॥ सुबालोपनिषत् ॥ बीजाज्ञानमहामोहापह्नवाद्यद्विशिष्यते । निर्बीजं त्रैपदं तत्त्वं तदस्मीति विचिन्तये ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ तदाहुः किं तदासीत्तस्मै स होवाच न सन्नसन्न सदसदिति तस्मात्तमः सञ्जायते तमसो भूतादिर्भूतादेराकाशमाकाशा- द्वायुर्वाय्रग्निरग्नेरापोऽद्भ्यः पृथिवी तदण्डं समभवत्तत्संवत्सरमात्रमुषित्वा द्विधाकरो- दधस्ताद्भूमिमुपरिष्टादाकाशं मध्ये पुरुषो दिव्यः सहस्रशीर्षा पुरुषः सहस्राक्शः सहस्रपात् । सहस्रबाहुरिति सोऽग्रे भूतानां मृत्युमसृजन्त्र्यक्शरं त्रिशिरस्कं त्रिपादं खण्डपरशुं तस्य ब्रह्माभिधेति स ब्रह्माणमेव विवेश स मानसान्सप्त पुत्रानसृजत्तेह विराजः सत्यमानसानसृजन्तेह प्रजापतयो ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥ चन्द्रमा मनसो जातश्चक्शोः सूर्यो अजायत । श्रोत्राद्वायुश्च प्राणश्च हृदयात्सर्वमिदं जायते ॥ इति प्रथमः खण्डः ॥ अपानान्निषादा यक्शराक्शसगन्धर्वाश्चास्थिभ्यः पर्वता लोमभ्य ओषधिवनस्पतयो ललाटात्क्रोधजो रुद्रो जायते तस्यैतस्य महतो भूतस्य निःश्वसितमेवैतद्यदृग्वदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्शा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषामयनं न्यायो मीमांसा धर्मशास्त्राणि व्याख्यानान्युपव्याख्यानानि च सर्वाणि च भूतानि हिरण्यज्योतिर्यस्मिन्नयमात्माधिक्शियन्ति भुवनानि विश्वा ॥ आत्मानं द्विधाकरोदर्धेन स्त्री अर्धेन पुरुषो देवो भूत्वा देवानसृजदृषिर्भूत्वा ऋषीन्यक्शराक्शसगन्धर्वान्- ग्राम्यानारण्यांश्च पशूनसृजदितरा गौरितरोऽनड्वानितरो वडवेतरोऽश्व इतरा गर्दभीतरो गर्दभ इतरा विश्वम्भरीतरो विश्वम्भरः सोऽन्ते वैश्वानरो भूत्वा सन्दग्ध्वा सर्वाणि भूतानि पृथिव्यप्सु प्रलीयत आपस्तेजसि प्रलीयन्ते तेजो वायौ विलीयते वायुराकाशे विलीयत आकाशमिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ विलीयन्ते भूतादिर्महति विलीयते महानव्यक्ते विलीयतेऽव्यक्तमक्शरे विलीयते अक्शरं तमसि विलीयते तमः परे देव एकीभवति परस्तान्न सन्नासन्नासद- सदित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति द्वितीयः खण्डः ॥ २॥ असद्वा इदमग्र आसीदजातमभूतमप्रतिष्ठित- मशब्दमस्पर्शमरूपमरसमगन्धमव्ययम- महान्तमबृहन्तमजमात्मानं मत्वा धीरो न शोचति ॥ अप्रमाणममुखमश्रोत्रमवागमनोऽतेजस्कमचक्शु- ष्कमनामगोत्रमशिरस्कमपाणिपादमस्निग्धमलोहित- मप्रमेयमह्रस्वमदीर्घमस्थूलमनण्वनल्पमपार- मनिर्देश्यमनपावृतमप्रतर्क्यमप्रकाश्यमसंवृत- मनन्तरमबाह्यं न तदश्नाति किंचन न तदश्नाति कश्चनैतद्वै सत्येन दानेन तपसाऽनाशकेन ब्रह्मचर्येण निर्वेदनेनानाशकेन षडङ्गेनैव साधयेदेतत्रयं वीक्शेत दमं दानं दयामिति न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद ॥ इति तृतीयः खण्डः ॥ ३॥ हृदयस्य मध्ये लोहितं मांसपिण्डं यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवानेकधा विकसितं हृदयस्य दश छिद्राणि भवन्ति येषु प्राणाः प्रतिष्ठिताः स यदा प्राणेन सह संयुज्यते तदा पश्यति नद्यो नगराणि बहूनि विविधानि च यदा व्यानेन सह संयुज्यते तदा पश्यति देवांश्च ऋषींश्च यदापानेन सह संयुज्यते तदा पश्यति यक्शराक्शसगन्धर्वान्यदा उदानेन सह संयुज्यते तदा पश्यति देवलोकान्देवान्स्कन्दं जयन्तं चेति यदा समानेन सह संयुज्यते तदा पश्यति देवलोकान्धनानि च यदा वैरम्भेण सह संयुज्यते तदा पश्यति दृष्टं च श्रुतं च भुक्तं चाभुक्तं च सच्चासच्च सर्वं पश्यति अथेमा दश दश नाड्यो भवन्ति तासामेकैकस्य द्वासप्ततिर्द्वासप्ततिः शाखा नाडीसहस्राणि भवन्ति यस्मिन्नयमात्मा स्वपिति शब्दानां च करोत्यथ यद्द्वितीये सङ्कोशे स्वपिति तदेमं च लोकं परं च लोकं पश्यति सर्वाञ्छब्दान्विजानाति स सम्प्रसाद इत्याचक्शते प्राणः शरीरं परिरक्शति हरितस्य नीलस्य पीतस्य लोहितस्य श्वेतस्य नाड्यो रुधिरस्य पूर्णा अथात्रैतद्दहरं पुण्डरीकं कुमुदमिवानेकधा विकसितं यथा केशः सहस्रधा भिन्नस्तथा हिता नाम नाड्यो भवन्ति हृद्याकाशे परे कोशे दिव्योऽयमात्मा स्वपिति यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति न तत्र देवा न देवलोका यज्ञा न यज्ञा वा न माता न पिता न बन्धुर्न बान्धवो न स्तेनो न ब्रह्महा तेजस्कायममृतं सलिल एवेदं सलिलं वनं भूयस्तेनैव मार्गेण जाग्राय धावति सम्राडिति होवाच ॥ इति चतुर्थः खण्डः ॥ ४॥ स्थानानि स्थानिभ्यो यच्छति नाडी तेषां निबन्धनं चक्शुरध्यात्मं द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतं नाडी तेषां निबन्धनं यश्चक्शुषि यो द्रष्टव्ये य आदित्ये यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ श्रोत्रमध्यात्मं श्रोतव्यमधिभूतं दिशस्तत्राधिदैवतं नाडी तेषां निबन्धनं यः श्रोत्रे यः श्रोतव्ये यो दिक्शु यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ नासाध्यात्मं घ्रातव्यमधिभूतं पृथिवी तत्राधिदैवतं नाडी तेषां निबन्धनं यो नासायां यो घ्रातव्ये यः पृथिव्यां यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ जिह्वाध्यात्मं रसयितव्यमधिभूतं वरुणस्तत्राधिदैवतं नाडी तेषां निबन्धनं यस्त्वचि यः स्पर्शयितव्ये यो वरुणे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरमममृतमभयमशोकमनन्तम् ॥ त्वगध्यात्मं स्पर्शयितव्यमधिभूतं वायुस्तत्राधिदैवतं नाडी तेषां निबन्धनं यस्त्वचि यः स्पर्शयितव्ये यो वायौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रस्तत्राधिदैवतं नाडी तेषां निबन्धनं यो मनसि यो मन्तव्ये यश्चन्द्रे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ बुद्धिरध्यात्मं बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतं नाडी तेषां निबन्धनं यो बुद्धौ यो बोद्धव्ये यो ब्रह्मणि यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ अहङ्कारोऽध्यात्ममहंकर्तव्यमधिभूतं रुद्रस्तत्राधिदैवतं नाडी तेषां निबन्धनं योऽहङ्कारे योऽहंकर्तव्ये यो रुद्रे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ चित्तमध्यात्मं चेतयितव्यमधिभूतं क्शेत्रज्ञस्तत्राधिदैवतं नाडी तेषां निबन्धनं यश्चित्ते यश्चेतयितव्ये यः क्शेत्रज्ञे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ वागध्यात्मं वक्तव्यमधिभूतमग्निस्तत्राधिदैवतं नाडी तेषां निबन्धनं यो वाचि यो वक्तव्ये योऽग्नौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ हस्तावध्यात्ममादातव्यमधिभूतमिन्द्रस्तत्राधिदैवतं नाडी तेषां निबन्धनं यो हस्ते य आदातव्ये य इन्द्रे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ पादावध्यात्मं गन्तव्यमधिभूतं विष्णुस्तत्राधिदैवतं नाडी तेषां निबन्धनं यः पादे यो गन्तव्ये यो विष्णौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ पायुरध्यात्मं विसर्जयितव्यमधिभूतं मृत्युस्तत्राधिदैवतं नाडी तेषां निबन्धनं यः पायौ यो विसर्जयितव्ये यो मृत्यौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥ उपस्थोऽध्यात्ममानन्दयितव्यमधिभूतं प्रजापतिस्तत्राधिदैवतं नाडी तेषां निबन्धनं य उपस्थे य आनन्दयितव्ये यः प्रजापतौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा तमात्मानमुपसीताजरममृतमभयमशोकमनन्तम् ॥ एष सर्वज्ञ एष सर्वेश्वर एष सर्वाधिपतिरेषोऽन्तर्याम्येष योनिः सर्वस्य सर्वसौख्येरुपास्यमानो न च सर्वसौख्यान्युपास्यति वेदशास्त्रैरुपास्यमानो न च वेदशास्त्राण्युपास्यति यस्यानमिदं सर्वे न च योऽन्नं भवत्यतः परं सर्वनयनः प्रशास्तान्नमयो भूतात्मा प्राणमय इन्द्रियात्मा मनोमयः संकल्पात्मा विज्ञानमयः कालात्मानन्दमयो लयात्मैकत्वं नास्ति द्वैतं कुतो मर्त्यं नास्त्यमृतं कुतो नान्तःप्रज्ञो न बहिःप्रज्ञो नोभयतःप्रज्ञो न प्रज्ञाघनो न प्रज्ञो नाप्रज्ञोऽपि नो विदितं वेद्यं नास्तीत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति पञ्चमः खण्डः ॥ ५॥ नैवेह किंचनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायणश्चक्शुश्च द्रष्टव्यं च नारायणः श्रोत्रं च श्रोतव्यं च नारायणो घ्राणं च घ्रातव्यं च नारायणो जिह्वा च रसयितव्यं च नारायणस्त्वक् च स्पर्शयितव्यं च नारायणो मतश्च मन्तव्यं च नरायणो बुद्धिश्च बोद्धव्यं च नारायणोऽहञ्कारश्चाहंकार्तव्यं च नारायणश्चित्तं च चेतयितव्यं च नारायणो वाक् च वक्तव्यं च नारायणो हस्तौ चादातव्यं च नारायणः पादौ च गन्तव्यं च नारायणः पायुश्च विसर्जयितव्यं च नारायण उपस्थश्चानन्दयितव्यं च नारायणो धाता विधाता कर्ता विकर्ता दिव्यो देव एको नारायण आदित्या रुद्रा मरुतो वसवोऽश्विनावृचो यजूंषि सामानि मन्त्रोऽग्नि- राज्याहुतिर्नारायण उद्भवः सम्भवो दिव्यो देव एको नारायणो माता पिता भ्राता निवासः शरणं सुहृद्गतिर्नारायणो विराजा सुदर्शनाजितासोम्यामोघाकुमारामृतासत्यामध्यमाना- सीराशिशुतासूरासूर्यास्वराविज्ञेयानि नाडीनामानि दिव्यानि गर्जति गायति वाति वर्षति वरुणोऽर्यमा चन्द्रमाः कला कलिर्धाता ब्रह्मा प्रजापतिर्मघवा दिवसाश्चार्धदिवसाश्च कलाः कल्पाश्चोर्ध्वं च दिशश्च सर्वं नारायणः ॥ पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनतिरोहति ॥ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्शुराततम् ॥ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥ तदेतन्निर्वाणानुशासनमिति वेदनुशासनमिति वेदानुशासनम् ॥ इति षष्ठः खण्डः ॥ ६॥ अन्तःशरीरे निहितो गुहायामज एको नित्यो यस्य पृथिवी शरीरं यः पृथिवीमन्तरे संचरन् यं पृथिवी न वेद ॥ यस्यापः शरीरं योऽपोन्तरे संचरन्यमापो न विदुः ॥ यस्य तेजः शरीरं यस्तेजोन्तरे संचरन् यं तेजो न वेद ॥ यस्य वायुअः शरीरं यो वायुमन्तरे संचरन् य वायुर्न वेद ॥ यस्याकाशः शरीरं य आकाशमन्तरे संचरन् यमाकाशो न वेद ॥ यस्य मनः शरीरं यो मनोन्तरे संचरन् यं मनो न वेद ॥ यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचरन् यं बुद्धिर्न वेद ॥ यस्याहङ्कारः शरीरं योऽहङ्कारमन्तरे संचरन् यमहङ्कारो न वेद ॥ यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन् यं चित्तं न वेद ॥ यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे संचरन् यमव्यक्तं न वेद ॥ यस्याक्शरं शरीरं योऽक्शरमन्तरे संचरन् यमक्शरं न वेद ॥ यस्य मृत्युः शरीरं यो मृत्युमन्तरे संचरन् यं मृत्युर्न वेद ॥ स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः ॥ एतां विद्यामपान्तरतमाय ददावपान्तरतमो ब्रह्मणे ददौ ब्रह्मा घोराङ्गिरसे ददौ घोराङ्गिरा रैक्वाय ददौ रैक्वो रामाय ददौ रामः सर्वेभ्यो भूतेभ्यो ददावित्येवं निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति सप्तमः खण्डः ॥ ७॥ अन्तःशरीरे निहितो गुहायां शुद्धः सोऽयमात्मा सर्वस्य मेदोमांसक्लेदावकीर्णे शरीरमध्येऽत्यन्तोपहते चित्रभित्तिप्रतीकाशे गन्धर्वनगरोपमे कदलीगर्भवन्निःसारे जलबुद्बुदवच्चञ्चले निःसृतमात्मानमचिन्त्यरूपं दिव्यं देवमसङ्गं शुद्धं तेजस्कायमरूपं सर्वेश्वरमचिन्त्यमशरीरं निहितं गुहायाममृतं विभ्राजमानमानन्दं तं पश्यन्ति विद्वांसस्तेन लये न पश्यन्ति ॥ इति अष्टमः खण्डः ॥ ८॥ अथ हैनं रैक्वः पप्रच्छ भगवन्कस्मिन्सर्वेऽस्तं गच्छन्तीति ॥ तस्मै स होवाच चक्शुरेवाप्येति यच्चक्शुरेवास्तमेति द्रष्टव्यमेवप्येति यो द्रष्टव्यमेवास्तमेत्यादित्यमेवाप्येति य आदित्यमेवास्तमेति विराजमेवाप्येति यो विराजमेवास्तमेति प्राणमेवाप्येति यः प्राणमेवास्तमेति विज्ञानमेवाप्येति यो विज्ञानमेवास्तमे- त्यानन्दमेवाप्येति य आनन्दमेवास्तमेति तुरीयमेवाप्येति यस्तुरीयमेवास्तमेति तदमृतमभयमशोकमनन्त- निर्बीजमेवाप्येतीति होवाच ॥ श्रोत्रमेवाप्येति यः श्रोत्रमेवास्तमेति श्रोतव्यएवाप्येति यः श्रोतव्यमेवास्तमेति दिशमेवाप्येति यो दिशमेवास्तमेति सुदर्शनामेवाप्येति यः सुदर्शनामेवास्तमेत्यपानमेवाप्येति योऽपानमेवास्तमेति विज्ञानमेवाप्येति यो विज्ञानमेवास्तमेति तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ नासमेवाप्येति यो नासामेवास्तमेति घ्रातव्यमेवाप्येति यो घ्रातव्यमेवास्तमेति पृथिविमीवाप्येति यः पृथिवीएवास्तमेति जितामेवाप्येति यो जितामेवास्तमेति व्यानमेवाप्येति यो व्यानमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ जिह्वामेवाप्येति यो जिह्वामेवास्तमेति रसयितव्यमेवाप्येति यो रसयितव्यमेवास्तमेति वरुणमेवाप्येति यो वरुणमेवास्तमेति सौम्यामेवाप्येति यः सौम्यामेवास्तमेत्युदानमेवाप्येति य उअदानमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ त्वचमेवाप्येति यस्त्वचमेवास्तमेति स्पर्शयितव्यमेवाप्येति यः स्पर्शैतव्यमेवास्तमेति वायुमेवाप्येति यो वायुमेवास्तमेति मोधामेवाप्येति यो मोधामेवास्तमेति समानमेवाप्येति यः समानमेवास्तमेति विज्ञानएवाप्येति तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ वाचमेवाप्येति यो वाचमेवास्तमेति वक्तव्यमेवाप्येति यो वक्तव्यमेवास्तमेत्यग्निमेवाप्येति योऽग्निमेवास्तमेति कुमारामेवाप्येति यः कुमारामेवास्तमेति वैरम्भ- मेवाप्येति यो वैरम्भमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ हस्तमेवाप्येति यो हस्तमेवास्तमेत्यादातव्यमेवाप्येति य आदातव्यमेवास्तमेतीन्द्रमेवाप्येति य इन्द्रमेवास्त- मेत्यमृतामेवाप्येति योऽमृतामेवास्तमेति मुख्यमेवाप्येति यो मुख्यमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ पादमेवाप्येति यः पादमेवास्तमेति गन्तव्यमेवाप्येति यो गन्तव्यमेवास्तमेति विष्णुमेवाप्येति यो विष्णुमेवास्तमेति सत्यामेवाप्येति यः सत्यामेवास्तमेत्त्यन्तर्याममेवाप्येति योऽन्तर्याममेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ पायुमेवाप्येति यः पायुमेवास्तमेति विसर्जयितव्यमेवाप्येति यो विसर्जयितव्यमेवास्तमेति मृत्युमेवाप्येति यो मृत्युमेवास्तमेति मध्यमामेवाप्येति यो मध्यमामेवास्तमेति प्रभञ्जनमेवाप्येति यः प्रभञ्जनमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ उपस्थमेवाप्येति य उपस्थमेवास्तमेत्यानन्दयितव्यमेवाप्येति य आनन्दयितव्यमेवास्तमेति प्रजापतिमेवाप्येति यः प्रजापति- मेवास्तमेति नासीरामेवाप्येति यो नासीरामेवास्तमेति कुमारमेवाप्येति यः कुमारमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ मन एवाप्येति यो मन एवास्तमेति मन्तव्यमेवाप्येति यो मन्तव्यमेवास्तमेति चन्द्रमेवाप्येति यश्चन्द्रमेवास्तमेति शिशुमेवाप्येति यः शिशुमेवास्तमेति श्येनमेवाप्येति यः श्येनमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ बुद्धिमेवाप्येति यो बुद्धिमेवास्तमेति बोद्धव्यमेवाप्येति यो बोद्धव्यमेवास्तमेति ब्रह्माणमेवाप्येति यो ब्रह्माणमेवास्तमेति सूर्यामेवास्तमेति यः सूर्यामेवास्तमेति कृष्णमेवाप्येति यः कृष्णमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ अहङ्कारमेवाप्येति योऽहङ्कारमेवास्तमे- त्यहङ्कर्तव्यमेवाप्येति योऽहङ्कर्तव्यमेवास्तमेति रुद्रमेवाप्येति यो रुद्रमेवास्तमेत्यसुरामेवाप्येति योऽसुरामेवास्तमेति श्वेतमेवाप्येति यः श्वेतमेवास्तमेति विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्त- निर्बीजमेवाप्येतीति होवाच ॥ चित्तमेवाप्येति यश्चित्तमेवास्तमेति चेतयितव्यमेवाप्येति यश्चेतयितव्यमेवास्तमेति क्शेत्रज्ञमेवाप्येति यः क्शेत्रज्ञमेवास्तमेति भास्वतीमेवाप्येति यो भास्वती- मेवास्तमेति नागमेवाप्येति यो नागमेवास्तमेति विज्ञान- मेवाप्येति यो विज्ञामेवास्तमेत्यानन्दमेवाप्येति य आनन्दमेवास्तमेति तुरीयमेवाप्येति यस्तुरीयमेवास्तमेति तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येति तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥ य एवं निर्बीजं वेद निर्बीज एव स भवति न जायते न म्रियते न मुह्यते न भिद्यते न दह्यते न छिद्यते न कम्पते न कुप्सते सर्वदहनोऽयमात्मेत्याचक्शते नैवमात्मा प्रवचनशतेनापि लभ्यते न बहुश्रुतेन न बुद्धिज्ञानाश्रितेन न मेधया न वेदैर्न यज्ञैर्न तपोभिरुग्रैर्न सांख्यैर्न योगैर्नाश्रमैर्नान्यैरात्मा- नमुपुलभन्ते प्रवचनेन प्रशंसया व्युत्थानेन तमेतं ब्राह्मणा शुश्रुवांसोऽनूचाना उपलभन्ते शान्तो दान्त उपरतस्तितिक्शुः समाहितो भूत्वात्मन्येवात्मानं पश्यति सर्वस्यात्मा भवति य एवं वेद ॥ इति नवमः खण्डः ॥ ९॥ अथ हैनं रैक्वः पप्रच्छ भगवन्कस्मिन्सर्वे संप्रतिष्ठिता भवन्तीति रसातललोकेष्विति होवाच कस्मिन्रसातललोका ओताश्च प्रोताश्चेति भूर्लोकेष्विति होवाच कस्मिन्भूर्लोका ओताश्च प्रोताश्चेति भुवर्लोकेष्विति होवाच कस्मिन्भुवर्लोका ओताश्च प्रोताश्चेति सुवर्लोकेष्विति होवाच कस्मिन्सुवर्लोका ओताश्च प्रोताश्चेति महर्लोकेष्विति होवाच कस्मिन्महर्लोका ओताश्च प्रोताश्चेति जनोलोकेष्विति होवाच कस्मिन् जनोलोका ओताश्च प्रोताश्चेति तपोलोकेष्विति होवाच कस्मिंस्तपोलोका ओताश्च प्रोताश्चेति सत्यलोकेष्विति होवाच कस्मिन्सत्यलोका ओताश्च प्रोताश्चेति प्रजापतिलोकेष्विति होवाच कस्मिन्प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेष्विति होवाच कस्मिन्ब्रह्मलोका ओताश्च प्रोताश्चेति सर्वलोका आत्मनि ब्रह्मणि मणय इवौताश्च प्रोताश्चेति स होवाचैवमेतान् लोकानात्मनि प्रतिष्ठितान्वेदात्मैव स भवतीत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति दशमः खण्डः ॥ १०॥ अथ हैनं रैक्वः पप्रच्छ भगवन्वोऽयं विज्ञानघन उत्क्रामन्स केन कतरद्वाव स्थानमुत्सृज्यापक्रामतीति तस्मै स होवाच हृदयस्थ मध्ये लोहितं मांसपिण्डं यस्मिऽन्स्तद्दहरं पुण्डरीकं कुमुदमिवानेकधा विकसितं तस्य मध्ये समुद्रः समुद्रस्य मध्ये कोशस्तस्मिन्न्नाड्यश्चतस्रो भवन्ति रमारमेच्छाऽपुनर्भवेति तत्र रमा पुण्येन पुण्यं लोकं नयत्यरमा पापेन पापमिच्छया यत्स्मरति तदभिसंपद्यते अपुनर्भवया कोशं भिनत्ति कोशं भित्त्वा शीर्षकपालं भिनत्ति शीर्षकपालं भित्त्वा पृथिवीं भिनत्ति पृथिवीं भित्त्वापो भिनत्त्यापो भित्त्वा तेजो भिनत्ति तेजो भित्त्वा वायुं भिनत्ति वायुं भित्त्वाकाशं भिनत्त्याकाशं भित्त्वा मनो भिनत्ति मनो भित्त्वा भूतादिं भिनत्ति भूतादिं भित्त्वा महान्तं भिनत्ति महान्तं भित्त्वाव्यक्तं भिनत्त्यव्यक्तं भित्त्वाक्शरं भिनत्त्यक्शरं भित्त्वा मृत्युं भिनत्ति मृत्युर्वै परे देव एकीभवतीति परस्तान्न सन्नासन्न सदसदित्येतन्निर्वाणा- नुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इत्येकादशः खण्डः ॥ ११॥ ॐ नारायणाद्वा अन्नमागतं पक्वं ब्रह्मलोके महासंवर्तके पुनः पक्वमादित्ये पुनः पक्वं क्रब्यादि पुनः पक्वं जालकिलक्लिन्नं पर्युषितं पूतमन्नमयाचितमसंक्लृप्तमश्नीयान्न कंचन याचेत ॥ इति द्वादशः खण्डः ॥ १२॥ बाल्येन तिष्ठासेद्बालस्वभावोऽसङ्गो निरवद्यो मौनेन पाण्डित्येन निरवधिकारतयोपलभ्येत कैवल्यमुक्तं निगमनं प्रजापतिरुवाच महत्पदं ज्ञात्वा वृक्शमूले वसेत कुचेलोऽसहाय एकाकी समाधिस्थ आत्मकाम आप्तकामो निष्कामो जीर्णकामो हस्तिनि सिंहे दंशे मशके नकुले सर्पराक्शसगन्धर्वे मृत्यो रूपाणि विदित्वा न बिभेति कुतश्चनेति वृक्शमिव तिष्ठासेच्छिद्यमानोऽपि न कुप्येत न कम्पेतोत्पलमिव तिष्ठासेच्छिद्यमानोऽपि न कुप्येत न कम्पेताकाशमिव तिष्ठासेच्छिद्यमानोऽपि न कुप्येत न कम्पेत सत्येन तिष्ठासेत्सत्योऽयमात्मा सर्वेषामेव गन्धानां पृथिवी हृदयं सर्वेषामेव रसानामापो हृदयं सर्वेशामेव रूपाणां तेजो हृदयं सर्वेषामेव स्पर्शानां वायुर्हृदयं सर्वेषामेव शब्दानामाकाशं हृदयं सर्वेषामेव गतीनामव्यक्तं हृदयं सर्वेषामेव सत्त्वानां मृत्युर्हृदयं मृत्युर्वै परे देव एकीभवतीति परस्तान्न सन्नासन्न सदसदित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति त्रयोदशः खण्डः ॥ १३॥ ॐ पृथिवी वान्नमापोऽन्नादा आपो वान्नं ज्योतिरन्नादं ज्योतिर्वान्नं वायुरन्नादो वायुर्वान्नमाकाशोऽन्नाद आकाशो वान्नमिन्द्रियाण्यन्नादानीन्द्रियाणि वान्नं मनोऽन्नादं मनो वान्नं बुद्धिरन्नादा बुद्धिर्वानमव्यक्तमन्नदमव्यक्तं वान्नमक्शरमन्नादमक्शरं वान्नं मृत्युरन्नादो मृत्युर्वै परे देव एकीभवतीति परस्तान्न सन्नासन्न सदसदित्येतन्निर्वाणा- नुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति चतुर्दशः खण्डः ॥ १४॥ अथ हैनं रैक्वः पप्रच्छ भगवन्योऽयं विज्ञानघन उत्क्रामन्स केन कतरद्वाव स्थानं दहतीति तस्मै स होवाच योऽयं विज्ञानघन उत्क्रामन्प्राणं दहत्यपानं व्यानमुदानं समानं वैरम्भं मुख्य- मन्तर्यामं प्रभञ्जनं कुमारं श्येनं श्वेतं कृष्णं नागं दहति पृथिव्यापस्तेजो- य्वाकाशं दहति जागरितं स्वप्नं सुषुप्तं तुरीयं च महतां च लोकं परं च लोकं दहति लोकालोकं दहति धर्माधर्मं दहत्यभास्कर- ममर्यादं निरालोकमतः परं दहति महान्तं दहत्यव्यक्तं दहत्यक्शरं दहति मृत्युं दहति मृत्युर्वै परे देव एकीभवतीति परस्तान्न सन्नासन्न सदसदित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति पञ्चदशः खण्डः ॥ १५॥ सौबालबीजब्रह्मोपनिषन्नाप्रशान्ताय दातव्या नापुत्राय नाशिष्याय नासंवत्सर- रात्रोषिताय नापरिज्ञातकुलशीलाय दातव्या नैव च प्रवक्तव्या । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन इत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥ इति षोडशः खण्डः ॥ १६॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ इति सुबालोपनिषत्समाप्ता ॥
Om ! That (Brahman) is infinite, and this (universe) is infinite. The infinite proceeds from the infinite. (Then) taking the infinitude of the infinite (universe), It remains as the infinite (Brahman) alone. Om ! Let there be Peace in me ! Let there be Peace in my environment ! Let there be Peace in the forces that act on me ! LESSON ONE: THE SUBSISTENCE AND DISSOLUTION OF THE UNIVERSE 1-3. The Unqualified Brahman: They say – ‘What existed ?’ He replied ‘Neither the existent nor the non-existent. From that Tamas was born; from Tamas was born Bhitadi (Prakriti – Matter), from it space, from space air, from air fire, from fire water and from water earth. This became the Egg; which existing for just a year became two-fold – earth below and sky above. Between was Divine Man with a thousand heads, eyes, feet and arms (Virat-purusha). 4-6. He at first created the death of all creatures, having three eyes, heads and feet, armed with an axe. Brahma was afraid – he entered Brahma himself, he created seven mental sons – they created seven Virats, the pro-creators. His face was Brahmana, arms were made into Kshatriya, thighs became the Vaishya, Sudra was born from the feet, air and vital air (Prana) from his ear, all this is from his heart. Thus the First Section 1. From the Apana were created Nisadas, Yakshas etc., from the bones mountains, from the hair plants and trees, from the forehead Rudra (of anger). 2. The breath of this great being became Rik and other Vedas, phonetics, kalpa (the manual of ritual), grammar, etymology, metre, logic, astronomy, exegetic, law, comments, glosses etc. 3. The golden light in which dwell the self, all worlds made itself into two – woman and man. Becoming Deva created Devas, becoming Rishi created Rishis, also Yakshas etc., as well as wild as wild and domestic animals, bull and cow, horse and mare, male and female donkey, earth and the boar. 4. At the end, becoming Vaisvanara (fire), he burned (destroyed) all creatures – earth was absorbed in water, water in fire, fire in air, air in ether, ether in sense organs, they in subtle elements, they in Prakriti, Prakriti in Mahat, Mahat in Avyakta, Avyakta in Akshara, Akshara in Tamas, it in God. Then there is neither existent nor non-existent. This is the doctrine of dissolution (as given in) Vedas. Thus the Second Section LESSON TWO: THE FOURTH PRINCIPLE 1. In the beginning, this was non-existent. The man of wisdom does grow, meditating upon the Atman which has no birth, no rising, nor setting, unestablished, having no sound, touch, form, taste, smell, decay nor any thing bigger. 