ॐ सह ना-ववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विना-वधीत-मस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ अथातो रहस्योपनिषदं व्याख्यास्यामो देवर्षयो ब्रह्माणं संपूज्य प्रणिपत्य पप्रच्छुर्भगवन्नस्माकं रहस्योपनिषदं ब्रूहीति । सोऽब्रवीत्पुरा व्यासो महातेजाः सर्ववेदतपोनिधिः । प्रणिपत्य शिवं साम्बं कृताञ्जलिरुवाच ह ॥ १ ॥ श्रीवेदव्यास उवाच । देवदेव महाप्राज्ञ पाशच्छेददृढव्रत । शुकस्य मम पुत्रस्य वेदसंस्कारकर्मणि ॥ २ ॥ ब्रह्मोपदेशकालोऽयमिदानीं समुपस्थितः । ब्रह्मोपदेशः कर्तव्यो भवताद्य जगद्गुरो ॥३॥ ईश्वर उवाच । मयोपदिष्टे कैवल्ये साक्षाद्ब्रह्मणि शाश्वते । विहाय पुत्रो निर्वेदात्प्रकाशं यास्यति स्वयम् ॥ ४ ॥ श्रीवेदव्यास उवाच । यथा तथा वा भवतु ह्युपनयनकर्मणि । उपदिष्टे मम सुते ब्रह्मणि त्वत्प्रसादतः ॥ ५ ॥ सर्वज्ञो भवतु क्षिप्रं मम पुत्रो महेश्वर । तव प्रसादसंपन्नो लभेन्मुक्तिं चतुर्विधाम् ॥६॥ तच्छ्रुत्वा व्यासवचनं सर्वदेवर्षिसंसदि । उपदेष्टुं स्थितः शम्भुः साम्बो दिव्यासने मुदा ॥ ७ ॥ कृतकृत्यः शुकस्तत्र समागत्य सुभक्तिमान् । तस्मात्स प्रणवं लब्ध्वा पुनदित्यब्रवीच्छिवम् ॥ ८ ॥ श्रीशुक उवाच । देवादिदेव सर्वज्ञ सच्चिदानन्दलक्षण । उमारमण भूतेश प्रसीद करुणानिधे ॥ ९ ॥ उपदिष्टं परं ब्रह्म प्रणवान्तर्गतं परम् । तत्त्वमस्यादिवाक्यानां प्रज्ञादीनां विशेषतः ॥ १० ॥ श्रोतुमिच्छामि तत्त्वेन षडङ्गानि यथाक्रमम् । वक्तव्यानि रहस्यानि कृपयाद्य सदाशिव ॥ ११ ॥ श्री सदाशिव उवाच । साधु साधु महाप्राज्ञ शुक ज्ञाननिधे मुने । प्रष्टव्यं तु त्वया पृष्टं रहस्यं वेदगर्भितम् ॥ १२ ॥ रहस्योपनिषन्नाम्ना सषडङ्गमिहोच्यते । यस्य विज्ञानमात्रेण मोक्षः साक्षान्न संशयः ॥ १३ ॥ अङ्गहीनानि वाक्यानि गुरुर्नोपदिशेत्पुनः । सषडङ्गान्युपदिशेन्महावाक्यानि कृत्स्नशः ॥ १४ ॥ चतुर्णामपि वेदानां यथोपनिषद शिरः । इयं रहस्योपनिषत्तथोपनिषदां शिरः ॥ १५ ॥ रहस्योपनिषद्ब्रह्म ध्यातं येन विपश्चिता । तीर्थैर्मन्त्रैः श्रुतैर्जप्यैस्तस्य किं पुण्यहेतुभिः ॥ १६ ॥ वाक्यार्थस्य विचारेण यदाप्नोति शरच्छतम् । एकवारजपेनैव ऋष्यादिध्यानतश्च यत् ॥ १७ ॥ ॐ अस्य श्रीमहावाक्यमहामन्त्रस्य हंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् । सः शक्तिः । सोऽहं कीलकम् । मम परमहंसप्रीत्यर्थे महावाक्यजपे विनियोगः । सत्यं ज्ञानमनन्तं ब्रह्म अङ्गुष्ठाभ्यां नमः । नित्यानन्दो ब्रह्म तर्जनीभ्यां स्वाहा । नित्यानन्दमयं ब्रह्म मध्यमाभ्यां वषट् । यो वै भूमा अनामिकाभ्यां हुम् । यो वै भूमाधिपतिः कनिष्ठिकाभ्यां वौषट् । एकमेवाद्वितीयं ब्रह्म करतलकरपृष्टाभ्यां फट् ॥ सत्यं ज्ञानमनन्तं ब्रह्म हृदयाय नमः । नित्यानन्दो ब्रह्म शिरसे स्वाहा । नित्यानन्दमयं ब्रह्म शिखायै वषट् । यो वै भूमा कवचाय हुम् । यो वै भूमाधिपतिः नेत्रत्रयाय वौषट् । एकमेवाद्वितीयं ब्रह्म अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः । ध्यानम् । नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादि लक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १ ॥ अथ महावाक्यानि चत्वारि । यथा ॐ प्रज्ञानं ब्रह्म ॥१ ॥ ॐ अहं ब्रह्मास्मि ॥ २ ॥ ॐ तत्त्वमसि ॥ ३ ॥ ॐ अयमात्मा ब्रह्म ॥ ४ ॥ तत्त्वमसीत्यभेदवाचकमिदं ये जपन्ति ते शिवसायुज्यमुक्तिभाजो भवन्ति ॥ तत्पदमहामन्त्रस्य परमहंस ऋषिः । अव्यक्तगायत्री छन्दः । परमहंसो देवता । हं बीजम् । सः शक्तिः । सोऽहं कीलकम् । मम सायुज्ययुक्त्यर्थे जपे विनियोगः । तत्पुरुषाय अङ्गुष्ठाभ्यां नमः । ईशानाय तर्जज्नीभ्यां स्वाहा । अघोराय मध्यमाभ्यां वषट् । सद्योजाताय अनामिकाभ्यां हुम् । वामदेवाय कनिष्ठिकाभ्यां वौषट् । तत्पुरुषेशानाघोरसद्योरसद्योजातवामदेवेभ्यो नमः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ ध्यानम् । ज्ञानं ज्ञेयं ज्ञानगम्यादतीतं शुद्धं बुद्धं मुक्तमप्यव्ययं च । सत्यं ज्ञानं सच्चिदानन्दरूपं ध्यायेदेवं तन्महो भ्राजमानम् ॥ त्वंपदमहामन्त्रस्य विष्णुः ऋषिः । गायत्रीछन्द । परमात्मा देवता । ऐं बीजम् । क्लीं शक्तिः । सौः कीलकम् । मम मुक्त्यर्थे जपे विनियोगः । वासुदेवाय अङ्गुष्ठाभ्यां मनः । संकर्षणाय तर्जनीभ्यां स्वाहा । प्रद्युम्नाय मध्यमाभ्यां वषट् । अनिरुद्धाय अनामिकाभ्यां हुम् । वासुदेवाय कनिष्ठिकाभ्यां वौषट् । वासुदेवसंकर्षणप्रद्युम्नानिरुद्धेभ्यः करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ ध्यानम् ॥ जीवत्वं सर्वभूतानां सर्वत्राखण्डविग्रहम् । चित्ताहंकारयन्तारं जीवाख्यं त्वंपदं भजे । असिपदमहामन्त्रस्य मन ऋषिः । गायत्री छन्दः । अर्धनारीश्वरो देवता । अव्यक्तादिर्बीजम् । नृसिंहः शक्तिः । परमात्मा कीलकम् । जीवब्रह्मैक्यार्थे जपे विनियोगः । पृथ्वीव्द्यणुकाय अङ्गुष्ठाभ्यां नमः । अव्द्यणुकाय तर्जनीभ्यां स्वाहा । तेजोव्द्यणुकाय मध्यमाभ्यां वषट् । वायुव्द्यणुकाय अनामिकाभ्यां हुम् । आकाशव्द्यणुकाय कनिष्ठिकाभ्यां वौषट् । पृथिव्यप्तेजोवाय्वाकाशव्द्यणुकेभ्यः करतलकरपृष्ठाभ्यां फट् । भूर्भुवःसुवरोमिति दिग्बन्धः ॥ ध्यानम् ॥ जीवो ब्रह्मेति वाक्यार्थं यावदस्ति मनःस्थितिः । ऐक्यं तत्त्वं लये कुर्वन्ध्यायेदसिपदं सदा ॥ एवं महावाक्यषडङ्गान्युक्तानि ॥ अथ रहस्योपनिषद्विभागशो वाक्यार्थश्लोकाः प्रोच्यन्ते ॥ येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च । स्वाद्वस्वादु विजानाति तत्प्रज्ञानमुदीरितम् ॥ १ ॥ चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु । चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि ॥ २ ॥ परिपूर्णः परात्मास्मिंन्देहे विद्याधिकारिणि । बुद्धेः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते ॥ ३ ॥ स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः । अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् ॥ ४ ॥ एकमेवाद्वितीयं सन्नामरूपविवर्जितम् । सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीर्यते ॥ ५ ॥ श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वंपदेरितम् । एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम् ॥ ६ ॥ स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् । अहंकारादिदेहान्तं प्रत्यगात्मेति गीयते ॥ ७ ॥ दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते । ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् ॥ ८ ॥ अनात्मदृष्टेरविवेकनिद्रामहं मम स्वप्नगतिं गतोऽहम् । स्वरूपसूर्येऽभ्युदिते स्फुटोक्तेर्गुरोर्महावाक्यपदैः प्रबुद्धः ॥ ९ ॥ वाच्यं लक्ष्यमिति द्विधार्थसरणीवाच्यस्य हि त्वंपदे वाच्यं भौतिकमिन्द्रियादिरपि यल्लक्ष्यं त्वमर्थश्च सः । वाच्यं तत्पदमीशताकृतमतिर्लक्ष्यं तु सच्चित्सुखानन्दब्रह्म तदर्थ एष च तयोरैक्यं त्वसीदं पदम् ॥ १० ॥ त्वमिति तदिति कार्ये कारणे सत्युपाधौ द्वितयमितरथैकं सच्चिदानन्दरूपम् । उभयवचनहेतू देशकलौ च हित्वा जगति भवति सोऽयं देवदत्तो यथैकः ॥ ११ ॥ कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते ।१२। श्रवणं तु गुरोः पूर्वं मननं तदनन्तरम् । निदिध्यासनमित्येतत्पूर्णबोधस्य कारणम् ॥ १३ ॥ अन्यविद्यापरिज्ञानमवश्यं नश्वरं भवेत् । ब्रह्मविद्यापरिज्ञानं ब्रह्मपाप्तिकरं स्थितम् ॥ १४ ॥ महावाक्यान्युपदिशेत्सषडङ्गानि देशिकः । केवलं नहि वाक्यानि ब्रह्मणो वचनं यथा ॥ १५ ॥ ईश्वर उवाच । एवमुक्ता मुनिश्रेष्ठ रहस्योपनिच्छुक । मया पित्रानुनीतेन व्यासेन ब्रह्मवादिना ॥ १६ ॥ ततो ब्रह्मोपदिष्टं वै सच्चिदानन्दलक्षणम् । जीवन्मुक्तः सदा ध्यायन्नित्यस्त्वं विहरिष्यसि ॥ १७ ॥ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ १८ ॥ उपदिष्टः शिवेनेति जगत्तन्मयतां गतः । उत्थाय प्रणिपत्येशं त्यक्ताशेषपरिग्रहः ॥ १९ ॥ परब्रह्मपयोराशौ प्लवन्निव ययौ तदा । प्रव्रजन्तं तमालोक्य कृष्णद्वैपायनो मुनिः ॥ २० ॥ अनुव्रजन्नाजुहाव पुत्रविश्लेषकातरः । प्रतिनेदुस्तदा सर्वे जगत्स्थावरजङ्गमाः ॥ २१ ॥ तच्छ्रुत्वा सकलाकारं व्यासः सत्यवतीसुतः । पुत्रेण सहितः प्रीत्या परानन्दमुपेयिवान् ॥ २२ ॥ यो रहस्योपनिषदमधीते गुर्वनुग्रहात् । सर्वपापविनिर्मुक्तः साक्षात्कैवल्यमश्नुते साक्षात्कैवल्यमश्नुत इत्युपनिषत् ॥ ॐ सह ना-ववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विना-वधीत-मस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥ इति याजुषी शुकरहस्योपनिषत्समाप्ता ॥
Om ! May He protect us both together; may He nourish us both together; May we work conjointly with great energy, May our study be vigorous and effective; May we not mutually dispute (or may we not hate any). Om ! Let there be Peace in me ! Let there be Peace in my environment ! Let there be Peace in the forces that act on me ! 1-19. Now we expound the Rahasya Upanishad: the divine sages, worshipping Brahma, asked: Lord, tell us the Rahasya Upanishad. He said, ‘In the past Vyasa, the treasure of all Vedas and penance asked Shiva: O Lord of great wisdom, who has vowed firmly to break the bondage (of life). The time has come to give initiation to my son Suka into the sacrament of Veda’. Shiva said, ‘When the sole Brahman is imparted by me, your son will depart by himself having got detachment’. Vyasa said: Be it as it may; in the Upanayana, when Brahman is imparted, may my son become omniscient very quickly and get the four kinds of Moksha. Then Shiva, hearing this sat in a divine seat to give instruction. Suka, the fortunate, came there with devotion and getting the Pranava, spoke again to Shiva. Suka aid, ‘First among gods, all-knowing, be pleased. The supreme Brahman, inherent in Om, has been imparted; the special sense ‘That Thou Art’ etc., with the six limbs, I desire to hear’. Shiva said, ‘Well said, O treasure of knowledge, you have asked for the desirable, the mystery of the Vedic texts, named Rahasyopanishad with the six parts, knowing which one shall be directly released. The texts without the six parts one should not teach. Just as Upanishads are the crown of the