ kṣemaṃ kuru sadā mama ॥ 8॥ evaṃ dhyāyettrisandhyāsu garuḍaṃ nāgabhūṣaṇam । viṣaṃ nāśayate śīghraṃ tūlaraśimivānalaḥ ॥ 9॥ omīmoṃ namo bhagavate śrīmahāgaruḍāya pakṣīndrāya viṣṇuvallabhāya trailokyaparipūjitāya ugrabhayaṃkarakālānalarūpāya vajranakhāya vajratuṇḍāya vajradantāya vajradaṃṣṭrāya vajrapucchāya vajrapakṣālakṣitaśarīrāya omīkehyehi śrīmahāgaruḍāpratiśāsanāsminnāviśāviśa duṣṭānāṃ viṣaṃ dūṣayadūṣaya spṛṣṭānāṃ nāśayanāśaya dandaśūkānāṃ viṣaṃ dārayadāraya pralīnaṃ viṣaṃ praṇāśayapraṇāśaya sarvaviṣaṃ nāśayanāśaya hanahana dahadaha pacapaca bhasmīkurubhasmīkuru huṃ phaṭ svāhā ॥ candramaṇḍalasaṃkāśa sūryamaṇḍalamuṣṭika । pṛthvīmaṇḍalamudrāṅga śrīmahāgaruḍāya viṣaṃ harahara huṃ phaṭ svāhā ॥ oṃ kṣipa svāhā ॥ omīṃ sacarati sacarati tatkārī matkārī viṣāṇāṃ ca viṣarūpiṇī viṣadūṣiṇī viṣaśoṣaṇī viṣanāśinī viṣahāriṇī hataṃ viṣaṃ naṣṭaṃ viṣamantaḥpralīnaṃ viṣaṃ pranaṣṭaṃ viṣaṃ hataṃ te brahmaṇā viṣaṃ hatamindrasya vajreṇa svāhā ॥ oṃ namo bhagavate mahāgaruḍāya viṣṇuvāhanāya trailokyaparipūjitāya vajranakhavajratuṇḍāya vajrapakṣālaṃkṛta- śarīrāya ehyehi mahāgaruḍa viṣaṃ chindhicchindhi āveśayāveśaya huṃ phaṭ svāhā ॥ suparṇo'si garutmāttrivṛtte śiro gāyatraṃ cakṣuḥ stoma ātmā sāma te tanūrvamadevyaṃ bṛhadrathantare pakṣau yajñāyajñiyaṃ pucchaṃ chandāṃsyaṅgāni dhiṣṇiyā śaphā yajūṃśi nāma ॥ suparṇo'si garutmāndivaṃ gaccha suvaḥ pata omīṃ brahmavidyā- mamāvāsyāyāṃ paurṇamāsyāṃ purovāca sacarati sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī viṣahāriṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ pranaṣṭaṃ viṣaṃ hatamindrasya vajreṇa svāhā ॥ tasryam । yadyanantakadūto'si yadi vānantakaḥ svayaṃ sacarati sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya vajreṇa viṣaṃ hataṃ te brahmaṇā viṣamindrasya vajreṇa svāhā । yadi vāasukidūto'si yadi vā vāsukiḥ svayaṃ sacarati sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya vajreṇa viṣaṃ hataṃ te brahmaṇā viṣamindrasya vajreṇa svāhā yadi vā takṣakaḥ svayaṃ sacarati sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya vajreṇa viṣaṃ hataṃ brahmaṇā viṣamindrasya vajreṇa svāhā ॥ yadi karkoṭakadūto'si yadi vā karkoṭakaḥ svayaṃ sacarati sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya vajreṇa viṣaṃ hataṃ te brahmaṇā viṣamindrasya vajreṇa svāhā ॥ yadi padmakadūto'si yadi vā padmakaḥ svayaṃ sacarati sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya vajreṇa viṣaṃ hataṃ te brahmaṇā viṣamindrasya vajreṇa svāhā ॥ yadi mahāpadmakadūto'si yadi vā mahāpadmakaḥ svayaṃ sacarati sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya vajreṇa viṣaṃ hataṃ te brahmaṇā viṣamindrasya vajreṇa svāhā ॥ yadi śaṅkhakadūto'si yadi vā śaṅkhakaḥ svayaṃ sacarati sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya vajreṇa viṣaṃ hataṃ te brahmaṇā viṣamindrasya vajreṇa svāhā ॥ yadi gulikadūto'si yadi vā gulikaḥ svayaṃ sacarati sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī viṣahāriṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya vajreṇa viṣaṃ hataṃ te brahmaṇā viṣamindrasya vajreṇa svāhā ॥ yadi pauṇḍrakālikadūto'si yadi vā pauṇḍrakālikaḥ svayaṃ sacarati sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī viṣahāriṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya vajreṇa viṣaṃ hataṃ te brahmaṇā viṣamindrasya vajreṇa svāhā ॥ yadi nāgakadūto'si yadi vā nāgakaḥ svayaṃ sacarati sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī viṣahāriṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya vajreṇa viṣaṃ hataṃ te brahmaṇā viṣamindrasya vajreṇa svāhā ॥ yadi lūtānāṃ pralūtānāṃ yadi vṛścikānāṃ yadi ghoṭakānāṃ yadi sthāvarajaṅgamānāṃ sacarati sacarati tatkārī matkārī viṣanāśinī viṣadūṣiṇī viṣahāriṇī hataṃ viṣaṃ naṣṭaṃ viṣaṃ hatamindrasya vajreṇa viṣaṃ hataṃ te brahmaṇā viṣamindrasya vajreṇa svāhā । anantavāsukitakṣakakarkoṭakapadmakamahāpadmaka- śaṅkhakagulikapauṇḍrakālikanāgaka ityeṣāṃ divyānāṃ mahānāgānāṃ mahānāgādirūpāṇāṃ viṣatuṇḍānāṃ viṣadantānāṃ viṣadaṃṣṭrāṇāṃ viṣāṅgānāṃ viṣapucchānāṃ viśvacārāṇāṃ vṛścikānāṃ lūtānāṃ pralūtānāṃ mūṣikāṇāṃ gṛhagaulikānāṃ gṛhagodhikānāṃ ghraṇāsānāṃ gṛhagirigahvarakālānalavalmīkodbhūtānāṃ tārṇānāṃ pārṇānāṃ kāṣṭhadāruvṛkṣakoṭarasthānāṃ mūlatvagdāruniryāsapatrapuṣpaphalodbhūtānāṃ duṣṭakīṭakapiśvāna- mārjārajaṃbukavyāghravarāhāṇāṃ jarāyujāṇḍajodbhijjasvedajānāṃ śastrabāṇakṣatasphoṭavraṇamahāvraṇakṛtānāṃ kṛtrimāṇāmanyeṣāṃ bhūtavetālakūṣmāṇḍapiśācapretarākṣasayakṣabhayapradānāṃ viṣatuṇḍadaṃṣṭrānāṃ viṣāṅgānāṃ viṣapucchānāṃ viṣāṇāṃ viṣarūpiṇī viṣadūṣiṇī viṣaśoṣiṇī viṣanāśinī viṣahāriṇī hataṃ viṣaṃ naṣṭaṃ viṣamantaḥpralīnaṃ viṣaṃ pranaṣṭaṃ viṣaṃ hataṃ te brahmaṇā viṣamindrasya vajreṇa svāhā । ya imāṃ brahmavidyāmamāvāsyāyāṃ paṭhecchṛṇuyādvā yāvajjīvaṃ na hiṃsanti sarpāḥ । aṣṭau brāhmaṇāngrāhayitvā tṛṇena mocayet । śataṃ brāhmaṇāngrāhayitvā cakṣuṣā mocayet । sahasraṃ brāhmaṇāngrāhayitvā manasā mocayet । sarpāñjale na muñcanti । tṛṇe na muñcanti । kāṣṭhe na muñcantītyāha bhagavānbrahmetyupaniṣat ॥ oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ॥ bhadraṃ paśyemākṣabhiryajatrāḥ ॥ sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ॥ vyaśema devahitaṃ yadāyuḥ ॥ svasti na indro vṛddhaśravāḥ ॥ svasti naḥ pūṣā viśvavedāḥ ॥ svasti nastārkṣyo ariṣṭanemiḥ ॥ svasti no bṛhaspatirdadhātu ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ hariḥ oṃ tatsat ॥ iti śrīgāruḍopaniṣatsamāptā ॥