2. Without vital breath, face, ears, speech, mind, radiance, eyes, name, lineage, head, hands or feet, smoothness, blood, measurability, neither long, short nor gross, nor atomic, shoreless, beyond description, not open, nor illuminable, nor closed, without inside or outside; it neither eats nor is eaten. 3. One can achieve (realize) this only by means of truth, charity, undying austerity, celibacy, detachment with six parts. He shall observe the three, self control, munificence and compassion. His vital airs do not depart but merge here in Brahman. Thus the Third Section 1. In the midst of the heart, is a mass of red flesh in which is the Dahara of Lotus (in shape), blossoming in many ways like lily – there are ten holes in the heart where the vital airs are established. 2. When the (Jiva) is connected with Prana, then he sees rivers and cities of many kinds; when with Vyana, he sees Devas and Rishis; with Apana, Yakshas etc.; with Udana, the celestial worlds, gods, Skanda and Jayanta; with Samana, wealth also; with Vairambha (Prana) sees what is seen, heard, eaten and not eaten, visible and invisible. 3. Then these Nadis become hundred; from these, branch out seventy two thousand Nadis, in which the self sleeps and makes noises, in the second sheath he sleeps and sees this world and the other, hears all sounds – this they call clarity. Prana defends the body. The Nadis are filled with green, blue, yellow, red and white blood. 4. This Dahara lotus is blooming in many ways like a lily and like hair, so also the Nadis are placed in the heart. The divine self sleeps in the great sheath when there are no desires, no sleep even, there are no Devas or their worlds, Yagas, Mother, Father, kinsmen, no thieves or Brahmana-killer. All this is water – Again by the same path, he returns to wakefulness, this Samraj. Thus the Fourth Section 1. The supreme being assigns places to their owners – the Nadi is their link. The eye is the owner in the body amidst the elements – what is seen in the divinity – the artery is the link. He that is in the eye, in the sun, artery, vital air, knowledge, bliss, heart’s sky – he that moves inside all these is the self. Meditate on that self that is ageless, deathless, fearless, endless. 2. The ear is the owner in the body amidst the elements, (the guardians of) the quarters the deity, the artery is the link. He that is in the ear, audible objects, in the quarters etc., — he that moves inside all this is the self. Meditate on that self who is ageless, deathless, fearless, painless, endless. 3. The nose is the owner in the body, the smellable is the elemental. The earth is the deity, the artery is the link. He that is in the nose etc., — meditate on him. 4. The tongue is the owner of the body, the savourable is the elemental. Varuna is the deity; the artery is the link. He that is in the tongue etc., — meditate on him. 5. The skin is the owner of the body, the touchable is the elemental, Vayu is the deity, the artery is the link. He that is in the skin etc., — meditate on him. 6. The mind is the owner, the thinkable things are the elemental, the moon is the deity, the artery is the link. He that is in the mind etc., — meditate on him. 7. Intellect is the owner, the cognizable is the elemental. Brahma the deity etc. He that is in the intellect etc., — meditate on him. 8. Ego is the owner – object of the ‘I’ concept is the elemental, Rudra the deity – He that is the ego – meditate on him. 9. Speech the owner, utterable the elemental, fire the deity – He that is – meditate on him. 10. The mind stuff is the owner, the apprehensible is the elemental, the Jiva is the deity – meditate on him. 11. The hands are the owners, what is grasped is the elemental, Indra the deity – He that is in the hands etc., — meditate on him. 12. The feet are the owners, the destination is the elemental, Vishnu the deity – He that is in the feet etc., — meditate on him. 13. The male organ is the owner, the delectable is the elemental, Prajapati is the deity – He that is in the male organ etc., — meditate on him. 14. He is the omniscient, almighty, inner ruler, source of all, waited on by all bliss but does not wait on bliss; waited on by Vedas and Shastras, but not waiting on them; whose food all this is but who is never food; agent and governor of all leadings, made of food-soul of elements, made of Prana – soul of sense-organs, made of mind; soul of thought, made of knowledge – soul of time, made of bliss – soul of dissolution. 15. There is oneness – how can there be duality – No mortality – how immortality ? Not cognisant inwardly or outwardly, or both ways – not a mass of knowledge, neither knowing nor not knowing. Subala Upanishad LESSON THREE 1. In The beginning there was nothing here – These creatures are born sans root and support. 2-3. Narayana is the eye as well as the visible, ear as well as the audible, nose and the scentable, tongue and the tastable, skin and the tactile, mind and the thinkable, intellect and its contents, ego and its field, speech and its contents, hands, feet, their fields, anus and genital – all are Narayana. Supporter, ordainer, transformer – all is He. 4. Adityas, Rudras, Maruts, Vasus, Asvins, Rik, Yajus, Sama, Mantras, Agni, oblation – all are Narayana, so also mothers, fathers etc. 5. Viraja, Sudarsana, Jita, Saumya, Amogha, Kumara, Amrita, Satya, Madhyama, Nasira, Sisura, Asura, Surya, Bhasvati are the names. 6. Roars, sings, blows, rains – Varuna, Aryama, Chandra, kala, kavi, Dhata, Brahma, Indra, Days and Half-days, moments as well as ages – all are He. 7. All this is Purusha only – the past and the future – that high place of Vishnu – the Suris (sages) look upon this always like the eye spread in the sky. The sages without mental conflict enhance its glory. This is the doctrine of liberation according to the Vedas. Thus the Sixth Section LESSON FOUR: THE NATURE OF THE INNER CONTROLLER 1. The unborn, sole, immortal being inside the body, whose body is the Earth and who moves inside the body unknown to the Earth, who moves inside water, as the body unknown to it, who moves inside fire unknown to it, who moves inside air unknown to it, so also inside Mind, Intellect, Ego, Chitta (mind-stuff), Avyakta (unmanifest), Akshara (imperishable), Death – He is the inner, sinless, self, divine Narayana. 