Vedas, so is the Rahasya of Upanishads. For the wise man who meditates upon Brahman, holy spots, Vedic rites and mantras are useless. One wins a hundred years of life, meditating the sense of major texts. The same is won, uttering this once. 20. Om, for this mantra, Hamsa is the Rishi, unmanifest Gayatri is the metre, deity is Paramahamsa, Hamsa is the seed, Sama-Veda is the power. ‘I am That’ is the pin. Its application is in the context of uttering the major text to secure the grace of the Paramahamsa. ‘Truth, knowledge, infinity is Brahman. Bow to the thumbs, ‘Eternal joy is Brahman’ – Svaha to the index fingers. ‘Brahman is eternal joy, mostly’ – Vasat to the middle fingers. ‘That which is plenitude’ – Hum to the ring fingers. ‘The lord of plenitude’ – Vasat to the little fingers. ‘One and non-dual is Brahman. Phat’ to the inside and outside of the palms. ‘Truth, knowledge, infinity is Brahman’ – Phat to the inside and outside of the palm. ‘Truth, knowledge, infinity is Brahman – bow to the heart’. ‘Eternal bliss is Brahman’ – Svaha to the head – Vasat to the braid of hair. ‘That which is plenitude’ – Hum to armour – Vausat to the three eyes. ‘One and non-dual Brahman’ – Phat to the missile. The earth, old region, heaven, Om, this is the link of space. 21-22. Meditation: I bow to the noble teacher, beyond becoming and the three Gunas, one, eternal, holy, witness of all knowledge, giver of bliss, beyond the world, sky-like, purpose of major texts. The four major passages: (1) Consciousness is Brahman (2) I am Brahman (3) That Thou Art and (4) This self is Brahman. Those who recite the statement of identity become liberated in Sayujya (identity). 23-24. Of the great incantation ‘Tat’, the seer is Hamsa, un-manifest Gayatri is the metre. Paramahamsa the deity; Hamsa the seed; Sama-Veda, power; So’ham is the pin; application is the meditation for my liberation. Bow to the thumbs, to that aspirant Svaha to Isana, the index fingers, Vasat to Aghora the middle fingers, to Sadyojata, the ring fingers, hum; to Vamadeva, the little fingers Vausat; to that spirit, Isana, Aghora etc. Phat. Meditation: Meditate on that shining light as knowledge and its objects and what is beyond them both, taintless, awake, free and imperishable. 25-26. Of the chant of ‘Tvam’ Vishnu is the seer, Gayatri is the metre, supreme self the deity, ‘aim’ the seed, ‘klim’ the power, ‘sauh’ the pin, application is to the repetition for my liberation. Bow to Vasudeva, to the thumbs: Svaha to Samkarsana, the index-fingers; Vasat to Pradyumna, the middle fingers; Hum to Aniruddha, the ring fingers; Vausat to Vasudeva, the little finger; Phat to Vasudeva and others. Meditation: I adore the word ‘Thou’ the Jiva state, in all living things, everywhere, impartite form, controller of mind and egoism. 