2. This he (Adibrahma) imported to Apantaratamas (Vishnu), Vishnu to Brahma, he to Ghorangiras who gave it to Raikva who gave it to Rama. He gave it to all living beings. Such is the doctrine of Nirvana according to Vedas. Thus the Seventh Section LESSON FIVE: THE SELF IN THE BODY In this body of fat, flesh, moisture is placed this pure self of all, within the cave. The wise behold the immortal, luminous bliss, bodiless and imponderable, enshrined in this cave, the master of all, formless, massed splendour, pure, detached, divinely shining, the self that exceeds and whose form is imponderable. They behold it by sublation in this body that is as fickle as bubbles in water, empty like the plantain pith, a city in the sky, a painted wall, very much conditioned. Thus the Eighth Section 1-14. Then Raikva asked, ‘Sir, into what do all things set ?’ He answered ‘The visible disappears in the eye, it is resolved (in the self) in the eye. The visible disappears in the sun, it is resolved in the sun. What disappears in the Virat (cosmic Man) is resolved in the self in the Virat. What disappears in the Prana is resolved in the Prana. What disappears in Vijnana (cognition) is resolved (in the self) in the Vijnana. What disappears in Ananda is resolved in Ananda (Bliss). What disappears in the Turiya is resolved in Turiya. That self is immortal, fearless, painless, infinite seedless. (All things are) resolved in that self’ – so said he. 15. He who knows this seedless (Brahman) himself becomes seedless. He does not get birth and death, is not deluded, nor pierced or burned; does not tremble or get angry – they say he is the self – the burner of all. 16. This self is not got by hundreds of expositions, not by great learning, nor by reliance on intellectual knowledge, nor through power of memory, Vedas, sacrifices, austerities, Sankhya or Yoga, Ashramas, elucidation, laudation and exercises. The Vedic scholars achieve it, having become calm, restrained, withdrawn, tolerant and concentrating. Thus the Nineth Section Then Raikva asked, ‘Sir, in what are all these established, He replied ‘In the Rasatalas’. He asked ‘In what are the Rasatalas woven, warp and woof ?’ ‘In the Bhu regions’. ‘In what are Bhu woven ?’ ‘In Suvar’. ‘In what are Suvar woven ?’ ‘In Mahar’. ‘In what are Mahar woven ?’ ‘In Janas’. ‘In what are Janas woven ?’ ‘In Tapas’. ‘In what are Tapas woven ?’ ‘In Prajapati’s region’. ‘In what are these woven ?’ ‘In Brahma’s region’. All the worlds are extended, warp and woof, in the Brahman, like gems in a string – Thus he spoke. Whoever knows these worlds as extended in the self, indeed, becomes the self. This is the doctrine of Nirvana of the Vedas. Thus the Tenth Section LESSON SIX: THE UPWARD PATH Then Raikva asked him, ‘Sir, this mass of knowledge moving upwards, what place does he leave when departing upwards ?’ He replied ‘In the centre of the heart is a red mass of flesh – in it a small white lotus, blooming like a lily in many ways. In its centre is a sea with a shining space in the middle. Four arteries are these – Rama, Arama, Iccha, Apunarbhava (pleasing, not pleasing, desire and not born again). Of these Rama leads to the world of merit through merit, Arama to the world of demerit through demerit. By Iccha, one reaches what one thinks of. By Apunarbhava he breaks through the sheath (Kosa) then the cranium, earth, water, fire, air, ether, mind, elements, Mahat, Avyakta, akshara, Mrityu. This Mrityu becomes one with the supreme deity. Beyond that there is neither being nor non-being, nor their combination. This is the doctrine of Nirvana of the Vedas. Thus the Eleventh Section LESSON SEVEN: SAMADHI From Narayana, arose raw food (Ignorance of Atman) (at the beginning of Brahma’s day); at the end of the day (the deluges) is cooked in Aditya. Flesh etc., are again cooked in the gastric fire. Eat only what is fresh, not meant for another – do not beg for it. Thus the Twelfth Section 1. The sage should desire to be with child-like nature, which is unattached, faultless. Through silence, learning, free from obligation is got aloneness. Prajapati said, ‘Knowing the great place, one should live at the base of a tree, ill-clad, friendless, alone in Samadhi desiring the self alone, having won all desired objects, desireless, desires eroded. He is not afraid of elephants, lions, flies, mongoose, snakes etc., knowing as forms of death. One should remain like a tree; he shall not become angry even when cut down, or tremble, like stone, like sky, he shall remain with truth. 2. The heart of all smells is Earth, of tastes water, of forms fire, of touchless air, of sounds ether. Avyakta is the heart of all movements, Mrityu of all Sattvas (living beings). Death indeed becomes one with the supreme Deity. Beyond it there is neither being nor non-being nor their combination – this is the doctrine of Nirvana of the Vedas. Thus the Thirteenth Section LESSON EIGHT The earth is indeed the food, water is the eater; water is the food, fire the eater; fire is the food, air is the eater; air is the food, ether the eater; mind the food, intellect the eater; intellect the food, Avyakta the eater; Avyakta the food, Akshara (imperishable) is the eater, Akshara the food, Death is the eater – it becomes one in the supreme deity beyond which there is neither existence nor non-existence – this is the Vedic doctrines of liberation. Thus the Fourteenth Section LESSON NINE: BURNING THE PRINCIPLES (BASES) The Raikva asked, ‘Sir, this mass of knowledge, the spirit – when he departs, which does he burn ?’ The reply, ‘He burns Prana, Apana, Vyana, Udana, Samana, Vairambha, Mukhya, Antaryama, Prabhanja, Kumara, Syena, Sveta, Krishna, Naga, also Prithvi etc., from Jagarita upto Turiya; Lokaloka, dharma and adharma; regions without the sun, without limits and light – Mrityu becomes one with the supreme deity – this is the Vedic lecture of liberation’. Thus the Fifteenth Section LESSON TEN: IMPARTING BRAHMAVIDYA The secret doctrine of Subala, should not be taught to one who is not tranquil, one who is not son or disciple, one who stays for less than a year, whose family and character are unknown. To one supremely devoted to god and so to the preceptor, these ideas reveal themselves, to the great soul ! This is the doctrine of liberation according to Vedas. Thus the Sixteenth Section Om ! That (Brahman) is infinite, and this (universe) is infinite. The infinite proceeds from the infinite. (Then) taking the infinitude of the infinite (universe), It remains as the infinite (Brahman) alone. Om ! Let there be Peace in me ! Let there be Peace in my environment ! Let there be Peace in the forces that act on me ! Here ends the Subalopanishad belonging to the Sukla-Yajur-Veda.