27. For ‘Asi’, the seer is Manah, metre Gayatri, deity Ardhanarishvara, seed is Avyaktadi, power is Nrisimha, pin is supreme Self. Application is repetition for identification of Jiva and Brahman. I bow to the thumbs, the dyad of Earth; Svaha to the index finger, the dyad of water. Vasat to the middle fingers, the dyad of fire; Hum to the ring fingers, the dyad of Air; Vausat for the little fingers, the dyad of Ether; Phat for the front and back of the hand, the dyad of Earth etc. So too the consecration of the heart. Bhuh, Bhuvah, Svah, Om. Thus the directions are enclosed. 28-29. Meditation: ‘Meditate ever on Asi, thou art. Aiming at the merger of Jiva in that, as long as the mind dwells on the purport’. Thus have been stated the six limbs of the major texts. 30-38. Now according to the classification of the mystic teachings are set forth the verses on the purport. Prajnana is that whereby one sees, hears, smells and makes clear all objects here, pleasant and unpleasant, by which one knows. In the four-faced Brahman, Indra and Devas, men, horses, cows, etc., spirit is one Brahman – so, in me too Prajnana is Brahman. In this body being remains witness to the intellect and is called I. The Being full in itself is described as Brahman, referred to with Asmi. So, I am Brahman. The being, one without a second, without name and form before creation and even now is called That. The being called Thou here beyond the senses understood as one. Let this unity be experienced. The inner self, from ego to the body, is called this (ayam) because it is self-luminous and realizes intimately. The truth of the universe is stated of all that is seen by the word Brahman. 39. I was in the state of dream of ‘I’ and “Mine’ because of the absence of the vision of the spirit. But I was awakened when the sun of my own nature arose by means of the major texts spoken clearly by the perception. 40-42. Senses has two ways: expressed and implied. In ‘Tattvam Asi’ the expressed meaning is the senses etc., which are elemental and the implied is, ‘He’ in ‘you’ (Tvam), in the word Tat the expressed sense is lordship etc., the implied is the supreme being which is Sat, Chit and Ananda. ‘Asi’ identifies these two. Tvam and Tad mean effect and cause respectively when this is the adjunct; otherwise both are the same Sat, Chit and Ananda – separating the space and time faites the identity is got, just as in the world, in the expression, ‘This is that Devadatta’. The Jiva is having the effect-adjunct, Isa has cause-adjunct – when both are removed, only the full knowledge remains. 43-45. First hearing from the Guru, then thought about it and meditation – this is the cause of full knowledge. Other knowledge will surely perish, while the knowledge of Brahman leads to Brahman. The Guru should instruct the words of the Upanishad with the limbs, not merely the words – These are Brahma’s words. 46-53. Ishvara said, ‘O Suka, thus being instructed by me as requested by Vyasa, you will become Jivanmukta’. The Svara which is uttered at the start of Veda is Parameshvara. Suka being thus instructed by Shiva became one with the universe; rose, bowed to Shiva and giving up all possessions, went away as if swimming in the ocean of the supreme spirit. Vyasa, seeing him go away as a recluse, went after him calling, affected by separation. All the world echoed him. Hearing this Vyasa was over joyed along with his son. He who learns this through the Guru’s grace will become released from all sin and enjoy Moksha. Thus the Upanishad. Om ! May He protect us both together; may He nourish us both together; May we work conjointly with great energy, May our study be vigorous and effective; May we not mutually dispute (or may we not hate any). Om ! Let there be Peace in me ! Let there be Peace in my environment ! Let there be Peace in the forces that act on me ! Here ends the Sukarahasyopanishad belonging to the Krishna-Yajur-Veda.
oṃ saha nā-vavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai । tejasvinā-vadhīta-mastu mā vidviṣāvahai । oṃ śāntiḥ śāntiḥ śāntiḥ ॥ athāto rahasyopaniṣadaṃ vyākhyāsyāmo devarṣayo brahmāṇaṃ saṃpūjya praṇipatya papracchurbhagavannasmākaṃ rahasyopaniṣadaṃ brūhīti । so'bravītpurā vyāso mahātejāḥ sarvavedataponidhiḥ । praṇipatya śivaṃ sāmbaṃ kṛtāñjaliruvāca ha ॥ 1 ॥ śrīvedavyāsa uvāca । devadeva mahāprājña pāśacchedadṛḍhavrata । śukasya mama putrasya vedasaṃskārakarmaṇi ॥ 2 ॥ brahmopadeśakālo'yamidānīṃ samupasthitaḥ । brahmopadeśaḥ kartavyo bhavatādya jagadguro ॥3॥ īśvara uvāca । mayopadiṣṭe kaivalye sākṣādbrahmaṇi śāśvate । vihāya putro nirvedātprakāśaṃ yāsyati svayam ॥ 4 ॥ śrīvedavyāsa uvāca । yathā tathā vā bhavatu hyupanayanakarmaṇi । upadiṣṭe mama sute brahmaṇi tvatprasādataḥ ॥ 5 ॥ sarvajño bhavatu kṣipraṃ mama putro maheśvara । tava prasādasaṃpanno labhenmuktiṃ caturvidhām ॥6॥ tacchrutvā vyāsavacanaṃ sarvadevarṣisaṃsadi । upadeṣṭuṃ sthitaḥ śambhuḥ sāmbo divyāsane mudā ॥ 7 ॥ kṛtakṛtyaḥ śukastatra samāgatya subhaktimān । tasmātsa praṇavaṃ labdhvā punadityabravīcchivam ॥ 8 ॥ śrīśuka uvāca । devādideva sarvajña saccidānandalakṣaṇa । umāramaṇa bhūteśa prasīda karuṇānidhe ॥ 9 ॥ upadiṣṭaṃ paraṃ brahma praṇavāntargataṃ param । tattvamasyādivākyānāṃ prajñādīnāṃ viśeṣataḥ ॥ 10 ॥ śrotumicchāmi tattvena ṣaḍaṅgāni yathākramam । vaktavyāni rahasyāni kṛpayādya sadāśiva ॥ 11 ॥ śrī sadāśiva uvāca । sādhu sādhu mahāprājña śuka jñānanidhe mune । praṣṭavyaṃ tu tvayā pṛṣṭaṃ rahasyaṃ vedagarbhitam ॥ 12 ॥ rahasyopaniṣannāmnā saṣaḍaṅgamihocyate । yasya vijñānamātreṇa mokṣaḥ sākṣānna saṃśayaḥ ॥ 13 ॥ aṅgahīnāni vākyāni gururnopadiśetpunaḥ । saṣaḍaṅgānyupadiśenmahāvākyāni kṛtsnaśaḥ ॥ 14 ॥ caturṇāmapi vedānāṃ yathopaniṣada śiraḥ । iyaṃ rahasyopaniṣattathopaniṣadāṃ śiraḥ ॥ 15 ॥ rahasyopaniṣadbrahma dhyātaṃ yena vipaścitā । tīrthairmantraiḥ śrutairjapyaistasya kiṃ puṇyahetubhiḥ ॥ 