bījājñānamahāmohāpahnavādyadviśiṣyate । nirbījaṃ traipadaṃ tattvaṃ tadasmīti vicintaye ॥ oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate । pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ oṃ tadāhuḥ kiṃ tadāsīttasmai sa hovāca na sannasanna sadasaditi tasmāttamaḥ sañjāyate tamaso bhūtādirbhūtāderākāśamākāśā- dvāyurvāyragniragnerāpo'dbhyaḥ pṛthivī tadaṇḍaṃ samabhavattatsaṃvatsaramātramuṣitvā dvidhākaro- dadhastādbhūmimupariṣṭādākāśaṃ madhye puruṣo divyaḥ sahasraśīrṣā puruṣaḥ sahasrākśaḥ sahasrapāt । sahasrabāhuriti so'gre bhūtānāṃ mṛtyumasṛjantryakśaraṃ triśiraskaṃ tripādaṃ khaṇḍaparaśuṃ tasya brahmābhidheti sa brahmāṇameva viveśa sa mānasānsapta putrānasṛjatteha virājaḥ satyamānasānasṛjanteha prajāpatayo brāhmaṇo'sya mukhamāsīdbāhū rājanyaḥ kṛtaḥ । ūrū tadasya yadvaiśyaḥ padbhyāṃ śūdro ajāyata ॥ candramā manaso jātaścakśoḥ sūryo ajāyata । śrotrādvāyuśca prāṇaśca hṛdayātsarvamidaṃ jāyate ॥ iti prathamaḥ khaṇḍaḥ ॥ apānānniṣādā yakśarākśasagandharvāścāsthibhyaḥ parvatā lomabhya oṣadhivanaspatayo lalāṭātkrodhajo rudro jāyate tasyaitasya mahato bhūtasya niḥśvasitamevaitadyadṛgvado yajurvedaḥ sāmavedo'tharvavedaḥ śikśā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣāmayanaṃ nyāyo mīmāṃsā dharmaśāstrāṇi vyākhyānānyupavyākhyānāni ca sarvāṇi ca bhūtāni hiraṇyajyotiryasminnayamātmādhikśiyanti bhuvanāni viśvā ॥ ātmānaṃ dvidhākarodardhena strī ardhena puruṣo devo bhūtvā devānasṛjadṛṣirbhūtvā ṛṣīnyakśarākśasagandharvān- grāmyānāraṇyāṃśca paśūnasṛjaditarā gauritaro'naḍvānitaro vaḍavetaro'śva itarā gardabhītaro gardabha itarā viśvambharītaro viśvambharaḥ so'nte vaiśvānaro bhūtvā sandagdhvā sarvāṇi bhūtāni pṛthivyapsu pralīyata āpastejasi pralīyante tejo vāyau vilīyate vāyurākāśe vilīyata ākāśamindriyeṣvindriyāṇi tanmātreṣu tanmātrāṇi bhūtādau vilīyante bhūtādirmahati vilīyate mahānavyakte vilīyate'vyaktamakśare vilīyate akśaraṃ tamasi vilīyate tamaḥ pare deva ekībhavati parastānna sannāsannāsada- sadityetannirvāṇānuśāsanamiti vedānuśāsanamiti vedānuśāsanam ॥ iti dvitīyaḥ khaṇḍaḥ ॥ 2॥ asadvā idamagra āsīdajātamabhūtamapratiṣṭhita- maśabdamasparśamarūpamarasamagandhamavyayama- mahāntamabṛhantamajamātmānaṃ matvā dhīro na śocati ॥ apramāṇamamukhamaśrotramavāgamano'tejaskamacakśu- ṣkamanāmagotramaśiraskamapāṇipādamasnigdhamalohita- maprameyamahrasvamadīrghamasthūlamanaṇvanalpamapāra- manirdeśyamanapāvṛtamapratarkyamaprakāśyamasaṃvṛta- manantaramabāhyaṃ na tadaśnāti kiṃcana na tadaśnāti kaścanaitadvai satyena dānena tapasā'nāśakena brahmacaryeṇa nirvedanenānāśakena ṣaḍaṅgenaiva sādhayedetatrayaṃ vīkśeta damaṃ dānaṃ dayāmiti na tasya prāṇā utkrāmantyatraiva samavalīyante brahmaiva sanbrahmāpyeti ya evaṃ veda ॥ iti tṛtīyaḥ khaṇḍaḥ ॥ 3॥ hṛdayasya madhye lohitaṃ māṃsapiṇḍaṃ yasmiṃstaddaharaṃ puṇḍarīkaṃ kumudamivānekadhā vikasitaṃ hṛdayasya daśa chidrāṇi bhavanti yeṣu prāṇāḥ pratiṣṭhitāḥ sa yadā prāṇena saha saṃyujyate tadā paśyati nadyo nagarāṇi bahūni vividhāni ca yadā vyānena saha saṃyujyate tadā paśyati devāṃśca ṛṣīṃśca yadāpānena saha saṃyujyate tadā paśyati yakśarākśasagandharvānyadā udānena saha saṃyujyate tadā paśyati devalokāndevānskandaṃ jayantaṃ ceti yadā samānena saha saṃyujyate tadā paśyati devalokāndhanāni ca yadā vairambheṇa saha saṃyujyate tadā paśyati dṛṣṭaṃ ca śrutaṃ ca bhuktaṃ cābhuktaṃ ca saccāsacca sarvaṃ paśyati athemā daśa daśa nāḍyo bhavanti tāsāmekaikasya dvāsaptatirdvāsaptatiḥ śākhā nāḍīsahasrāṇi bhavanti yasminnayamātmā svapiti śabdānāṃ ca karotyatha yaddvitīye saṅkośe svapiti tademaṃ ca lokaṃ paraṃ ca lokaṃ paśyati sarvāñchabdānvijānāti sa samprasāda ityācakśate prāṇaḥ śarīraṃ parirakśati haritasya nīlasya pītasya lohitasya śvetasya nāḍyo rudhirasya pūrṇā athātraitaddaharaṃ puṇḍarīkaṃ kumudamivānekadhā vikasitaṃ yathā keśaḥ sahasradhā bhinnastathā hitā nāma nāḍyo bhavanti hṛdyākāśe pare kośe divyo'yamātmā svapiti yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati na tatra devā na devalokā yajñā na yajñā vā na mātā na pitā na bandhurna bāndhavo na steno na brahmahā tejaskāyamamṛtaṃ salila evedaṃ salilaṃ vanaṃ bhūyastenaiva mārgeṇa jāgrāya dhāvati samrāḍiti hovāca ॥ iti caturthaḥ khaṇḍaḥ ॥ 4॥ sthānāni sthānibhyo yacchati nāḍī teṣāṃ nibandhanaṃ cakśuradhyātmaṃ draṣṭavyamadhibhūtamādityastatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ yaścakśuṣi yo draṣṭavye ya āditye yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥ śrotramadhyātmaṃ śrotavyamadhibhūtaṃ diśastatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ yaḥ śrotre yaḥ śrotavye yo dikśu yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥ nāsādhyātmaṃ ghrātavyamadhibhūtaṃ pṛthivī tatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ yo nāsāyāṃ yo ghrātavye yaḥ pṛthivyāṃ yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥ jihvādhyātmaṃ rasayitavyamadhibhūtaṃ varuṇastatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ yastvaci yaḥ sparśayitavye yo varuṇe yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā tamātmānamupāsītājaramamamṛtamabhayamaśokamanantam ॥ tvagadhyātmaṃ sparśayitavyamadhibhūtaṃ vāyustatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ yastvaci yaḥ sparśayitavye yo vāyau yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥ mano'dhyātmaṃ mantavyamadhibhūtaṃ candrastatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ yo manasi yo mantavye yaścandre yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥ buddhiradhyātmaṃ boddhavyamadhibhūtaṃ brahmā tatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ yo buddhau yo boddhavye yo brahmaṇi yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥ ahaṅkāro'dhyātmamahaṃkartavyamadhibhūtaṃ rudrastatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ yo'haṅkāre yo'haṃkartavye yo rudre yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥ cittamadhyātmaṃ cetayitavyamadhibhūtaṃ kśetrajñastatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ yaścitte yaścetayitavye yaḥ kśetrajñe yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥ vāgadhyātmaṃ vaktavyamadhibhūtamagnistatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ yo vāci yo vaktavye yo'gnau yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥ hastāvadhyātmamādātavyamadhibhūtamindrastatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ yo haste ya ādātavye ya indre yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥ pādāvadhyātmaṃ gantavyamadhibhūtaṃ viṣṇustatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ yaḥ pāde yo gantavye yo viṣṇau yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥ pāyuradhyātmaṃ visarjayitavyamadhibhūtaṃ mṛtyustatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ yaḥ pāyau yo visarjayitavye yo mṛtyau yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥ upastho'dhyātmamānandayitavyamadhibhūtaṃ prajāpatistatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ ya upasthe ya ānandayitavye yaḥ prajāpatau yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā tamātmānamupasītājaramamṛtamabhayamaśokamanantam ॥ eṣa sarvajña eṣa sarveśvara eṣa sarvādhipatireṣo'ntaryāmyeṣa yoniḥ sarvasya sarvasaukhyerupāsyamāno na ca sarvasaukhyānyupāsyati vedaśāstrairupāsyamāno na ca vedaśāstrāṇyupāsyati yasyānamidaṃ sarve na ca yo'nnaṃ bhavatyataḥ paraṃ sarvanayanaḥ praśāstānnamayo bhūtātmā prāṇamaya indriyātmā manomayaḥ saṃkalpātmā vijñānamayaḥ kālātmānandamayo layātmaikatvaṃ nāsti dvaitaṃ kuto martyaṃ nāstyamṛtaṃ kuto nāntaḥprajño na bahiḥprajño nobhayataḥprajño na prajñāghano na prajño nāprajño'pi no viditaṃ vedyaṃ nāstītyetannirvāṇānuśāsanamiti vedānuśāsanamiti vedānuśāsanam ॥ iti pañcamaḥ khaṇḍaḥ ॥ 5॥ naiveha kiṃcanāgra āsīdamūlamanādhāramimāḥ prajāḥ prajāyante divyo deva eko nārāyaṇaścakśuśca draṣṭavyaṃ ca nārāyaṇaḥ śrotraṃ ca śrotavyaṃ ca nārāyaṇo ghrāṇaṃ ca ghrātavyaṃ ca nārāyaṇo jihvā ca rasayitavyaṃ ca nārāyaṇastvak ca sparśayitavyaṃ ca nārāyaṇo mataśca mantavyaṃ ca narāyaṇo buddhiśca boddhavyaṃ ca nārāyaṇo'hañkāraścāhaṃkārtavyaṃ ca nārāyaṇaścittaṃ ca cetayitavyaṃ ca nārāyaṇo vāk ca vaktavyaṃ ca nārāyaṇo hastau cādātavyaṃ ca nārāyaṇaḥ pādau ca gantavyaṃ ca nārāyaṇaḥ pāyuśca visarjayitavyaṃ ca nārāyaṇa upasthaścānandayitavyaṃ ca nārāyaṇo dhātā vidhātā kartā vikartā divyo deva eko nārāyaṇa ādityā rudrā maruto vasavo'śvināvṛco yajūṃṣi sāmāni mantro'gni- rājyāhutirnārāyaṇa udbhavaḥ sambhavo divyo deva eko nārāyaṇo mātā pitā bhrātā nivāsaḥ śaraṇaṃ suhṛdgatirnārāyaṇo virājā sudarśanājitāsomyāmoghākumārāmṛtāsatyāmadhyamānā- sīrāśiśutāsūrāsūryāsvarāvijñeyāni nāḍīnāmāni divyāni garjati gāyati vāti varṣati varuṇo'ryamā candramāḥ kalā kalirdhātā brahmā prajāpatirmaghavā divasāścārdhadivasāśca kalāḥ kalpāścordhvaṃ ca diśaśca sarvaṃ nārāyaṇaḥ ॥ puruṣa evedaṃ sarvaṃ yadbhūtaṃ yacca bhavyam । utāmṛtatvasyeśāno yadannenatirohati ॥ tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ । divīva cakśurātatam ॥ tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate । viṣṇoryatparamaṃ padam ॥ tadetannirvāṇānuśāsanamiti vedanuśāsanamiti vedānuśāsanam ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥ 6॥ antaḥśarīre nihito guhāyāmaja eko nityo yasya pṛthivī śarīraṃ yaḥ pṛthivīmantare saṃcaran yaṃ pṛthivī na veda ॥ yasyāpaḥ śarīraṃ yo'pontare saṃcaranyamāpo na viduḥ ॥ yasya tejaḥ śarīraṃ yastejontare saṃcaran yaṃ tejo na veda ॥ yasya vāyuaḥ śarīraṃ yo vāyumantare saṃcaran ya vāyurna veda ॥ yasyākāśaḥ śarīraṃ ya ākāśamantare saṃcaran yamākāśo na veda ॥ yasya manaḥ śarīraṃ yo manontare saṃcaran yaṃ mano na veda ॥ yasya buddhiḥ śarīraṃ yo buddhimantare saṃcaran yaṃ buddhirna veda ॥ yasyāhaṅkāraḥ śarīraṃ yo'haṅkāramantare saṃcaran yamahaṅkāro na veda ॥ yasya cittaṃ śarīraṃ yaścittamantare saṃcaran yaṃ cittaṃ na veda ॥ yasyāvyaktaṃ śarīraṃ yo'vyaktamantare saṃcaran yamavyaktaṃ na veda ॥ yasyākśaraṃ śarīraṃ yo'kśaramantare saṃcaran yamakśaraṃ na veda ॥ yasya mṛtyuḥ śarīraṃ yo mṛtyumantare saṃcaran yaṃ mṛtyurna veda ॥ sa eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇaḥ ॥ etāṃ vidyāmapāntaratamāya dadāvapāntaratamo brahmaṇe dadau brahmā ghorāṅgirase dadau ghorāṅgirā raikvāya dadau raikvo rāmāya dadau rāmaḥ sarvebhyo bhūtebhyo dadāvityevaṃ nirvāṇānuśāsanamiti vedānuśāsanamiti vedānuśāsanam ॥ iti saptamaḥ khaṇḍaḥ ॥ 7॥ antaḥśarīre nihito guhāyāṃ śuddhaḥ so'yamātmā sarvasya medomāṃsakledāvakīrṇe śarīramadhye'tyantopahate citrabhittipratīkāśe gandharvanagaropame kadalīgarbhavanniḥsāre jalabudbudavaccañcale niḥsṛtamātmānamacintyarūpaṃ divyaṃ devamasaṅgaṃ śuddhaṃ tejaskāyamarūpaṃ sarveśvaramacintyamaśarīraṃ nihitaṃ guhāyāmamṛtaṃ vibhrājamānamānandaṃ taṃ paśyanti vidvāṃsastena laye na paśyanti ॥ iti aṣṭamaḥ khaṇḍaḥ ॥ 8॥ atha hainaṃ raikvaḥ papraccha bhagavankasminsarve'staṃ gacchantīti ॥ tasmai sa hovāca cakśurevāpyeti yaccakśurevāstameti draṣṭavyamevapyeti yo draṣṭavyamevāstametyādityamevāpyeti ya ādityamevāstameti virājamevāpyeti yo virājamevāstameti prāṇamevāpyeti yaḥ prāṇamevāstameti vijñānamevāpyeti yo vijñānamevāstame- tyānandamevāpyeti ya ānandamevāstameti turīyamevāpyeti yasturīyamevāstameti tadamṛtamabhayamaśokamananta- nirbījamevāpyetīti hovāca ॥ śrotramevāpyeti yaḥ śrotramevāstameti śrotavyaevāpyeti yaḥ śrotavyamevāstameti diśamevāpyeti yo diśamevāstameti sudarśanāmevāpyeti yaḥ sudarśanāmevāstametyapānamevāpyeti yo'pānamevāstameti vijñānamevāpyeti yo vijñānamevāstameti tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥ nāsamevāpyeti yo nāsāmevāstameti ghrātavyamevāpyeti yo ghrātavyamevāstameti pṛthivimīvāpyeti yaḥ pṛthivīevāstameti jitāmevāpyeti yo jitāmevāstameti vyānamevāpyeti yo vyānamevāstameti vijñānamevāpyeti tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥ jihvāmevāpyeti yo jihvāmevāstameti rasayitavyamevāpyeti yo rasayitavyamevāstameti varuṇamevāpyeti yo varuṇamevāstameti saumyāmevāpyeti yaḥ saumyāmevāstametyudānamevāpyeti ya uadānamevāstameti vijñānamevāpyeti tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥ tvacamevāpyeti yastvacamevāstameti sparśayitavyamevāpyeti yaḥ sparśaitavyamevāstameti vāyumevāpyeti yo vāyumevāstameti modhāmevāpyeti yo modhāmevāstameti samānamevāpyeti yaḥ samānamevāstameti vijñānaevāpyeti tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥ vācamevāpyeti yo vācamevāstameti vaktavyamevāpyeti yo vaktavyamevāstametyagnimevāpyeti yo'gnimevāstameti kumārāmevāpyeti yaḥ kumārāmevāstameti vairambha- mevāpyeti yo vairambhamevāstameti vijñānamevāpyeti tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥ hastamevāpyeti yo hastamevāstametyādātavyamevāpyeti ya ādātavyamevāstametīndramevāpyeti ya indramevāsta- metyamṛtāmevāpyeti yo'mṛtāmevāstameti mukhyamevāpyeti yo mukhyamevāstameti vijñānamevāpyeti tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥ pādamevāpyeti yaḥ pādamevāstameti gantavyamevāpyeti yo gantavyamevāstameti viṣṇumevāpyeti yo viṣṇumevāstameti satyāmevāpyeti yaḥ satyāmevāstamettyantaryāmamevāpyeti yo'ntaryāmamevāstameti vijñānamevāpyeti tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥ pāyumevāpyeti yaḥ pāyumevāstameti visarjayitavyamevāpyeti yo visarjayitavyamevāstameti mṛtyumevāpyeti yo mṛtyumevāstameti madhyamāmevāpyeti yo madhyamāmevāstameti prabhañjanamevāpyeti yaḥ prabhañjanamevāstameti vijñānamevāpyeti tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥ upasthamevāpyeti ya upasthamevāstametyānandayitavyamevāpyeti ya ānandayitavyamevāstameti prajāpatimevāpyeti yaḥ prajāpati- mevāstameti nāsīrāmevāpyeti yo nāsīrāmevāstameti kumāramevāpyeti yaḥ kumāramevāstameti vijñānamevāpyeti tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥ mana evāpyeti yo mana evāstameti mantavyamevāpyeti yo mantavyamevāstameti candramevāpyeti yaścandramevāstameti śiśumevāpyeti yaḥ śiśumevāstameti śyenamevāpyeti yaḥ śyenamevāstameti vijñānamevāpyeti tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥ buddhimevāpyeti yo buddhimevāstameti boddhavyamevāpyeti yo boddhavyamevāstameti brahmāṇamevāpyeti yo brahmāṇamevāstameti sūryāmevāstameti yaḥ sūryāmevāstameti kṛṣṇamevāpyeti yaḥ kṛṣṇamevāstameti vijñānamevāpyeti tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥ ahaṅkāramevāpyeti yo'haṅkāramevāstame- tyahaṅkartavyamevāpyeti yo'haṅkartavyamevāstameti rudramevāpyeti yo rudramevāstametyasurāmevāpyeti yo'surāmevāstameti śvetamevāpyeti yaḥ śvetamevāstameti vijñānamevāpyeti tadamṛtamabhayamaśokamananta- nirbījamevāpyetīti hovāca ॥ cittamevāpyeti yaścittamevāstameti cetayitavyamevāpyeti yaścetayitavyamevāstameti kśetrajñamevāpyeti yaḥ kśetrajñamevāstameti bhāsvatīmevāpyeti yo bhāsvatī- mevāstameti nāgamevāpyeti yo nāgamevāstameti vijñāna- mevāpyeti yo vijñāmevāstametyānandamevāpyeti ya ānandamevāstameti turīyamevāpyeti yasturīyamevāstameti tadamṛtamabhayamaśokamanantaṃ nirbījamevāpyeti tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥ ya evaṃ nirbījaṃ veda nirbīja eva sa bhavati na jāyate na mriyate na muhyate na bhidyate na dahyate na chidyate na kampate na kupsate sarvadahano'yamātmetyācakśate naivamātmā pravacanaśatenāpi labhyate na bahuśrutena na buddhijñānāśritena na medhayā na vedairna yajñairna tapobhirugrairna sāṃkhyairna yogairnāśramairnānyairātmā- namupulabhante pravacanena praśaṃsayā vyutthānena tametaṃ brāhmaṇā śuśruvāṃso'nūcānā upalabhante śānto dānta uparatastitikśuḥ samāhito bhūtvātmanyevātmānaṃ paśyati sarvasyātmā bhavati ya evaṃ veda ॥ iti navamaḥ khaṇḍaḥ ॥ 9॥ atha hainaṃ raikvaḥ papraccha bhagavankasminsarve saṃpratiṣṭhitā bhavantīti rasātalalokeṣviti hovāca kasminrasātalalokā otāśca protāśceti bhūrlokeṣviti hovāca kasminbhūrlokā otāśca protāśceti bhuvarlokeṣviti hovāca kasminbhuvarlokā otāśca protāśceti suvarlokeṣviti hovāca kasminsuvarlokā otāśca protāśceti maharlokeṣviti hovāca kasminmaharlokā otāśca protāśceti janolokeṣviti hovāca kasmin janolokā otāśca protāśceti tapolokeṣviti hovāca kasmiṃstapolokā otāśca protāśceti satyalokeṣviti hovāca kasminsatyalokā otāśca protāśceti prajāpatilokeṣviti hovāca kasminprajāpatilokā otāśca protāśceti brahmalokeṣviti hovāca kasminbrahmalokā otāśca protāśceti sarvalokā ātmani brahmaṇi maṇaya ivautāśca protāśceti sa hovācaivametān lokānātmani pratiṣṭhitānvedātmaiva sa bhavatītyetannirvāṇānuśāsanamiti vedānuśāsanamiti vedānuśāsanam ॥ iti daśamaḥ khaṇḍaḥ ॥ 10॥ atha hainaṃ raikvaḥ papraccha bhagavanvo'yaṃ vijñānaghana utkrāmansa kena kataradvāva sthānamutsṛjyāpakrāmatīti tasmai sa hovāca hṛdayastha madhye lohitaṃ māṃsapiṇḍaṃ yasmi'nstaddaharaṃ puṇḍarīkaṃ kumudamivānekadhā vikasitaṃ tasya madhye samudraḥ samudrasya madhye kośastasminnnāḍyaścatasro bhavanti ramāramecchā'punarbhaveti tatra ramā puṇyena puṇyaṃ lokaṃ nayatyaramā pāpena pāpamicchayā yatsmarati tadabhisaṃpadyate apunarbhavayā kośaṃ bhinatti kośaṃ bhittvā śīrṣakapālaṃ bhinatti śīrṣakapālaṃ bhittvā pṛthivīṃ bhinatti pṛthivīṃ bhittvāpo bhinattyāpo bhittvā tejo bhinatti tejo bhittvā vāyuṃ bhinatti vāyuṃ bhittvākāśaṃ bhinattyākāśaṃ bhittvā mano bhinatti mano bhittvā bhūtādiṃ bhinatti bhūtādiṃ bhittvā mahāntaṃ bhinatti mahāntaṃ bhittvāvyaktaṃ bhinattyavyaktaṃ bhittvākśaraṃ bhinattyakśaraṃ bhittvā mṛtyuṃ bhinatti mṛtyurvai pare deva ekībhavatīti parastānna sannāsanna sadasadityetannirvāṇā- nuśāsanamiti vedānuśāsanamiti vedānuśāsanam ॥ ityekādaśaḥ khaṇḍaḥ ॥ 11॥ oṃ nārāyaṇādvā annamāgataṃ pakvaṃ brahmaloke mahāsaṃvartake punaḥ pakvamāditye punaḥ pakvaṃ krabyādi punaḥ pakvaṃ jālakilaklinnaṃ paryuṣitaṃ pūtamannamayācitamasaṃklṛptamaśnīyānna kaṃcana yāceta ॥ iti dvādaśaḥ khaṇḍaḥ ॥ 12॥ bālyena tiṣṭhāsedbālasvabhāvo'saṅgo niravadyo maunena pāṇḍityena niravadhikāratayopalabhyeta kaivalyamuktaṃ nigamanaṃ prajāpatiruvāca mahatpadaṃ jñātvā vṛkśamūle vaseta kucelo'sahāya ekākī samādhistha ātmakāma āptakāmo niṣkāmo jīrṇakāmo hastini siṃhe daṃśe maśake nakule sarparākśasagandharve mṛtyo rūpāṇi viditvā na bibheti kutaścaneti vṛkśamiva tiṣṭhāsecchidyamāno'pi na kupyeta na kampetotpalamiva tiṣṭhāsecchidyamāno'pi na kupyeta na kampetākāśamiva tiṣṭhāsecchidyamāno'pi na kupyeta na kampeta satyena tiṣṭhāsetsatyo'yamātmā sarveṣāmeva gandhānāṃ pṛthivī hṛdayaṃ sarveṣāmeva rasānāmāpo hṛdayaṃ sarveśāmeva rūpāṇāṃ tejo hṛdayaṃ sarveṣāmeva sparśānāṃ vāyurhṛdayaṃ sarveṣāmeva śabdānāmākāśaṃ hṛdayaṃ sarveṣāmeva gatīnāmavyaktaṃ hṛdayaṃ sarveṣāmeva sattvānāṃ mṛtyurhṛdayaṃ mṛtyurvai pare deva ekībhavatīti parastānna sannāsanna sadasadityetannirvāṇānuśāsanamiti vedānuśāsanamiti vedānuśāsanam ॥ iti trayodaśaḥ khaṇḍaḥ ॥ 13॥ oṃ pṛthivī vānnamāpo'nnādā āpo vānnaṃ jyotirannādaṃ jyotirvānnaṃ vāyurannādo vāyurvānnamākāśo'nnāda ākāśo vānnamindriyāṇyannādānīndriyāṇi vānnaṃ mano'nnādaṃ mano vānnaṃ buddhirannādā buddhirvānamavyaktamannadamavyaktaṃ vānnamakśaramannādamakśaraṃ vānnaṃ mṛtyurannādo mṛtyurvai pare deva ekībhavatīti parastānna sannāsanna sadasadityetannirvāṇā- nuśāsanamiti vedānuśāsanamiti vedānuśāsanam ॥ iti caturdaśaḥ khaṇḍaḥ ॥ 14॥ atha hainaṃ raikvaḥ papraccha bhagavanyo'yaṃ vijñānaghana utkrāmansa kena kataradvāva sthānaṃ dahatīti tasmai sa hovāca yo'yaṃ vijñānaghana utkrāmanprāṇaṃ dahatyapānaṃ vyānamudānaṃ samānaṃ vairambhaṃ mukhya- mantaryāmaṃ prabhañjanaṃ kumāraṃ śyenaṃ śvetaṃ kṛṣṇaṃ nāgaṃ dahati pṛthivyāpastejo- yvākāśaṃ dahati jāgaritaṃ svapnaṃ suṣuptaṃ turīyaṃ ca mahatāṃ ca lokaṃ paraṃ ca lokaṃ dahati lokālokaṃ dahati dharmādharmaṃ dahatyabhāskara- mamaryādaṃ nirālokamataḥ paraṃ dahati mahāntaṃ dahatyavyaktaṃ dahatyakśaraṃ dahati mṛtyuṃ dahati mṛtyurvai pare deva ekībhavatīti parastānna sannāsanna sadasadityetannirvāṇānuśāsanamiti vedānuśāsanamiti vedānuśāsanam ॥ iti pañcadaśaḥ khaṇḍaḥ ॥ 15॥ saubālabījabrahmopaniṣannāpraśāntāya dātavyā nāputrāya nāśiṣyāya nāsaṃvatsara- rātroṣitāya nāparijñātakulaśīlāya dātavyā naiva ca pravaktavyā । yasya deve parā bhaktiryathā deve tathā gurau । tasyaite kathitā hyarthāḥ prakāśante mahātmana ityetannirvāṇānuśāsanamiti vedānuśāsanamiti vedānuśāsanam ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥ 16॥ oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate । pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥ ॥ iti subālopaniṣatsamāptā ॥