16 ॥ vākyārthasya vicāreṇa yadāpnoti śaracchatam । ekavārajapenaiva ṛṣyādidhyānataśca yat ॥ 17 ॥ oṃ asya śrīmahāvākyamahāmantrasya haṃsa ṛṣiḥ । avyaktagāyatrī chandaḥ । paramahaṃso devatā । haṃ bījam । saḥ śaktiḥ । so'haṃ kīlakam । mama paramahaṃsaprītyarthe mahāvākyajape viniyogaḥ । satyaṃ jñānamanantaṃ brahma aṅguṣṭhābhyāṃ namaḥ । nityānando brahma tarjanībhyāṃ svāhā । nityānandamayaṃ brahma madhyamābhyāṃ vaṣaṭ । yo vai bhūmā anāmikābhyāṃ hum । yo vai bhūmādhipatiḥ kaniṣṭhikābhyāṃ vauṣaṭ । ekamevādvitīyaṃ brahma karatalakarapṛṣṭābhyāṃ phaṭ ॥ satyaṃ jñānamanantaṃ brahma hṛdayāya namaḥ । nityānando brahma śirase svāhā । nityānandamayaṃ brahma śikhāyai vaṣaṭ । yo vai bhūmā kavacāya hum । yo vai bhūmādhipatiḥ netratrayāya vauṣaṭ । ekamevādvitīyaṃ brahma astrāya phaṭ । bhūrbhuvaḥsuvaromiti digbandhaḥ । dhyānam । nityānandaṃ paramasukhadaṃ kevalaṃ jñānamūrtiṃ dvandvātītaṃ gaganasadṛśaṃ tattvamasyādi lakṣyam । ekaṃ nityaṃ vimalamacalaṃ sarvadhīsākṣibhūtaṃ bhāvātītaṃ triguṇarahitaṃ sadguruṃ taṃ namāmi ॥ 1 ॥ atha mahāvākyāni catvāri । yathā oṃ prajñānaṃ brahma ॥1 ॥ oṃ ahaṃ brahmāsmi ॥ 2 ॥ oṃ tattvamasi ॥ 3 ॥ oṃ ayamātmā brahma ॥ 4 ॥ tattvamasītyabhedavācakamidaṃ ye japanti te śivasāyujyamuktibhājo bhavanti ॥ tatpadamahāmantrasya paramahaṃsa ṛṣiḥ । avyaktagāyatrī chandaḥ । paramahaṃso devatā । haṃ bījam । saḥ śaktiḥ । so'haṃ kīlakam । mama sāyujyayuktyarthe jape viniyogaḥ । tatpuruṣāya aṅguṣṭhābhyāṃ namaḥ । īśānāya tarjajnībhyāṃ svāhā । aghorāya madhyamābhyāṃ vaṣaṭ । sadyojātāya anāmikābhyāṃ hum । vāmadevāya kaniṣṭhikābhyāṃ vauṣaṭ । tatpuruṣeśānāghorasadyorasadyojātavāmadevebhyo namaḥ karatalakarapṛṣṭhābhyāṃ phaṭ । evaṃ hṛdayādinyāsaḥ । bhūrbhuvaḥsuvaromiti digbandhaḥ ॥ dhyānam । jñānaṃ jñeyaṃ jñānagamyādatītaṃ śuddhaṃ buddhaṃ muktamapyavyayaṃ ca । satyaṃ jñānaṃ saccidānandarūpaṃ dhyāyedevaṃ tanmaho bhrājamānam ॥ tvaṃpadamahāmantrasya viṣṇuḥ ṛṣiḥ । gāyatrīchanda । paramātmā devatā । aiṃ bījam । klīṃ śaktiḥ । sauḥ kīlakam । mama muktyarthe jape viniyogaḥ । vāsudevāya aṅguṣṭhābhyāṃ manaḥ । saṃkarṣaṇāya tarjanībhyāṃ svāhā । pradyumnāya madhyamābhyāṃ vaṣaṭ । aniruddhāya anāmikābhyāṃ hum । vāsudevāya kaniṣṭhikābhyāṃ vauṣaṭ । vāsudevasaṃkarṣaṇapradyumnāniruddhebhyaḥ karatalakarapṛṣṭhābhyāṃ phaṭ । evaṃ hṛdayādinyāsaḥ । bhūrbhuvaḥsuvaromiti digbandhaḥ ॥ dhyānam ॥ jīvatvaṃ sarvabhūtānāṃ sarvatrākhaṇḍavigraham । cittāhaṃkārayantāraṃ jīvākhyaṃ tvaṃpadaṃ bhaje । asipadamahāmantrasya mana ṛṣiḥ । gāyatrī chandaḥ । ardhanārīśvaro devatā । avyaktādirbījam । nṛsiṃhaḥ śaktiḥ । paramātmā kīlakam । jīvabrahmaikyārthe jape viniyogaḥ । pṛthvīvdyaṇukāya aṅguṣṭhābhyāṃ namaḥ । avdyaṇukāya tarjanībhyāṃ svāhā । tejovdyaṇukāya madhyamābhyāṃ vaṣaṭ । vāyuvdyaṇukāya anāmikābhyāṃ hum । ākāśavdyaṇukāya kaniṣṭhikābhyāṃ vauṣaṭ । pṛthivyaptejovāyvākāśavdyaṇukebhyaḥ karatalakarapṛṣṭhābhyāṃ phaṭ । bhūrbhuvaḥsuvaromiti digbandhaḥ ॥ dhyānam ॥ jīvo brahmeti vākyārthaṃ yāvadasti manaḥsthitiḥ । aikyaṃ tattvaṃ laye kurvandhyāyedasipadaṃ sadā ॥ evaṃ mahāvākyaṣaḍaṅgānyuktāni ॥ atha rahasyopaniṣadvibhāgaśo vākyārthaślokāḥ procyante ॥ yenekṣate śṛṇotīdaṃ jighrati vyākaroti ca । svādvasvādu vijānāti tatprajñānamudīritam ॥ 1 ॥ caturmukhendradeveṣu manuṣyāśvagavādiṣu । caitanyamekaṃ brahmātaḥ prajñānaṃ brahma mayyapi ॥ 2 ॥ paripūrṇaḥ parātmāsmiṃndehe vidyādhikāriṇi । buddheḥ sākṣitayā sthitvā sphurannahamitīryate ॥ 3 ॥ svataḥ pūrṇaḥ parātmātra brahmaśabdena varṇitaḥ । asmītyaikyaparāmarśastena brahma bhavāmyaham ॥ 4 ॥ ekamevādvitīyaṃ sannāmarūpavivarjitam । sṛṣṭeḥ purādhunāpyasya tādṛktvaṃ taditīryate ॥ 5 ॥ śroturdehendriyātītaṃ vastvatra tvaṃpaderitam । ekatā grāhyate'sīti tadaikyamanubhūyatām ॥ 6 ॥ svaprakāśāparokṣatvamayamityuktito matam । ahaṃkārādidehāntaṃ pratyagātmeti gīyate ॥ 7 ॥ dṛśyamānasya sarvasya jagatastattvamīryate । brahmaśabdena tadbrahma svaprakāśātmarūpakam ॥ 8 ॥ anātmadṛṣṭeravivekanidrāmahaṃ mama svapnagatiṃ gato'ham । svarūpasūrye'bhyudite sphuṭoktergurormahāvākyapadaiḥ prabuddhaḥ ॥ 9 ॥ vācyaṃ lakṣyamiti dvidhārthasaraṇīvācyasya hi tvaṃpade vācyaṃ bhautikamindriyādirapi yallakṣyaṃ tvamarthaśca saḥ । vācyaṃ tatpadamīśatākṛtamatirlakṣyaṃ tu saccitsukhānandabrahma tadartha eṣa ca tayoraikyaṃ tvasīdaṃ padam ॥ 10 ॥ tvamiti taditi kārye kāraṇe satyupādhau dvitayamitarathaikaṃ saccidānandarūpam । ubhayavacanahetū deśakalau ca hitvā jagati bhavati so'yaṃ devadatto yathaikaḥ ॥ 11 ॥ kāryopādhirayaṃ jīvaḥ kāraṇopādhirīśvaraḥ kāryakāraṇatāṃ hitvā pūrṇabodho'vaśiṣyate ।12। śravaṇaṃ tu guroḥ pūrvaṃ mananaṃ tadanantaram । nididhyāsanamityetatpūrṇabodhasya kāraṇam ॥ 13 ॥ anyavidyāparijñānamavaśyaṃ naśvaraṃ bhavet । brahmavidyāparijñānaṃ brahmapāptikaraṃ sthitam ॥ 14 ॥ mahāvākyānyupadiśetsaṣaḍaṅgāni deśikaḥ । kevalaṃ nahi vākyāni brahmaṇo vacanaṃ yathā ॥ 15 ॥ īśvara uvāca । evamuktā muniśreṣṭha rahasyopanicchuka । mayā pitrānunītena vyāsena brahmavādinā ॥ 16 ॥ tato brahmopadiṣṭaṃ vai saccidānandalakṣaṇam । jīvanmuktaḥ sadā dhyāyannityastvaṃ vihariṣyasi ॥ 17 ॥ yo vedādau svaraḥ prokto vedānte ca pratiṣṭhitaḥ । tasya prakṛtilīnasya yaḥ paraḥ sa maheśvaraḥ ॥ 18 ॥ upadiṣṭaḥ śiveneti jagattanmayatāṃ gataḥ । utthāya praṇipatyeśaṃ tyaktāśeṣaparigrahaḥ ॥ 19 ॥ parabrahmapayorāśau plavanniva yayau tadā । pravrajantaṃ tamālokya kṛṣṇadvaipāyano muniḥ ॥ 20 ॥ anuvrajannājuhāva putraviśleṣakātaraḥ । pratinedustadā sarve jagatsthāvarajaṅgamāḥ ॥ 21 ॥ tacchrutvā sakalākāraṃ vyāsaḥ satyavatīsutaḥ । putreṇa sahitaḥ prītyā parānandamupeyivān ॥ 22 ॥ yo rahasyopaniṣadamadhīte gurvanugrahāt । sarvapāpavinirmuktaḥ sākṣātkaivalyamaśnute sākṣātkaivalyamaśnuta ityupaniṣat ॥ oṃ saha nā-vavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai । tejasvinā-vadhīta-mastu mā vidviṣāvahai । oṃ śāntiḥ śāntiḥ śāntiḥ ॥ iti yājuṣī śukarahasyopaniṣatsamāptā ॥